अक्षि: Om

अक्षीणि इन्द्रियाणि सन्ति यैः वयं प्रकाशस्य दर्शनं कुर्मः। मनुष्याणां द्वौ अक्षिणी स्तः। ते वक्त्रे शोभेते । ये ताभ्यां स्पष्टं द्रष्टुं न शक्नुवन्ति ते उपनेत्राणि धारयन्ति । इदं नेत्रम् आङ्ग्लभाषायां Eye इति उच्यते । इदं नेत्रं दर्शनेन्द्रियम् अस्ति ।

अक्षि: सर्वेन्द्रियाणां नयनं प्रधानम्, प्रक्षेपणयन्त्ररूपेण मनुष्यस्य चक्षुः, नेत्रद्वारा प्रतिबिम्बनिर्माणम्
सामान्यमनुष्याक्षि
अक्षि
अङ्गक्रिया दर्शन इन्द्रिय:

सर्वेन्द्रियाणां नयनं प्रधानम्

नयनेन्द्रियं मानवस्य प्रधानं ज्ञानकारणम्‌ । दृष्टवा वयं जगज्जानीमः । तदाधारेणैव सकलम्‌ अन्यद्‌ विद्मः । प्रकृत्या दत्तेषु वरेषु नयनं श्रेष्ठत्म्‌ । तद्विना अन्धाः कियत्‌ कष्टम्‌ अनुभवन्तीति सर्वे विदन्ति । एतेषां कष्टं विदद्भिः जनैः स्वीयानि नयनानि संरक्षणीयानि । एतदर्थं नेत्ररोगज्ञानां साहाय्यं प्राप्तव्यम्‌ । प्रथमतो नयनरोगाणां कारणं निवारणीयम्‌ । मधुमेह एव प्रथमः शत्रुरिति वैद्या वदन्ति । रक्ते शर्करा नियन्त्रणीया । अन्यथा अक्षिरोग उल्बणो भविष्यति । प्रारम्भवेलायाम्‌ एव यदि परीक्षा वैद्यैः करिष्यते, तर्हि चिकित्सा सुलभा । रोगस्य उल्बणावस्थायां चिकि त्सा क्लिष्टा भविष्यति । तत्रापि विलम्बः क्रियते चेत्‌ , पूर्णतया आन्ध्यम्‌ एव भवेत्‌ । एवं कस्यापि लोकेमा भूत्‌ । लोके बहवो जन्मान्धाः सम्भवन्ति । तेभ्यो नयनदानं कर्तुं शक्यते नेत्रवद्भिः । मृतस्य नयनं निष्कास्य अन्यस्य मुखे योजयितुं वैद्याः शक्नुवन्ति । दृष्टिदानं महादानम्‌ । एवं दानं कृतवन्तः पुण्यं लभन्ते । तेषां नेत्रम्‌ अन्यत्र जीविष्यति । तथा कर्तुं धन्वन्तरिस्सर्वेभ्यः प्रेरणां ददातु ।

प्रक्षेपणयन्त्ररूपेण मनुष्यस्य चक्षुः

अक्षि: सर्वेन्द्रियाणां नयनं प्रधानम्, प्रक्षेपणयन्त्ररूपेण मनुष्यस्य चक्षुः, नेत्रद्वारा प्रतिबिम्बनिर्माणम् 
नेत्रभागानां मानचित्रम्

मनुष्यस्य चक्षुरपि एकं प्रक्षेपणायन्त्रमस्ति यतः छायाग्राहिकावत् अत्रापि दूरवर्तिनां वस्तूनां प्रतिबिम्बाणि तिरस्करिण्यां निर्वर्त्यन्ते । अक्षिगोलकं बाह्यतः एकेन उपारदर्शकेण श्वेतावरणेन (Salera) आच्छादितं भवति यस्य सम्मुखस्धः भागः पारदर्शकः स्वल्पोन्नतश्च भवति । उन्नतोऽयं भागः कार्निया (Cornea) इति नाम्नाभिधीयते । कार्नियाया अधोभागे छायाग्राहिकायाः छिद्रपटेन (Diaphragm) संयुज्यमाना एका तिरस्करिणी (Iris) भवति । अस्याः वर्णः विभिन्नेषु मनुष्येषु विभिन्नेषु च देशवासिषु विभिन्नो भवति । भारतीयेषु इयं प्रायशः कृष्णाशीतदेशवासिषु च कपिला भवति । तिरस्करिण्यामस्याम् एकं लघुछिद्रं भवति यत् अक्षितिलं अक्षिपुत्तलिका वा (Pupit of the Eye) इति नाम्नाभिधीयते । तिलमिदं छिद्रपटसुषिरवत् अन्धकारे बृहद् प्रकाशे च लघु भवति । यतः प्रकाशस्य नियमितमात्रा नेत्राभ्यन्तरे प्रवेष्टुं शक्नोति । तिलस्य तिरस्करिण्याः पृष्ठभागे एको लेन्सः भवति यः नेत्रलेन्स (Eyes Lense) इति नाम्नाभिधीयते । लेन्सस्यास्य तलयोरुभयोर्वक्रतार्द्धव्यासौ एकसदृशौ न भवतः । अपितु यत्तलं अन्तराभिमुखं भवति तस्य वक्रतार्द्धव्यासः सम्मुखीनस्य तलस्य वक्रतार्द्वव्यासात् न्यूनः भवति । यतोः वक्रतार्द्धव्यासौ क्रमशः ६ सेण्टीमीटारपरिमितः १० सेण्टीमीटरपरिमितश्च भवतः । लेन्सः शीशकवत् कठोरपदार्थेण निर्मितो न भवति अपितु मृदुना पारदर्शकेण च् वस्तुना निर्मितो भवति मांसपेशिनां (Ciliary body) साहाय्येन स्वस्थाने स्थिरो भवति ।

श्वेतावरणस्य अधोभागे एव एकं कृष्णवर्णीयपटलस्य (Choroid) आवरणं भवति येन स्वकृष्णावर्णत्वात् प्रकाशस्य शोषणं क्रियते तथा च चक्षुगोलकाभ्यन्तरे प्रकाशस्य परावर्तनम् अवरुध्यते । पटलस्यास्य अधोभागे चक्षुषः अन्तरतमः पारदर्शकः पटलः वर्तते यः नेत्रपटलम् (Retina) इति नाम्नाभिधीयते । पटलोऽयं दृष्टिनाडिकाभिः निर्मितो भवति तदुपरि च प्रकाशस्य प्रतिफलनात् मस्तिष्कोपरि तस्य प्रभावो भवति येन अस्माभिः वस्तूनां रङ्गरूपादीनां ज्ञानं क्रियते ।

नेत्रलेन्सत्य कोर्नियायाश्च मध्यस्थाने एकः पारदर्शको द्रवः पूरितो भवति यस्मिन् किञ्चित् साधारणं लवणं मिश्रितं भवति । द्रवोऽयं जलीयद्रव (Aqueous humour) इति नाम्नाभिधीयते । नेत्रलेन्सस्य नेत्रपलस्य च मध्ये पूरितः पारदर्शको द्रवः काचद्रव (Vitreous Homour) इत्यभिधीयते।

नेत्रपटलस्य सर्वथा पृष्ठभागे यत्र नाडिका तत्पटलं छित्त्वा मष्तिष्के प्रविशति तत्र प्रकाशस्य कोऽपि प्रभावो न भवति । अतएव तत्स्थानम् अन्धविन्दुर (Blind Spot) इतिनाम्नाभिधीयते । नेत्रपटलस्य मध्ये गोलाकारक एको बिन्दुः भवति यत्र निर्वर्तितं प्रतिबिम्बम् अत्यधिकं स्पष्टम् अवलोक्यते । स्थानमिदं पीतबिन्दुः (Yellow Spot) इत्यभिधीयते ।

नेत्रद्वारा प्रतिबिम्बनिर्माणम्

यथा छायाग्राहिपिटकेन वास्तविकं विपरीतञ्च प्रतिबिम्बं निर्वर्त्यते तथैव चक्षुषापि वास्तविकं विपरोतञ्च प्रतिबिम्बं निर्वर्त्यते । परन्तु, अस्माकं मस्तिष्के तद्विरीतं प्रतिबिम्बं आर्जवेन निर्दिश्यते ।

समञ्जतम् (Accomodation)

मनुष्यस्य स्वस्याक्षि ईदृग् भवति यत् नेत्रपटलं लेवलेन्सस्य फोकसे तिष्ठति । अतएव नेत्राद् दूरवर्तिनां वस्तूनां प्रतिबिम्बं नेत्रपटले अतिस्पस्ष्टं निर्वर्त्यते तदवलोकने च नेत्रोपरि बलाधानं सर्वथैव न भवति । यदि चेद् नेत्रलेन्सः शीशकवद् केनचित् कठोरपदार्थेण निर्मितः स्यात् तर्हि सकाशवर्तिनां वस्तूनां प्रतिबिम्बं नेत्रपटलस्य पृष्ठभागे निर्वर्तेत् तानि वस्तूनि च सुस्पष्टतया दृष्टिपथं न गच्छेयुः । छायाग्राहिपिटके लेन्सं पुरः पश्चाच्च अपसार्य प्रतिबिम्बं सुस्पष्टं क्रियते । परन्तु नेत्रे नेत्रलेन्सस्य नेत्रपटलस्य च मध्यवर्त्यन्तरालं परिवर्तयितुं न शक्यते । अतएव सकाशवर्तिनां वस्तूनां प्रतिबिम्बं नेत्रपटले तस्यामेव दशायां निर्वर्त्यते यहि तस्य फोकसान्तरालं ऊनोक्रियते । अतएव नेत्रलेन्सस्य मांसपेशिकाः लेन्सं सम्पीड्य स्थूलं कुर्वन्ति यतः तस्य फोकसान्तरालं ऊनं भवति सकाशवर्तिनश्च वस्तुनः प्रतिबिम्बं नेत्रपटले सु स्पष्टं निर्वर्त्यते । दूरवर्तिनां वस्तूनाम् अवलोकनसमये मांसपेशिकाः लेन्सात् स्वसम्पीडनम् अपाकुर्वन्ति लेन्सश्च प्रतनुः भवति यतः वस्तुप्रतिबिम्बं पुनः नेत्रपटले निर्वर्त्यते । चक्षुषोरियं शक्तिः समझ्चनक्षमता (Power of Accommodation) क्रिया चेयं समञ्च्जनम् इत्यभिधीयेते । परन्तु, नेत्रलेन्सस्य मांसपेशिकाः नेत्रलेन्सस्य फोकसान्तरालं अनिश्चितभावेन लघूकर्त्तुं न पारयन्ति, अपितु तस्य लघूकरणस्यापि एकः सीमा भवति । यदि अस्माभिः किञ्चिदवस्तु निरन्तरं नेत्रसकाशं आनीयते तर्हि प्रायशः २५ अथवा ३० सेण्टीमीटरान्तरालं यावत् तु तत् सु स्पष्टम् अवलोक्यते किन्तु यदि तदपेक्षया अधिकनिकटं आनीयते तर्हि तद् अस्पष्टं प्रतीयते । तन्निकटतमा स्थितिः, यत्र किञ्चिद् वस्तु चक्षुषा सुस्पष्टम् अवलोक्यते , नेत्रस्य निकटबिन्दुः (Near Point) इति नाम्नाधियते । निकटबिन्दोर् नेत्रस्य चमध्यवर्त्यन्तरालन्तु स्पष्टदृष्ट्याः न्यूनतमान्तरालम् (Least distant of distinct Vision) इत्यभिधीयते । स्वस्थनेत्राय अन्तरालमिदं २५ अथा ३० सेण्डीमीटरपरिमितं भवति । तद्दरत्मास्थितिर्यत्र किञ्चिदवस्तु नेत्रेण सुस्प्स्ष्टं दृश्यते नेत्रस्य दूरबिन्दुः (Far Point ) इत्यभिधीयते स्वस्थनेत्राय च बिन्दुरयं अनन्त्यां तिष्ठति ।

नेत्रदोषाः तेषां निवारणञ्चः

नेत्रे अनेकदोषाः सम्भवन्ति किन्तु तेषां मध्ये अधोङ्कितं दोषद्वयम् प्रमुखमस्ति -

  1. निकटदृष्टिः (Short Sight Or Myopio)
  2. दूरदृष्टिः (Long sight or Hypermetrapio ) चेति

निकटदृष्टिः

बहवः पुरुषाः पुस्तकावालोकने कष्टं नानुभवन्ति किन्तु, तैः १५ अथवा २० मैटरदूरे निहितं वस्तु न दृश्यते । अस्य कारणमिदं यत् तेषां मानवानां नेत्रलेन्सस्य फोकसान्तरालं स्वाभाबिकावस्थायां एतावदल्पं भवति यत् तेन दूरवर्तिनां वस्तूनां प्रतिबिम्बं नेत्रपटले निर्वर्त्य् न भवति । समञ्चनषमताहेतोः फोकसान्तरालमिदं भूयः लघूभवितुं शक्नोति किस्तु वर्धनेऽसमर्थ भवति । अतएव वस्तु यावत् चक्षुषोः एतावन्निकटे न आगच्छति यत् तस्य प्रतिबिम्बं नेत्रपटले निर्वर्तितं स्यात् तावत् पर्यन्तं तेन तत्तु न स्पष्टं दृश्यते । चित्रे अनन्त्या आगामिनः किरणाः नेत्रपटलं यावत् प्राप्तेः पूर्वमेव एकस्मिन् बिन्दौ एकत्रीभवन्ति । अतएव नेत्रपटलो परि प्रतिबिम्बं निर्वर्तयितुं दूरबिन्दुर् अनन्त्याः अपसृत्य कस्मिंश्चिद् “द” इति बिन्दौ सङ्गच्छति निकट बिन्दुश्च सामान्यबिन्दुतोऽपि निकटम् आगच्छति अतिनिकटात् पुस्तकपठनात् अथवा शयनावस्थायां पठनात् दोषोऽयं नेत्रे उत्पद्यते । दोषेऽस्मिन् नेत्रलेन्सः स्थूलीभूय अधिकोत्तलः भवति अथवा नेत्रगोलके किञ्चिद् दैर्ध्यं उत्पद्यते ।

दोषश्यास्य निराकरणार्थं समुचितशक्तिकावतललैन्सीयानि उपनेत्राणि नेत्रे संयुज्यन्ते यतः अनन्त्या आगामिनः किरणाः नेत्रपटले एकत्रीभवन्ति प्रतिबिम्बञ्च स्पष्टं निर्वर्त्यते । यतः अवतललेन्साभावे `द’ इति दूरबिन्दुतः चलन्तः किरणाः नेत्रपटले सङ्गमनं कुर्वन्ति स्म इदानीञ्च अवतललैन्सत्वात् अनन्त्याः आगामिनः किरणाः तत्र मिलन्ति, अतएव दूरबिन्दुर् अवत्ललैन्सस्य फिकसो भवति । अतेव निकटादृष्ट्याः दोषम् अपसारितुं यदि अवतललेन्सः चक्षुषः समीपे न्यस्येत तर्हि तस्य फोकसान्तरालं अक्षणः दूरबिन्दोः चक्षुषश्च मध्यान्तरालस्य तुल्यं स्यात् ।

दूरदृष्टिः

यस्य मनुष्यस्य नेत्रे दोषोऽयं वर्तते स दूरवर्तिनं वस्तु सुस्पष्ट पश्यति, परन्तु निकटवर्तिनं वस्तु स्पष्टतया नावलोकयति । स पुस्तकं पठितुं तं हस्तेन गृहीत्वा अधिकाधिके दूरे स्वापयितुं यतते । अतिदूरवर्तिभ्यः वस्तुभ्यः आगामिनः समान्तरकिरणाः नेत्रलेन्सात् निर्गमनानतरम् नेत्रपटलस्य पृष्टभागे कस्मिंश्चिद् बिन्दौ प्रतिबिम्बं निर्वर्त्यन्ति परन्तु, समंजनक्षमताहेतोः लेन्सस्य फोकसान्तरालस्य अल्पत्वं सम्भाव्यते दूरवर्तिनाञ्च वस्तूनां प्रतिबिम्बं नेत्रपटले निर्वर्त्य भवति । अतएव दूरवर्तिनां वस्तूनाम् अवलोकने किञ्चित्काठिन्यं नानुभूयते । यावदेव वस्तु नेत्रनिकटे आगच्छति तस्य प्रतिबिम्बं नेत्रपटलात् भूयोऽधिके पृष्टभागे निर्वर्त्यते समंजनक्षमता च सामान्यनिकटविन्दोर् (Normal Point) आगमनात्पूर्वमेव समाप्यते । एतादृशाय मानवाय निकटबिन्दुः सामान्यनिकटबिन्दोर् अधिकदूरे वर्तते । दोषस्यास्य कारणद्वयं सम्भाव्यते नेत्रलैन्सस्य लोकसान्तरालस्य आधिक्यं अथवा नेत्रगोलकस्य अधिकाल्पत्वम् यतः समान्तरकिरणानां प्रतिबिन्बं गोलकाद् बहिः निर्वत्यते । दोषस्यास्य अपसारणार्थं समुचितक्षमताकोत्तलनैन्सानाम् उपनेत्राणि नेत्रे आरोप्यन्ते , यतःअ नेत्रपटले निष्पतन्तः किरणाः समधिकं वक्रीभवन्ति तेषा प्रतिबिम्बं च नेत्रपटले निर्वर्त्यते ।

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

Tags:

अक्षि सर्वेन्द्रियाणां नयनं प्रधानम्अक्षि प्रक्षेपणयन्त्ररूपेण मनुष्यस्य चक्षुःअक्षि नेत्रद्वारा प्रतिबिम्बनिर्माणम्अक्षि समञ्जतम् (Accomodation)अक्षि नेत्रदोषाः तेषां निवारणञ्चःअक्षि सम्बद्धाः लेखाःअक्षि बाह्यसम्पर्कतन्तुःअक्षि

🔥 Trending searches on Wiki संस्कृतम्:

१२१०सितम्बर ५अगस्त २४११ जुलाई१७ फरवरीसितम्बर १४मई १०अप्रैल ८Main pageएस्टोनियामालीविकिमीडिया१६ जुलाईनासा९९०२२ मार्चइचिरो सुजुकी३२०लातूरजुलाई २९मार्च १९कृष्णः१९ मार्चकर्मयोगः (गीता)६१०८४८एप्पल्जनवरी ३०प्रमाणम्६६४मार्च ४मार्च १४६००विकिःकोलोम्बियापुराणम्४ अगस्तअप्रैल८४७गौतमबुद्धःअप्रैल २६अद्वैतवेदान्तः१४८६क्रीडाफरवरी २४किरातार्जुनीयम्१८ जनवरीसचिन तेण्डुलकर८५२अक्तूबर २२६६२जुलाई ९सिंहलभाषा४५२९५५सितम्बर २६जून २८आकाशगङ्गा६५४चित्रकला१० फरवरीदिसम्बर १६१ जूनजुलाई ६१८ अक्तूबरभारविःविश्वगुणादर्शचम्पूद्वैतदर्शनम्माधवीजनवरी ५अगस्त ९८ जनवरीजुलाई १८फरवरी ६१५२५जून १क्१५ मई🡆 More