लोके भवन्ति महान्तः ये ऋज्वर्थग्रहणैकदृष्ट्या प्रपञ्चं आलोकयन्ति । कार्यस्यास्य अभिव्यक्तिः मौल्यनिष्ठवस्तुवर्णनहेतुत्वात् वाग्रूपं आप्नोति । सुभाषितम् नाम सुष्ठु प्रोक्तं वचनम् । सम्स्कृतवाङ्मये सुभाषितानि बहुशः छन्दोबद्धानि । एतानि पद्यानि स्वीयवर्णनचमत्कृतिद्वारा लोकसङ्ग्रहतत्वं बोधयन्ति । साम्यवैषम्ययोः चित्रं एका एव भित्तेः उपरि आलिख्य चिकित्सकमनोधर्मस्य आवश्यकतां भजन्ते । मानुषजीवनस्य वैशिष्ट्यं हृदयङमरीत्या निर्दिशन्ति । प्राप्तजन्मस्य साफल्यं कथं प्राप्नुयात् ? एतन्निमित्तं किम् अनिवार्यमिति मार्मिकरीत्या सूचयन्ति । विदुषां मुखात् आशुकवितारूपेण निस्सृत्य सर्वान् पण्डितपामरान् आह्लादयन्ति च । समयोचितवाग्विजृम्भणम्, समस्यापूरणम् - इत्यादीनि मार्गस्यास्य भिन्नगतयः ।
संस्कृतभाषायां बहवः सुभाषितसङ्रहग्रन्थाः अद्योपलभ्यन्ते । एतेषु प्रस्तुताः विषयाः बहूत्र एवं भवन्ति - सुभाषितप्रशंसा, कविकाव्यप्रशंसा, सम्सारविवरणम्, सज्जनः - दुर्जनः, सद्गुणः - दुर्गुणः, अज्ञानखण्डनम्, मूर्खनिन्दनम्, परतत्वविवेकः, स्वस्थानपरिज्ञानम्, राजनीतिः, धर्मः, वैराग्यम्, भक्तिः, मानुषप्रयत्नम् ... इत्यादीनि ।
'मुक्तकम्' इति व्यपदेशेन बोधप्रदमेकं पद्यं व्यवह्रियते । वेदवाङ्मयात् आरभ्य मन्वादि स्मृतिषु, अनेककवीनां काव्येषु, पुराणग्रन्थेषु, विविधशास्त्रग्रन्थेष्वपि मुक्तकानि दरीदृश्यन्ते । एतेषां ललितकोमलकान्तपदावलिः हृद्या अनवद्या च ।
उदाहरणानि -
भोजप्रबन्धात् उद्धृतं पद्यमेतत् मानुषप्रयत्नस्य मौल्यं प्रतिपादयति । स्वत्वपरिज्ञानं, सत्त्वपुरःसरजीवनस्य विविक्तवैशिष्ट्यं च भृशं निर्दिशति ।
शतककाव्येषु भर्तृहरेः वैराग्यशतकम् अत्यमोघकाव्यम् । अयं श्लोकः वैराग्यभावनाजन्येषु अन्यतमं आत्मखण्डनं कठोरवस्तुस्थितिसंनिदर्शनद्वारा सूचयति ।
आजन्मविद्यारतिः, आजन्मसेवामनोभावः इत्यादीन् स्वात्मस्तरवर्धकाम्शान् एतत् सवैवरं वर्णयति ।
भारतीयसंस्कृतेः बहुमुख्यांशः कः? इति प्रश्ने पृष्टे सति - स एव विश्वात्माभावमनोधर्मः इति झटिति स्फुरति । तदेव अंशं अयं प्रचुरश्लोकः प्रकटीकरोति ।
निकषोपमबुद्धिः सम्पादनीया । स्वविवेकाध्ययनम् विना न कोपि अङ्गीकर्तव्यः इति पद्यस्यास्य भावः ।
" कर्मण्येवाधिकारस्ते । मा फलेषु कदाचन " गीतावक्यस्यास्य उपबृंहणमेव अयं श्लोकः ।
" ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति " इति वाक्यं स्फुटीकरोति पद्यमेतत् । विद्वद्रसिकानां जल्पनमपि उपदेश इव सप्रश्रयं गृह्णीयात् इति अस्य भावः ।
ऋज्वर्थग्रहणं श्रेयस्करम्। अत्र "Do not judge a book by its cover" - अस्य आङ्ग्लवचोविछित्तेः अर्थच्छायाऽपि दृश्यते।
सार्थकजीवनस्य आधारस्थम्भानि अत्र निर्मितानि सन्ति ।
मनुस्मृतेः अयं श्लोकः सार्वकालीनः । " धर्माऽविरुद्धो भूतेषु कामोस्मि भरतर्षभ " - गीताचार्यस्य वचनमेतत् स्मृतिपटलं प्रत्यागच्छति |
This article uses material from the Wikipedia संस्कृतम् article सुभाषितानि, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.