उपनिषत् किमर्थम् अध्यारोप-अपवादन्यायमनुसरति इति अवगमः महत्प्रयोजनाय कल्पते । प्रश्नोपनिषत् (६.२) मन्त्रः एवं पठ्यते –
“ | ’तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ।। २ । | ” |
इति ।
तत्र भाष्ये श्रीशंकराचार्याः कथयन्ति -
इहैव अन्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषो न देशान्तरे विज्ञेयो यस्मिन् (पुरुषे) एताः उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति षोडशकलाभिः उपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यतेऽविद्यया इति तदुपाधिकलाध्यारोप-अपनयेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते । प्राणादीनाम् अत्यन्तनिर्विशेषे ह्यवद्वये शुद्धे तत्त्वे न शक्योऽध्यारोपमन्तरेण प्रतिपाद्य-प्रतिपादनादि-व्यवहारः कर्तुमिति कलानां प्रभव-स्थिति-अप्यया आरोप्यन्ते अविद्याविषयाः । चैतन्याव्यतिरेकेणैव हि कला जायमानाः तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । इति ।
भाष्यस्यास्य मुख्यांशाः एवं वर्ण्यन्ते -
“ | मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदिताऽन्यथा । उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ ३.१५ ॥ | ” |
कदापि तत्र रज्जुरिति सर्प इति च वस्तुद्वयं वर्तते इति नैव वक्तुं शक्यते । सर्वस्यामपि अवस्थायां एकम् एव वस्तु गण्यते, तत्तु रज्जुरेव ।अध्यस्तसर्पः कदापि द्वितीयत्वेन गणयितुं पार्यते ।
सारभूतम् । आत्मैव तत्र विद्यमानत्वेन सत्यवस्तु ।
उपनिषदः लक्ष्यं न सृष्टप्रपञ्चज्ञापने, अपि तु स्रष्टृविषयकयाथात्म्यबोधने ।
न एका अपि उपनिषत् सृष्टप्रपञ्चज्ञानेन पुरुषार्थलाभं प्रतिजानीते ।
वस्तुतः क्षेत्रं ज्ञेयम्, क्षेत्रज्ञात् ज्ञातुः सकाशात् भिन्नत्वेन हि बोध्यते, तज्ज्ञानमेव मोक्षकारणम् इति । उक्तं च भगवता –
“ | क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥भगवद्गीता १३.३४ ॥ | ” |
कश्चन नृपः सप्तदशगजपतिः मृतः । तस्य त्रयः पुत्राः आसन् । तस्य मृत्युपत्रे एवम् आदेशः दृष्टः – प्रथमपुत्रः अर्धभागी, द्वितीयः तृतीयांशभागी तथा तृतीयः नवांशभागी गजानां भवेदिति । भागपरिमाणं तु न परिणमेत् इति च ।
सप्तदश विषमसंख्या इति हेतोः, तद्गजसमूहविभजनं कष्टकरम् इति च ते पुत्राः समास्यापरिहारे असमर्थाः च चिन्ताक्रान्ताः च अभवन् ।
दैवात् तेभ्यः प्राज्ञः चतुरः च नृपस्य चिरमित्रं च एकः महाभागः तत् राज्यम् उत्तरति स्म ।
ते राजसूनवः तस्मै स्वीयसमस्यां विज्ञापितवन्तः तस्याः परिहारे साहाय्यं च प्रार्थितवन्तः । स प्राज्ञः तान् आश्वासयन् समस्यापरिहारे मग्नः च अभवत् ।
स स्वीयगजं तत्सप्तदशसमूहेन अयोजयत् यथा अष्टादश हस्तिनः आसन् ।
ततः नव गजान् पृथक्कृत्य अष्टादशस्य अर्धभागत्वेन आद्यपुत्रं प्रति प्रायच्छत् ।
द्वितीयः राजकुमारः करिणषट्कं प्राप्तवान् स्वीयभागत्वेन (अष्टादशस्य तृतीयांशत्वेन ) ।
अन्ते तृतीयः पुत्रः हस्तिद्वयं गृहीतवान् , अष्टादशस्य नवांश्वत्वेन ।
आहत्य वितरितगजानां संख्या सप्तदश ( ९ + ६ + २ )
अवशिष्टः अष्टादशः गजः तत्प्राज्ञस्य, यं सः स्वायत्तीकृत्य ततो निर्गतवान् । सर्वे च सन्तुष्टाः अभवन् ।
अन्तिमः गजः वेदान्तशास्त्रीयमायातत्त्वस्थानीयः । स समस्यापरिहाराय आनीतः, तत्पूरणादूर्ध्वं ततो बहिर्नीतः, तस्य पूर्वसत्त्वं निरवशेषं परिमार्जयन् ।
इदमेव प्रयोजनम् अध्यारोप-अपवादन्यायस्य वेदान्ते ।
This article uses material from the Wikipedia संस्कृतम् article वेदान्ते अध्यारोपापवादन्यायस्य सञ्चालनम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.