अत्र संस्कृत-विकिपीडियायाः यथारूपं परिचयः दीयते। यः कश्चिदपि विकिपीडियायाः मौलिकं परिचयं प्राप्तुमिच्छति तस्मै एतत्पृष्ठं सहायकम् । यत्रापि पृष्ठेषु व्याकरणगताः अशुद्ध्यः दृश्यन्ते तेऽपि पाठाः यथारूपं उल्लिख्यन्ते अत्र, यस्मात् तेषां शोधने कालः आवश्यकः। नवागतानां सम्यग् अवगमनार्थम् अत्र ते पाठाः यथादृष्टं दीयन्ते।
प्रथममत्र विकिपीडियामुखपृष्ठस्य अग्र्ये पार्श्वे दृश्यमानायाः पट्टिकायाः पाठक्रमेण परिचयः दीयते।
एतत् हि विकिपीडियायां कार्यकरण-विषये सामुदायिक-चर्चायाः स्थानम्। द्विपाक्षिकी चर्चा तु प्रायेण सदस्यस्य सम्भाषणपृष्ठे क्रियते। परन्तु बहुपाक्षिकी चर्चा तु अत्रैव भाव्या।
अत्र च पञ्च विभागाः सन्ति, ते यथा- नयरूपीकरणसभा, तान्त्रिककार्यसभा, निर्देशसभा, सहायसभा, विविधविषयसभा चेति। प्रत्येकस्मिन् विभागे कीदृशः विषयः स्थापयितव्य इति विचारमण्डपामुखे एव लिखितम्। निर्णयविपत्त्यां च कुत्रापि स्थापयितुं शक्यते यतो हि निपुणाः तत्र शोधनं करिष्यन्तीति।
एतत् तु अति महत्त्वाधायि पृष्ठम्। अत्र क्लिक् कृत्वा भवान् एतादृशे एके पृष्ठे गच्छति, यत्र तु सर्वेषामपि नूतनानां परिवर्तनानां तालिका (सूचिका) आगच्छति। तां दृष्ट्वा भवान् विकिपीडियायां वर्तमानायाः एकैकस्य क्रियायाः ज्ञानं लब्धुं शक्नोति। परन्तु किंचित् कालस्य पश्चात् सा सूचिका पुरातनी भवति, तदा F5 इति कुञ्जिकां प्रयोज्य पुनः तत्पृष्ठं नूतनीक्रियताम्। अनयैव विधिना विकिपीडियायाः पारङ्गताः नूतनानि परिवर्तनानि सततं दृष्टिगतानि कुर्वन्ति।
न खलु विकिपीडिया संस्कृतेन एव लिख्यते। एतादृश्यः विकिपीडियाः बहुषु भाषासु विद्यन्ते। विभिन्नभाषाभाषिणः विभिन्नविकिपीडियातः परस्परं सम्पर्कं कर्तुं दूतावासनाम्नः (आङ्गलभाषायां Embassy इति) पृष्ठस्य प्रयोगं कुर्वन्ति। परन्तु यदा कदा विचारमण्डपेऽपि एतादृशाः सन्देशाः आगच्छन्ति।
अविशिष्टं तु यादृच्छिकम् अथवा न विशिष्टम्। यदि भवान् अत्र क्लिक् करोति, तदा दैवेनैव निश्चितं किञ्चित्पृष्ठम् उद्घाट्यते। अर्थात् तस्मिन् पृष्तठे तु यत्किञ्चिद् लेखनं(article) भवितुं शक्नोति।
साहाय्यं चेदिच्छसि लेखनार्थं वा टङ्कणार्थं वा तर्हि अत्र क्लिक्कर्त्तव्यम्।
विकिमीडियाफ़ाउन्डेशन् इत्यस्य कृते अर्थदानम् अनेन दीयते।
विकिपीडियायां प्रत्येकं पृष्ठं प्रायेण नैकेभ्यः पृष्ठेभ्यः सम्बन्धितं विद्यते। कथं खलु? यस्मात् प्रत्येके लेखे प्रमुखानि पदानि नीलवर्णेन राजन्ते, तेषु पदेषु च क्लिक्कृत्य भवान् तेषां पदानां विस्तृतलेखनानि द्रष्टुं शक्नोति। एकः लेखः कुत्र कुत्र नयति इति प्रत्यक्षमेव अवबुध्यते (दृश्यते खलु)। परन्तु यदि भवान् एतद् ज्ञातुमिच्छति यत् कः कः लेखः लेखविशेषं प्रति नयति तदा तल्लेखम् उद्घाटयित्वा पार्श्वस्थे केभ्यः पृष्ठेभ्यः सम्बद्धम् इति पदबन्धे क्लिक्करोतु। झटित्येव सर्वेषामपि तल्लेखसम्बद्धानां पृष्ठानां सूचिका द्रक्ष्यते।
भवद्भिः एतस्य विषये किंचित् पूर्वभूमिकायाः पश्चादेव पठनीयम्। एतस्य परिचयः अधस्तात् पुनः दीयते।
सञ्चिका तु फ़ाइल् (File) इति। चित्राणि, सङ्गीतांशाः, चलचित्राणि चेत्यादीनि सङ्गणकेषु सञ्चिकारूपेण एव वर्तन्ते। विकिपीडियायां लेखेषु समये समये चित्राणां, सङ्गीतांशानां, चलचित्रादीनां वा आवश्यकता भवति। कुतः आगच्छन्ति खलु तानि चित्रादीनि?
अथ तानि चित्रादीनि बहुषु अन्येषु जालस्थलेषु (on websites) यदा कदा प्रतिलिप्यधिकारमुक्तानि विद्यन्ते (एतन्नाम सुपरीक्षणीयम्), अथवा सदस्येभ्यः स्वयमेव रच्यन्ते। अत्र पार्श्वे उदाहरणरूपेण चित्रमेकं दर्शितमस्ति।
एतादृशानि चित्रादीनि तु लेखेषु प्रयोक्तुं, प्रथमं विकिपीडिया संजालस्थलं प्रति (sa.wikipedia.org इत्यस्मिन्) अथवा विकिमीडिया कॉमन्स इत्यस्य सञ्जालस्थलं प्रति (http://commons.wikimedia.org/wiki/Main_Page इत्यस्मिन्) नेतव्यानि, तर्हि तेषां प्रयोगः लेखेषु कर्त्तुं शक्यते। किञ्चित्सञ्जालस्थलं प्रति तेषाम् आनयनं तु उद्भारणम् इति उच्यते अस्माभिः। तस्मात् "संचिकाम् उद्भारयतु" इति वाक्यमवाप्तम्। परन्तु सञ्चिकायाः उद्भारणात् पूर्वं तस्याः प्रतिलिप्याधिकारः (अप्युक्तः सर्वाधिकारः, कॉपीराइट् वेति) सम्यक् परीक्षणीयम्। चेत् सा कृतिः तु मुक्ताधिकारा न अस्ति तदा नैव तस्याः प्रयोगः कर्त्तव्यः, नैव च सा उद्भारितव्या।
उद्भारणार्थं भवान् सञ्चिकाम् उद्भारयतु इत्यस्मिन् क्लिक्करोतु। तेन नवीनमेकं पृष्ठं उद्घाट्यते। तस्मिन् "Choose File" इत्येतद् दृश्यते। तत्र क्लिक्कृत्य भवानेकं सञ्चिका-चयन-गवाक्षं प्राप्नोति। तत्र सञ्चिकां चित्वा भवान् Open इत्यत्र क्लिक्करोतु, सञ्चिका-विषये च वाञ्छितां सूचनां यथास्थानं ददातु। पुनश्च तत्र संचिकाम् उद्भारयतु इत्यस्मिन् क्लिक्करोतु। भवतः सञ्चिका यथानाम विकिपीडियायाम् उद्भारिता भवति। भवता तस्याः सञ्चिकायाः यथेष्टं प्रयोगं कर्त्तुं शक्यते।
विशिष्ट-पृष्ठानि खलु असामान्यानि पृष्ठानि। तानि महत्त्वाधायीनि पृष्ठानि अपि विद्यन्ते। विकिपीडियायां कौशलं प्राप्तुं एतेषां पृष्ठानाम् अर्थज्ञानम् अतीव आवश्यकम्। बहुविधानि च एतानि पृष्ठानि। तेषां परिचयः प्रायेण उपयोगिताक्रमेण अत्र दीयते।
अस्मिन् वर्गे प्रयोक्तृ-सम्बन्धिन्यः सूचनाः द्रष्टुं/परिवर्तयितुं वा शक्यन्ते।
एतत्तु तदेव वरीयांसि इति पृष्ठं यस्य तु नाम भवतः पृष्ठस्य दक्षिणपार्श्वे उपरि सदैव वर्तते। अनेन भवान् स्वकीयायाः लेखायाः (of your account) मनोऽनुकूलं विन्यासं कर्त्तुं शक्नोति। अत्र प्रमुखासु सुविधासु एताः सन्ति-
अस्मिन् पृष्ठे अधुनावधि यावत् प्रमुखानां सर्वेषामपि विषयाणां परिचयः प्रदत्तः। कालेन अत्र अधिकाः केचिद् विषयाः अपि योक्तुं शक्यन्ते।
This article uses material from the Wikipedia संस्कृतम् article विकिपीडिया:नवागतेभ्यः परिचयः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.