कुम्भोत्सवः

कुम्भोत्सवः अस्माकं देशे बहु महत्त्वपूर्णः पर्व अस्ति । देशस्य चतुर्षु स्थानेषु कुम्भोत्सवाः आयोज्यन्ते - प्रयागे, हरिद्वारे, उज्जयिन्यां, नासिके च । प्रत्येकस्मिन् नगरे द्वादशवर्षाणाम् अनन्तरम् एकः पूर्णकुम्भयोगः आयाति । एवं वर्षत्रयस्य अनन्तरं क्रमशः देशस्य एकैकस्मिन् स्थाने कुम्भोत्सवः भवति । प्रत्येकस्मिन् नगरे षष्ठे वर्षे अर्धकुम्भयोगः अपि भवति । कुम्भोत्सवः प्रायशः सार्धैकमासपर्यन्तं चलति । कुम्भोत्सवे भागं ग्रहीतुं भारतवर्षस्य अनेकेभ्यः स्थानेभ्यः सामान्यजनाः साधवः संन्यासिनः च आगच्छन्ति । केचित् सामान्यजनाः साधवः च पूर्णसमयं यावत् कुम्भोत्सवे निवसन्ति । अन्ये जनाः विशिष्टस्नानपर्वेषु एव गच्छन्ति । कुम्भोत्सवे जनाः नदीषु स्नानं कुर्वन्ति । तत्र स्नानस्य एव विशिष्टं महत्त्वं वर्तते ।

कुम्भोत्सवः
कुम्भ मेला
कुम्भोत्सवः
पैलगर्भ अन्तः हरिद्वारकुम्भोत्सवः
आवृत्तिः सर्व 12 वर्ष:
स्थानम् हरिद्वार, प्रयाग (आल्लहबद्), नाशिक-त्रिम्बक and उज्जैन
पूर्वोत्सवः 2016
अन्वोत्सवः 2022
प्रतिभागी पैलगर्भ, अखरस, वणिग्जन
शैली गौर
कुम्भोत्सवः
२०१० तमे वर्षे हरिद्वारे गङ्गानद्याः स्नानघट्टस्य दृश्यम्
कुम्भोत्सवः
नासिके कुम्भोत्सवे जनसागरः

चत्वारि कुम्भस्थानानि चतसृण् प्रमुखाणां नदीनां तटेषु अवस्थितानि सन्ति ।

प्रयागः

प्रयागः उत्तरप्रदेशे तिसृणां पवित्राणां नदीनां सङ्गमस्थाने अवस्थितः अस्ति । अतः एव त्रिवेणीसङ्गमः कथ्यते । तासु तिसृषु नदीषु गङ्गा यमुना च प्रयागे परस्परम् मिलतः । तृतीया नदी सरस्वती उपरि न दृश्यते । सा भूगर्भे प्रवहति, भूगर्भे एव एताभ्यां द्वाभ्यां सह मिलति । अन्यानि नगराणि तीर्थक्षेत्राणि भवन्ति, किन्तु प्रयागः त्रिवेणीसङ्गमस्य कारणतः 'तीर्थराजः' कथ्यते । प्रयागं निकषा एव हिन्दूनां प्रसिद्धं तीर्थस्थानं 'काशी' अपि अस्ति । काश्यां द्वादशज्योतिर्लिङ्गेषु अन्यतमः विश्वनाथः अस्ति । समीपे एव भगवतः रामस्य जन्मभूमिः अयोध्या अपि अस्ति ।

कुम्भोत्सवः 
२००१ तमे वर्षे प्रवृत्ता कुम्भोत्सवः

हरिद्वारम्

हरिद्वारम् उत्तराञ्चले गङ्गानद्याः तटे स्थितम् अस्ति । हरिद्वारपर्यन्तं गङ्गा नदी पर्वतीयप्रदेशेषु एव प्रवहति । अतः एव तस्याः जलं निर्मलं भवति । समीपे ऋषिकेशतीर्थस्थलम् अस्ति । अत्र प्रसिद्धं शिवमन्दिरम् अस्ति ।

उज्जयिनी

उज्जयिन्यां शिवः 'महाकालः' इति नाम्ना विराजते । महाकालः अपि द्वादशज्योतिर्लिङेषु एकः अस्ति । उज्जयिनी विक्रमादित्यस्य राजधानी आसीत् । अत्र एव विक्रमस्य सभायां कालिदासः अपि आसीत् । उज्जयिन्याः किञ्चित् अग्रे नर्मदानद्याः तटे 'ओङ्कारेश्वरः' इति नाम्ना प्रसिद्धः ज्योतिर्लिङ्गः अपि अस्ति ।

नासिकनगरम्

नासिकं महाराष्ट्रप्रान्ते गोदावरीनद्याः तटे स्थितिम् अस्ति । अत्रैव पञ्चवटीस्थानम् अपि अस्ति । वनवासकाले रामः सीतालक्ष्मणाभ्यां सह पञ्चवट्याम् एव निवासं कृतवान् । समीपे एव गोदावरीनद्याः उद्गमस्थलम् अस्ति । तत्र 'त्र्यम्बकेश्वरः' इति नाम्ना प्रसिद्धः ज्योतिर्लिङ्गः अस्ति । अस्य स्थानस्य नाम अपि 'त्र्यम्बकेश्वर' एव अस्ति । भारतवर्षे कुम्भोत्सवानां कुम्भनगराणां च सांस्कृतिकं महत्त्वम् अस्ति ।

Tags:

कुम्भोत्सवः प्रयागःकुम्भोत्सवः हरिद्वारम्कुम्भोत्सवः उज्जयिनीकुम्भोत्सवः नासिकनगरम्कुम्भोत्सवःउज्जैनप्रयागःहरिद्वारम्

🔥 Trending searches on Wiki संस्कृतम्:

ओयिनां धनबीर सिंहकारकम्वीर बन्दा वैरागीचातुर्वर्ण्यं मया सृष्टं...द्विचक्रिकास्वाहिःअलङ्काराःअभिज्ञानशाकुन्तलम्Main pageबिहारराज्यम्शल्यचिकित्साभामहःअल्लाह्द्वितीयविश्वयुद्धम्रवीना टंडनमहाभाष्यम्दूरवाणीमत्त (तालः)राधा३७१एलिनोर् रूजवेल्ट्सितम्बर ७क्रैस्ताःभासः१७९०२८ नवम्बरचित्रकला११४३जी२०शिश्नम्बाक्सामण्डलम्सऊदी अरबसभ्यताऐतरेयोपनिषत्कुरआन्द्राक्षाफलम्१०७४११८केप वर्डीमेघदूतम्श्रीहर्षःविपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् (योगसूत्रम्)३३फुफ्फुसः४३१कराचीअक्षरधाम (गान्धिनगरम्)फलम्क्षीरपथ-आकाशगङ्गापुराणम्कमलम्१६०९जन्तवःदूरदर्शनम्दोनोस्टिया-सान सेबेस्टियनमुख्यपृष्ठम्सङ्गीतम्चिन्ता५६७संस्कृत१२३३अण्वस्त्रम्पाटलीपुत्रम्तिन्त्रिणीरास्यारामानुजाचार्यःनिरुक्तम्१२१४दशरथःहोराशास्त्रम्🡆 More