हनुमान् चालीसा

हनुमान् चालीसा हनुमत्प्रशंसायां भक्तिस्तोत्रम् अस्ति । अवधीभाषायां तुलसीदासः रचितः, रामचरितमानसः विहाय तस्य प्रसिद्धतमः ग्रन्थः अस्ति । अवधीभाषायाः अतिरिक्तं हनुमान्चालीसा संस्कृतं, कन्नड, तेलुगु, तमिळ्, गुजराती इत्यादिषु विविधभाषासु अपि उपलभ्यते । चालीसा इति शब्दः चालीस इत्यस्मात् निष्पन्नः अस्ति, यस्य अर्थः हिन्दीभाषायां चत्वारिंशत्सङ्ख्या अस्ति, यतः हनुमान्चालीसायां ४० श्लोकाः सन्ति (आदौ अन्ते च दोहा/पङ्क्तिद्वयं विहाय) । हनुमतः गुणाः - तस्य बलं, शौर्यं, प्रज्ञा, ब्रह्मचर्यं, रामभक्तिं, बहुनामानि च येन प्रसिद्धः - हनुमान् चालीसायां विस्तरेण दर्शिताः सन्ति । यद्यपि सम्पूर्णे भारते लोकप्रियम् अस्ति तथापि विशेषतः उत्तरभारते अतीव लोकप्रियम् अस्ति।

हनुमान चालीसा
हनुमान् चालीसा
जानकारी
धर्म हिन्दू धर्म
लेखक गोस्वामी तुलसीदास
भाषा अवधी

चालीसा विषये

हनुमान्चालीसा इत्यस्य लेखकत्वं तुलसीदासः, यः १६ शताब्द्यां कवि-सन्तः आसीत् । सः स्तोत्रस्य अन्तिमे श्लोके स्वनाम उल्लिखति । हनुमान्चालीसायाः ३९ तमे श्लोके कथ्यते यत् यः कश्चित् पूर्णभक्त्या हनुमते जपेति, तस्य हनुमत्प्रसादः भविष्यति । विश्वव्यापी हिन्दुषु अतीव लोकप्रियः विश्वासः अस्ति यत् चालीसा-जपेन गम्भीरसमस्यासु हनुमतः दिव्य-हस्तक्षेपस्य आह्वानं भवति ।

भाषा

हनुमान्चालीसायाः ४० श्लोकानां (छन्द) मध्ये आदौ २ दोहा (पङ्क्तिद्वयम्) अन्ते च एका दोहा अस्ति । चालीसा तस्य ज्ञानक्रमेण रामभक्तिर्निष्कामविवरणम् । भक्तिसाहित्यस्य प्रसङ्गे इव तुलसीदासः स्वगुरुस्तुतिं कृत्वा द्वौ दोहया काव्यस्य आरम्भं करोति । चालीसायाः भाषा अवधी अस्ति ।

लोकप्रियः सङ्गीतः

हनुमान चालीसाः हिन्दुधर्मस्य अतिमहत्त्वपूर्णानां ग्रन्थानां मध्ये एकः अस्ति, अनेकेषु लोकप्रियभजनानि, शास्त्रीय-लोकगीतानि च गायन्ति। १९७४ तमे वर्षे ग्रामोफोन कंपनी ऑफ इंडिया द्वारा रिलिजं कृतम् , १९९५ तमे वर्षे सुपर कैसेट्स इंडस्ट्रीज द्वारा पुनः रिलिजं कृतम् , हरिओम शरणस्य स्वरः अत्यन्तं लोकप्रियः अस्ति , एवं नियमितरूपेण उत्तरभारते स्थितेषु मन्दिरेषु च गृहेषु च प्रचलति ।

हनुमान चालीसा गायकाः लोकप्रियः गायकः कर्नाटकः गायकः एम. एस. सुब्बुलक्ष्मी, लता मंगेशकर, महेंद्र कपूर, एस. पी. बालासुब्रह्मण्यम, शंकर महादेवन, अनुराधा पौडवाल, कैलाश खेर, सुखविन्दर सिंह, सोनू निगम, उदित नारायण च।

चालीसा

परिचयात्मकं दोहा

श्रीगुरु चरन सरोज रज निज मनु मुकुरु सुधारि ।
बरनऊँ रघुबर बिमल जसु जो दायकु फल चारि ॥

बुद्धिहीन तनु जानिके, सुमिरौँ पवन कुमार ।
बल बुधि बिद्या देहु मोहि, हरहु कलेश विकार ।।

चतुष्पदम् (चौपाई)

जय हनुमान ज्ञान गुन सागर ।
जय कपीस तिहुँ लोक उजागर ॥१॥

राम दूत अतुलित बल धामा ।
अञ्जनि पुत्र पवनसुत नामा ॥२॥

महाबीर बिक्रम बजरङ्गी ।
कुमति निवार सुमति के सङ्गी ॥३॥

कञ्चन बरन बिराज सुबेसा ।
कानन कुण्डल कुञ्चित केसा ॥४॥

हाथ बज्र अरु ध्वजा बिराजे ।
कान्धे मूञ्ज जनेऊ साजे ॥५॥

शङ्कर सुवन केसरी नन्दन ।
तेज प्रताप महा जगबन्दन ॥६॥

विद्यावान गुनी अति चातुर ।
राम काज करिबे को आतुर ॥७॥

प्रभु चरित्र सुनिबे को रसिया ।
राम लखन सीता मनबसिया ॥८॥

सूक्ष्म रूप धरि सियहिँ दिखावा ।
विकट रूप धरि लङ्क जरावा ॥९॥

भीम रूप धरि असुर सँहारे ।
रामचन्द्र के काज सँवारे ॥१०॥

लाय सजीवन लखन जियाए ।
श्री रघुबीर हरषि उर लाए ॥११॥

रघुपति कीन्ही बहुत बड़ाई ।
तुम मम प्रिय भरतहि सम भाई ॥१२॥

सहस बदन तुम्हरो जस गावै ।
अस कहि श्रीपति कण्ठ लगावै ॥१३॥

सनकादिक ब्रह्मादि मुनीसा ।
नारद सारद सहित अहीसा ॥१४॥

जम कुबेर दिगपाल जहाँ ते ।
कबि कोबिद कहि सकै कहाँ ते ॥१५॥

तुम उपकार सुग्रीवहि कीन्हा ।
राम मिलाय राज पद दीन्हा ॥१६॥

तुम्हरो मन्त्र बिभीषण माना ।
लङ्केश्वर भये सब जग जाना ॥१७॥

जुग सहस्र जोजन पर भानू ।
लिल्यो ताहि मधुर फल जानू ॥१८॥

प्रभु मुद्रिका मेलि मुख माही ।
जलधि लाङ्घि गए अचरज नाही ॥१९॥

दुर्गम काज जगत के जेते ।
सुगम अनुग्रह तुम्हरे तेते ॥२०॥

राम दुआरे तुम रखवारे ।
होतना आज्ञा बिनु पैसारे ॥२१॥

सब सुख लहैँ तुम्हारी सरना ।
तुम रक्षक काहु को डरना ॥२२॥

आपन तेज सम्हारो आपै ।
तीनोँ लोक हाङ्क तै कापै ॥२३॥

भूत पिशाच निकट नहि आवै ।
महावीर जब नाम सुनावै ॥२४॥

नासै रोग हरे सब पीरा ।
जपत निरन्तर हनुमत बीरा ॥२५॥

सङ्कट तै हनुमान छुड़ावै ।
मन क्रम बचन ध्यान जो लावै ॥२६॥

सब पर राम तपस्वी राजा ।
तिनके काज सकल तुम साजा ॥२७॥

और मनोरथ जो कोई लावै ।
सोई अमित जीवन फल पावै ॥२८॥

चारोँ जुग परताप तुम्हारा ।
है परसिद्ध जगत उजियारा ॥२९॥

साधु सन्त के तुम रखवारे ।
असुर निकन्दन राम दुलारे ॥३०॥

अष्ट सिद्धि नौ निधि के दाता ।
अस बर दीन जानकी माता ॥३१॥

राम रसायन तुम्हरे पासा ।
सदा रहो रघुपति के दासा ॥३२॥

तुम्हरे भजन राम को पावै ।
जनम जनम के दुख बिसरावै ॥३३॥

अन्तकाल रघुबरपुर जाई ।
जहाँ जन्म हरिभक्त कहाई ॥३४॥

और देवता चित्तना धरई ।
हनुमत सेई सर्व सुख करई ॥३५॥

सङ्कट कटै मिटै सब पीरा ।
जो सुमिरै हनुमत बलबीरा ॥३६॥

जै जै जै हनुमान गुसाईँ ।
कृपा करहु गुरू देव की नाई ॥३७॥

जो सत बार पाठ कर कोई ।
छूटहि बन्दि महा सुख होई ॥३८॥

जो यह पढ़ै हनुमान चालीसा ।
होय सिद्ध साखी गौरीसा ॥३९॥

तुलसीदास सदा हरि चेरा ।
कीजै नाथ हृदय मह डेरा ॥४०॥

समापनं दोहा

पवनतनय सङ्कट हरन मङ्गल मूरति रूप ।
राम लखन सीता सहित हृदय बसहु सुर भूप ॥

संस्कृतानुवादः

अनुवादकः- पण्डितकाशीनाथशास्त्री

हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा ।
फलप्रदायी यदयं च सर्वं रामस्य पूतञ्च यशो वदामि ॥

स्मरामि तुभ्यं पवनस्य पुत्रं बलेन रिक्तो मतिहीनदासः ।
दूरीकरोतु सकलञ्च दुःखं विद्यां बलं बुद्धिमपि प्रयच्छ ॥


जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणाकरः ।
जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥ १ ॥

दूतः कोशलराजस्य शक्तिमांश्च न तत्समः ।
अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥ २ ॥

हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः ।
कुत्सितबुद्धिशत्रुस्त्वं सुबुद्धेः प्रतिपालकः ॥ ३ ॥

काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च ।
कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥ ४ ॥

वज्रहस्ती महावीरः ध्वजायुक्तो तथैव च ।
स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ॥ ५ ॥

नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनो खलु ।
तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥ ६ ॥

विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः ।
रामस्य कार्यसिद्ध्यर्थ मुत्सुको सर्वदैव च ॥ ७ ॥

राघवेन्द्रचरित्रस्य रसज्ञो स प्रतापवान् ।
वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥ ८ ॥

वैदेहीसम्मुखे तेन प्रदर्शितस्तनुः लघुः ।
लङ्का दग्धा कपीशेन विकटरूपधारिणा ॥ ९ ॥

हताः रूपेण भीमेन सकलाः रजनकचराः ।
कार्याणि कोशलेन्द्रस्य सफलीकृतवान् प्रभुः ॥ १० ॥

जीवितो लक्ष्मणस्तेन खल्वानीयौषधं तथा ।
रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥ ११ ॥

प्राशंसत् मनसा प्राशंसत् रामः कपीशं बलपुङ्गवम् ।
प्रियं समं मदर्थं त्वं कैकेयीनन्दनेन च ॥ १२ ॥

यशो मुखैः सहस्रैश्च गीयते तव वानर ।
हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥ १३ ॥

सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च ।
भारतीसहितो शेषो देवर्षिः नारदः खलु ॥ १४ ॥

कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् ।
पण्डिताः कवयो सर्वे शक्ताः न कीर्तिमण्डने ॥ १५ ॥

उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता ।
वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥ १६ ॥

तवैव चोपदेशेन दशवक्त्रसहोदरः ।
प्राप्नोतीति नृपत्वं सः जानाति सकलं जगत् ॥ १७ ॥

योजनानां सहस्राणि दूरे भुवो स्थितो रविः ।
सुमधुरं फलं मत्वा निगीर्णः भवता ननु ॥ १८ ॥

मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः ।
गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥ १९ ॥

यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि ।
भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥ २० ॥

द्वारे च कोशलेशस्य रक्षको वायुनन्दनः ।
तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥ २१ ॥

लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च ।
भवति रक्षके लोके भयं मनाग् न जायते ॥ २२ ॥

समर्थो न च संसारे वेगं रोद्धुं बली खलु ।
कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥ २३ ॥

श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः ।
भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥ २४ ॥

हनुमन्तं कपीशञ्च ध्यायन्ति सततं हि ये ।
नश्यन्ति व्याधयः तेषां रोगाः दूरीभवन्ति च ॥ २५ ॥

मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः ।
दुःखानि च प्रणश्यन्ति हनुमन्तं पुनः पुनः ॥ २६ ॥

नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः ।
तेषामपि च कार्याणि सिद्धानि भवता खलु ॥ २७ ॥

कामान्यन्यानि सर्वाणि कश्चिदपि करोति च ।
प्राप्नोति फलमिष्टं स जीवने नात्र संशयः ॥ २८ ॥

कृतादिषु च सर्वेषु युगेषु स प्रतापवान् ।
यशः कीर्तिश्च सर्वत्र देदीप्यते महीतले ॥ २९ ॥

साधूनां खलु सन्तानां रक्षयिता कपीश्वरः ।
राक्षसकुलसंहर्ता रामस्य प्रिय वानर ॥ ३०॥

सिद्धिदो निधिदस्त्वञ्च जनकनन्दिनी स्वयम् ।
दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ ३१ ॥

कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी ।
रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ ३२ ॥

पूजया मारुतपुत्रस्य नरो प्राप्नोति राघवम् ।
जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ ३३ ॥

देहान्ते च पुरं रामं भक्ताः हनुमतो सदा ।
प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ ३४ ॥

देवानामपि सर्वेषां संस्मरणं वृथा खलु ।
कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ ३५ ॥

करोति सङ्कटं दूरं सङ्कटमोचनो कपिः ।
नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ ३६ ॥

जयतु वानरेशश्च जयतु हनुमत्प्रभुः ।
गुरुदेवकृपातुल्यं करोतु मम मङ्गलम् ॥ ३७ ॥

श्रद्धया येन केनापि शतवारञ्च पठ्यते ।
मुच्यते बन्धनाच्छीघ्रं प्राप्नोति परमं सुखम् ॥ ३८ ॥

स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् ।
पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ ३९ ॥

सर्वदा रघुनाथस्य तुलसी सेवकः परम् ।
विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ ४० ॥


विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीशः ।
सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

हनुमान् चालीसा चालीसा विषयेहनुमान् चालीसा लोकप्रियः सङ्गीतःहनुमान् चालीसा चालीसाहनुमान् चालीसा सम्बद्धाः लेखाःहनुमान् चालीसा सन्दर्भाःहनुमान् चालीसाअवधीभाषाउत्तरभारतम्कन्नडभाषागुजरातीभाषातमिळभाषातुलसीदासःतेलुगुभारतम्संस्कृतम्स्तोत्रकाव्यम्हनुमान्हिन्दी

🔥 Trending searches on Wiki संस्कृतम्:

न्यायदर्शनम्राष्ट्रियबालदिनम् (भारतम्)नाट्यशास्त्रम् (ग्रन्थः)बृहदारण्यकोपनिषत्वाल्मीकिः४४४न्‍यू यॉर्क्मलयःवेनिसपाटलपुष्पम्क्षमा रावआवर्तसारणीअफगानिस्थानम्सूत्रलक्षणम्काफीपेयम्छन्दःविष्णुःमहापद्मनन्दःदर्शनानितुलसीवर्षाऋतुःमन्त्रःबाहु२०११वाचस्पतिमिश्रःकूर्मपुराणम्सहारादेहलीद टाइम्स ओफ इण्डियाकलियुगम्बाबर७८५एस् पी बालसुब्रह्मण्यम्नाटकचक्रम्जया किशोरी७०८संभेपूस्वसाट्यूप८७लकाराःमस्तिष्कम्६०६जीवाणुःनवम्बर १९मरीयमिपुत्रकराची२४ अक्तूबरद्विचक्रिकाभासनाटकचक्रम्नासादशरथःकार्बन१७ मईरवीन्द्रनाथ ठाकुरपाणिनीया शिक्षाकमलम्भट्ट मथुरानाथशास्त्रीअपह्नुत्यलङ्कारःकाव्यदोषाःआदिशङ्कराचार्यःमाण्डूक्योपनिषत्२०४द्वितीयविश्वयुद्धम्प्राचीनवास्तुविद्यागेन्जी इत्यस्य कथापाणिनिःखो खो क्रीडारघुवंशम्सम् (उपसर्गः)नीतिशतकम्समयवलयःईरान🡆 More