विश्वकर्मा देवानां शिल्पी। सर्जनात्मकशक्तेः देवता इति भारते पूज्यते। शिप्लिनः विशेषरूपेण विश्वकर्मपूजां कुर्वन्ति।
अस्मिन् लेखे इतोऽपि उल्लेखाः अपेक्ष्यन्ते। |
विश्वकर्मा | |
---|---|
हिमाचलप्रदेशस्थे मण्डीनगरस्य देवालयस्था विश्वकर्ममूर्तिः | |
Information | |
भार्या(ः)/भर्ता | विरोचना |
अपत्यानि | विश्वरूपः (त्रिशिराः) (पुत्रः) संज्ञादेवी (पुत्री) |
बान्धवाः | प्राभासवसुः(पिता) ब्रह्मवादिनी(माता) प्रह्लादः (श्वशुरः) बृहस्पतिः (मातुलः) सूर्यः (जामाता) अश्विनीकुमारौ (दौहित्रौ) |
विश्वकर्मणः पिता प्रभासवसुः। माता बृहस्पतेः स्वसा ब्रह्मवादिनी। अस्य त्वष्टा इत्यपि नामान्तरं विद्यते। प्रह्लादस्य पुत्रीं विरोचनां परिणीय विश्वरूपाचार्यनामकं पुत्रं प्राप। विश्वरूपाचार्यस्य एव त्रिशिराः इति नामान्तरम्। संज्ञादेवी विश्वकर्मणः पुत्री। एषा एव सूर्यं परिणीय अश्विनिकुमारौ पुत्ररूपेण प्राप्तवती।
ऋग्वेदे दशममण्डले दशवारं विश्वकर्मा इति नाम्नः उल्लेखः वर्तते। तत्र विश्वकर्मा वर्णितः। विश्वकर्मा चतुर्षु अपि दिक्षु शिरांसि, नेत्राणि, हस्तान् च दधाति। तस्य रूपं ब्रह्मणा तुल्यम् इति तत्र वर्णितम्। समृद्धेः चिन्तनस्य, दर्शनस्य, वाचः च देवतारूपेण सः उपकल्पितः। हिरण्यगर्भरूपं विश्वकर्मणः नाभौ एव दृष्टम् इति वेदाः वदन्ति। यजुर्वेदस्य महानारायणोपनिषदि अपि अयमाशयः उक्तः। अतः एव विश्वकर्मणः त्वष्टा इत्यपि नामान्तरं विद्यते। सर्वदेवानां विश्वकर्मा एव आद्यः इति स्तुतिरप्यस्ति। स्थापत्यवेदस्य आविष्कारः अनेन कृतः इत्यपि प्रतीतिरस्ति।
न भूमिर्नजलं चैव न तेजो न च वायवः।
न चिदाशा न बुद्धिः खं गोचरं न च ब्रह्मणः॥
न विष्णुश्च न रुद्रश्च तारकाः सर्वशून्यकाः।
निरालम्बः स्वयम्भूविश्वकर्मा॥
इति मूलस्तम्भपुराणे वर्तते। नासदीयसूक्ते अपि एतत्सदृशं वर्णनं दृश्यते[उद्धरणं वाञ्छितम्]।
विश्वकर्मा पञ्चानां प्रजापतीनां सृष्टिम् अकरोत् इति कथा विद्यते। एते प्रजापतयः विश्कर्मणः मुखाद् उत्पन्नाः। तस्य मुखानां नामानि सद्योजातः, वामदेवः, अघोरः, तत्पुरुषः, ईशानः। तेषां प्रजापतीनां नामानि मनुः, मयः, त्वष्टा, शिल्पी, विश्वज्ञः इति। विश्वकर्णणा ऋषयोऽपि सृष्टाः। सानगब्रह्मर्षिः, सनातनब्रह्मर्षिः, अहभुनब्रह्मर्षिः, प्रथ्नब्रह्मर्षिः, सुपर्णब्रह्मर्षिः इत्यपि तेषां नामानि। एते एव विश्वकर्मकुलीयानां मूलपुरुषाः सञ्जाताः। गोत्रनामत्वेन एतेषाम् एव नामानि उपयुज्यन्ते तैः[उद्धरणं वाञ्छितम्]।
विश्वकर्मा देवानां शिल्पित्वेन ख्यातः। सर्वेषां देवानां रथान् विश्वकर्मा एव निर्मितवान् इति प्रतीतिः वर्तते। केषाञ्चन देवानाम् आयुधानि अपि विश्वकर्मणा एव निर्मितानि। दधीचिमहर्षेः अस्थ्नः वज्रायुधं निर्माय देवेन्द्राय अदात्। इन्द्रस्य अमरावत्याः निर्माणं च अकरोत्। परशुरामस्य वैष्णवधनुः, शिवधनुः, पुष्पकविमानं च विश्वकर्मणा एव निर्मितम्।
फलकम्:Unreferenced section
स्वर्णलङ्कां विश्वकर्मा एव निर्मितवान् इति प्रतीतिः विद्यते। आदौ किञ्चन स्वर्णभवनं शिवाय निर्मितवान्। गृहप्रवेशार्थं पुलस्त्यमुनिः आगतः। गृहप्रवेशानन्तरं दक्षिणारूपेण सः तद् गृहमेव अपृच्छत्। शिवः तस्मै स्वर्णमन्दिरं दत्तवान्। तच्च लङ्कायां स्थापितम्। पुलस्त्यस्य पौत्रः कुबेरः तत्र वासम् आरब्धवान्। तत्पश्चात् रावणः तन्नगरीमाक्रम्य स्वायत्तीकृतवान्। तथैव श्रीकृष्णस्य अनुरोधमनुसृत्य समुद्रमध्ये द्वारकापुरीमपि विश्वकर्मा निर्मितवान्। आधुनिककाले विद्यमानाः अपि कतिचन शिल्पकलाकृतयः विश्वकर्मणा एव निर्मिताः इति प्रतीतिः वर्तते। पुरीनगरस्थं जगन्नाथमन्दिरं विश्वकर्मणा निर्मितम्। एवं सत्ययुगे स्वर्गं, त्रेतायुगे लङ्कां, द्वापरयुगे द्वारकां कलियुगे पुरीं च विश्वकर्मा निर्मितवान्।
भारते स्थापत्यस्य देवतारूपेण विश्वकर्मा आराध्यते। प्रायेण नवम्बर् मासे देशे बहुत्र विश्वकर्मपूजा आचर्यते। भारतीयमज्दूरसङ्घः बहुत्र विश्वकर्मपूजाः आयोजयति। विश्वकर्मकुलीनाः जनाः आभारतं प्रसृताः विद्यन्ते।
This article uses material from the Wikipedia संस्कृतम् article विश्वकर्मा, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.