युगादिः

चान्द्रमानपद्धत्यनुसारं चैत्रशुक्लप्रतिपत् एव युगादिः इति उच्यते । तद्दिने एव नववर्षस्य आरम्भः । तदा एव वसन्त-ऋतोः आगमनमपि । प्रकृतिः अपि नवोत्साहवती भवति तदा । वृक्षाः सर्वे पल्लविताः भवन्ति । सर्वत्र वसन्तस्य प्रभावः दृश्यते । इदानीन्तनजगति नवसंवत्सरः इति यद् आचरन्ति (जनवरी १) तदा तु प्रकृतौ नववर्षस्य किमपि लक्षणं न भवति । वृक्षाः सर्वे पर्णरहिताः तिष्ठन्ति । वातावरणम् अपि अतिशीतलं भवति । जनाः अपि तादृशवातावरणे उत्साहवन्तः न भवन्ति । एतत् युगादिपर्व समग्रे भारतदेशे आचर्यमाणं महापर्व । केषुचित् राज्येषु एतत् दिनं नूतनवर्षत्वेन आचर्यते |एतत् पर्व यस्मिन् वासरे भवति तस्य वासरस्य ग्रहः एव तस्य वर्षस्य अधिपतिः भवति । उदाहरणार्थं युगादिपर्व गुरुवासरे अस्ति चेत् गुरुग्रहः एव तस्य संवत्सरस्य अधिपतिः ।

युगादिः नाम युगस्य आदिः । युगानि चत्वारि – कृत-त्रेत-द्वापर-कलियुगम् चेति । भगवान् ब्रह्मा एतद्दिने एव जगतः सॄष्टिकार्यम् आरब्धवान् इति कारणात् एतत् दिनं युगादिशब्देन निर्दिश्यते ।

    प्राप्ते नूतनवत्सरे प्रतिगृहं कुर्यात् ध्वजारोहणम् ।
    स्नानं मङ्गलमाचरेत् द्विजवरैः साकं सुपूज्योत्सवैः ॥
    दे:वानां गुरुयोषितां च शिशवोऽलङ्कारवस्त्रादिभिः ।
    स्म्पूज्य गणकःफलं च श्रुणुयात्तस्माच्च लाभप्रदम् ॥
युगादिः
युगादिदिने विशेषतया निर्मीयमाणः "पोलिका"नामकः खाद्यविशेषः
    युगादिदिने आम्र-निम्बपर्णैः गृहम् अलङ्कृत्य गृहस्य मन्दिराणाम् उपरि वा ओङ्कारचिह्नयुक्तं भगवद्ध्वजम् आरोपयन्ति । सूर्योदयात् घण्टाद्वयात् प्रागेव (उषःकाले) तैलाभ्यञ्जनं कृत्वा नववस्त्राणि धृत्वा पूजा-दानादीनि धार्मिककार्याणि आचरन्ति । गुरून् ज्येष्ठान् च नमस्कृत्य आशीर्वादं प्राप्नुवन्ति । मध्याह्नभोजने प्रथमं निम्बगुडमिश्रणं खादित्वा अनन्तरं मधुरभोजनं कुर्वन्ति । मध्याह्नभोजनार्थं विशेषतया "पोलिका"नामकं खाद्यविशेषं निर्मान्ति । सायङ्काले “पञ्चाङ्गश्रवणं” करणीयम् । ग्रहणानां, वृष्टि-सस्यसमृद्धीनां च पूर्वसूचनाः भवन्ति पञ्चाङ्गे । रात्रौ चन्द्रोदयावसरे चन्द्रस्य नमस्कारः क्रियते तद्दिने । बान्धवान् मित्राणि च शुभकामनाः वदन्ति परस्परमेलनद्वारा । दूरे स्थितेभ्यः शुभकामनाः प्रेषयन्ति च । तद्दिने रामायणश्रवणम् अपि कुर्वन्ति कुत्रचित् ।
युगादिःहिन्दुधर्मः

हिन्दुधर्मः • इतिहासः

युगादिःPortal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

तस्य दिनस्य महत्त्वम् :

    १.पुराणानुसारम् अस्मिन्नेव दिने ब्रह्मा सृष्टिकार्यम् आरब्धवान् ।
    २.श्रीरामः रावणं संहृत्य अयोध्यां प्रत्यागत्य एतद्दिने एव शासनम् आरब्धवान् ।
    ३.शालिवाहनशकस्य विक्रमसंवत्सरस्य आरम्भदिनम् एतदेव ।
    ४. राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकस्य केशवबलिरामहेगडेवारस्य जन्मोत्सवः अस्मिन्नेव दिने ।

निम्ब-गुडमिश्रणस्य महत्त्वम् :

आयुर्वेदानुसारं वसन्तऋतौ जायमनानां शारीरकविकाराणां निमित्तम् उत्तमम् औषधम् अस्ति निम्बकम् । निम्बगुडयोः मिश्रणस्य खादनेन शरीरस्य समतोलनं साधितं भवति ।

युगादिः 
निम्बपर्णं पुष्पं च
युगादिः 
गुडः
    शतायुर्वज्रदेहाय सर्वसम्पत्कराय च ।
    सर्वारिष्टविनाशाय निम्बकं दलभक्षणम् ॥

निम्बकदलभक्षणेन शतायुः भवति । शरीरं वज्रमिव सुदृढं भवति । सर्वसम्पत्प्राप्तिः भवति । सर्वारिष्टविनाशः अपि भवति । इति वदति अयं श्लोकः । जीवनं नाम निम्बकगुडमिश्रणमिव । मधुरत्वं तिक्तत्वं द्वयमपि भवति इत्यपि सन्देशं स्मारयति निम्बकगुडमिश्रणम् । एतत् निम्बकगुडमिश्रणं सुख-दुःखयोः, रात्रि-दिनयोः, लाभ-नष्टयोः, प्रीति-द्वेषयोः, जयापजययोः वा सङ्केतम् इव अस्ति । सर्वम् अपि जीवने समभावेन स्वीकरणीयम् इत्यस्य “स्थितप्रज्ञत्व”]]स्य अपि पाठः अस्ति अत्र । समग्रस्य वर्षस्य पूर्वसूचना दीयते एतत् निम्बकगुडमिश्रणम् ।

Tags:

गुरुःग्रहविज्ञानम्वसन्तः

🔥 Trending searches on Wiki संस्कृतम्:

१३३४५२सितम्बर २१मार्च २९उत्तररामचरितम्१०००व्याकरणम्मई १०जनवरी २८विकिस्रोतःमार्च २४ अगस्तअक्तूबर १८लिबियाहिन्दूधर्मः३७२१९६१५९विकिमीडिया१८ जुलाई१६ अक्तूबरहन्शिन् टाइगर्स५ अक्तूबरदिसम्बर १५रेडियोअगस्त १९मार्च ९अप्रैल ५५५२२२२आर्यभटीयम्सितम्बर १७सितम्बर४१६अप्रैल १६मई १३११६६अक्तूबर १४अगस्त २३२९ दिसम्बरफरवरी २५६९७ओक्‍लाहोमायास्कःस घोषो धार्तराष्ट्राणां...मार्च २५जया किशोरीईरानभारतस्य नृत्यकलाः३०६अगस्त १३यूनानीभाषासितम्बर ४मार्च १२६ अगस्त२७ मार्चअक्षरं ब्रह्म परमं...१६६२दिसम्बर २८मई २९कठोपनिषत्२१ जनवरीथाईभाषाअगस्त २७जून २१६८५२९ अक्तूबरअक्तूबर ३१३७८फरवरी १२मार्च १०मम्मटःव्लाडिमिर लेनिन६५४समानतावादः३० जुलाई५ नवम्बर१८ अक्तूबर🡆 More