यावानलः

अयं यावानलः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं यावानलः सस्यजन्यः आहारपदार्थः । अयं यावानलः आङ्ग्लभाषायां Great Millet इति उच्यते । हिन्दीभाषायां जुअर् इति, ल्याटिन्-भाषायां Gramineae इति च वदन्ति । अयं यावानलः तृणकुले Gramineae कुले अन्तर्भवति । अयं यावानलः तस्य वर्णस्य अनुगुणं द्विधा विभज्यते । श्वेतः यावानलः, रक्तः यावानलः च इति । कर्णाटकस्य उत्तरभागे तु यावानलः प्रतिदिनस्य आहारः । तत्र गोधूमस्य रोटिकां वा, तण्डुलस्य ओदनं वा न सेवन्ते । अपि तु प्रतिदिनं यावानलस्य पिष्टेन निर्मितां रोटिकाम् एव खादन्ति । जूर्णः, यवनालः, शिखरी, वृत्ततण्डुलः, दीर्घनालः, दीर्घशरः, क्षेत्रक्षुः, इक्षुपत्रकः, जूर्णाह्वा, योनला, युगन्धरा, यावनालः, देवधान्यं, मौक्तिकतण्डुलः इत्यादीनि यावानलस्य अन्यानि नामानि । अनेन यावानलेन पौलिं, लाजाः, रोटिकां, यवसक्तु च निर्मान्ति । अयं यावानलः द्विविधः भवति । रोटिकानिर्माणस्य यावानलः भिन्नः एव भवति । सः लघ्वाकारकः भवति । अन्ये यावानले पुनः मधुरः यावानलः इत्यपि कश्चन प्रभेदः भवति ।

यावानलः
यावानलप्रभेदः
यावानलः
अन्यविधस्य यावानलः
यावानलः
यावानलसस्यम्
यावानलः
यावानलस्य बीजानि
यावानलः
त्वक्-रहितयावानलस्य राशिः
यावानलः
यावानलपुष्पम्
यावानलः
रक्तवर्णस्य मधुरयावानलः
यावानलः
विभिन्नानां वर्णानां यावानलः
यावानलः
श्वेतवर्णस्य मधुरयावानलबीजानि
यावानलः
यावानलक्षेत्रम्
    “यावनालो यवनालः शिखरी वृत्ततण्डुलः ।
    दीर्घनालो दीर्घशरः क्षेत्रेक्षुश्चेक्षुपत्रकः ।
    जूर्णाह्वा योनला प्रोक्ता यावनालायुगन्धराः ॥“ (धन्वन्तरीकोषः)

आयुर्वेदस्य अनुसारम् अस्य यावानलस्य स्वभावः

अयं यावानलः पचनार्थं जडः । अयं रूक्षः, शीतगुणयुक्तः, रुचिकरः च । अयं यावानलः मधुररुचियुक्तः ।

    “रूक्षः शीतो गुरुः स्वादु सरोविद्वातकृद्यवः ।
    वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफान् जयेत् ॥
    पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान् ॥“ (अष्टाङ्गहृदयम्)
    “कफपित्तहरा वृष्या मृदवो गुरवो हिमाः ।
    रूक्षा विष्टम्भिनश्चैव पथ्या गुदरोगिणाम् ॥“ (धन्वन्तरीकोषः)
    १. श्वेतः यावानलः त्रिदोषहरः, रुचिकरः, पथ्यः, गुल्मनाशकः च ।
    २. रक्तः यावानलः उष्णः, कषायरुचियुक्तः च ।
    ३. यावानलः अस्थिरोगं निवारयति ।
    ४. अयं यावानलः रक्तं शुद्धीकरोति ।
    ५. यावानलः त्वक्-सम्बद्धान् रोगान् अपि निवारयति ।
    ६. यावानलः शरीरं शुष्कीकरोति, व्रणान् अपि बहुशीघ्रं निवारयति ।
    ७. यावानलः मलस्तम्भकः इति कारणतः गुदरोगिणः मितरूपेण सेवितुम् अर्हन्ति ।
    ८. यावानलः कफं पित्तं च निवारयति, वातं वर्धयति च ।
    ९. यावानलः वीर्यवर्धकः, मृदु, पचनार्थं जडः च ।
    १०. वृष्टिकाले वर्धितः यावानलः किञ्चित्प्रमाणेन कफकारकः, नैर्यासगुणयुक्तः च ।
    ११. शैत्यकाले वपनं कृत्वा वसन्ते प्राप्तः यावानलः मधुरः, त्रिदोषहरः, बलवर्धकः च ।
    १२. यावानलः शरीरस्य भारं वर्धयति ।
    १३. यावानलः शरीरे जलांशं न्यूनीकृत्य प्रमेहनाशकरूपेण कार्यं करोति ।
    १४. यावानलः प्रमेहिणां नित्यपथ्यः आहारः ।
    १५. यावानलेन निर्मिताः यवलाजाः पचनार्थं लघवः, पचनशक्तिम् अपि वर्धयन्ति ।
    १६. यवलाजाः वमनम्, अतिसारः, उदरे ज्वलनं, रक्तदोषः, प्रमेहः, स्थूलकायत्वं, पिपासा इत्यादिभिः समस्याभिः पीडितानां निमित्तम् अत्युत्तमाः ।
    १७. यवसक्तु अपि पचनार्थं लघु, वीर्यवर्धकं च ।
    १८. यवसक्तु जलेन सह वा, रात्रौ वा, भोजनेन सह वा न सेवनीयम् ।

Tags:

कर्णाटकम्गोधूमःभारतम्लाजाः

🔥 Trending searches on Wiki संस्कृतम्:

मदर् तेरेसाराममन्दिरम्, अयोध्याभौतिकीहन्शिन् टाइगर्सअजीम प्रेमजीकुल्गांव१६९इस्रेलनोबेल् प्रशस्तिःअग्निःपक्षताचरकसंहितारामायणम्संयुक्तराज्यानि९७योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)मत्स्याःब्रूनैपुरुषोत्तमयोगःब्रह्मसूत्राणिभारतीयप्रौद्यौगिकसंस्थानम्साहित्यदर्पणःहितोपदेशःधर्मशास्त्रम्४३०प्रियदर्शिकाद्वैतदर्शनम्संभेपूस्वसाट्यूप२५४कालिदासस्य उपमाप्रसक्तिः१७४४कादम्बरीदिसम्बर २८हल्द्वानीयदा विनियतं चित्तम्...गद्यकाव्यम्स्वामी दयानन्दसरस्वती3.5 तज्जयात् प्रज्ञालोकःमराठीभाषाॐ मणि पद्मे हूँपञ्चतन्त्रम्छत्रपति शिवाजीहारुकाविकिसूक्तिःजुलाई २२१०८६धनञ्जयःभट्टिःद्वितीयविश्वयुद्धम्तिपटूरुविधानसभाक्षेत्रम्निरुक्तम्भारतीयदर्शनशास्त्रम्वितथआश्रमव्यवस्थापञ्चमहाकाव्यानिउनउनउनियम१८व्यक्तित्वविकारःअमिताभ बच्चनकठोपनिषत्प्राणःस्याम्सङ्ग्१७३०पतञ्जलिः९१८संयोगिता चौहानसचिन तेण्डुलकरलूइसियाना१६९१महायानम्११८७संन्यासाश्रमःShankar Dayal Sharma🡆 More