मिथुनराशिः द्वादशराशिषु अन्यतमः अस्ति । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।
मिथुनं नाम युगलम् इत्यर्थः । कस्मिंश्चित् विषये अपि द्विधा चिन्तनम् । द्वयोः भावयोः स्थानकल्पनम् । निर्णयसामर्थ्यस्य न्यूनतायाः कारणात् द्वन्द्वभावस्य अनुभवनम् एतस्य राशिवतां लक्षणम् ।
मिथुन-कन्याराश्योः बुधः अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।
मिथुनः सहजतृतीयभावः इति निर्दिश्यते । तूतीयभावे सहोदराः, सहकारः, लघु-प्रयाणानि, करकुशलकार्याणि, हस्तलिपिः - इत्येते अंशाः भवन्ति । मिथुनराशिवत्सु अपि एते अंशाः दृग्गोचराः भवन्ति ।
पश्चिमदिशः स्वामी, वायुतत्त्वं, शुक्रः इव हरितवर्णः, पुरुषराशिः, द्विस्वभावः, विषमोदयी, उष्णः, शूद्रवर्णः, महाशब्दकारी, दिनबली, मध्यमसन्ततिः, शिथिलशरीरम् । अस्य प्राकृतिकस्वभावः विद्याध्ययनरतः, शिल्पी च । अनेन स्कन्ध-बाहूनां विचारः क्रियते । अस्य स्वामी बुधः । उक्तं च -
मिथुनराशौ मृगशिरायाः ३, ४ पादौ, आर्द्रायाः ४ पादाः, पुनर्वसोः १, २, ३ पादः भवन्ति इत्यतः का, की, कू, खं, ङ, भ, के, को, हा ... इत्येतानि अक्षराणि मिथुनसम्बद्धानि इति वक्तुं शक्यते ।
येषां जन्मदिनम् मेमासस्य २१ दिनाङ्कतः जून्-मासस्य २१ दिनाङ्कतः पूर्वं भवति तेषां मिथुनराशिः ।
This article uses material from the Wikipedia संस्कृतम् article मिथुनराशिः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.