मकरराशिः

मकरः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्

मकराः जले भूमौ च अटतः । जले विद्यमानाः मकराः अधिकशक्तिशालिनः भवन्ति । हठेन सेवाधर्मपालनं, महता परिश्रमेण वा स्वस्य कार्यसमाप्तिः अस्य स्वभावः । स्वस्य स्थानबलं जले यथा अधिकं तथा मकरराशिवन्तः स्वस्य प्रदेशे एव अधिकाम् अभिवृद्धिं प्राप्नुवन्ति । लोके उदात्तधर्मस्य सेवाधर्मस्य सङ्केतरूपेण एते तिष्ठन्ति ।

अधिपतिः

मकर-कुम्भराश्योः शनिः अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । मकरराशौ श्रमपूर्वकसेवा दृश्यते । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।

राशिभावः

मकरराशेः सहज-दशमभावः इति निर्दिश्यते । कुटुम्बेन प्राप्यमाणः उत्तराधिकारः, समाजे प्राप्यमाणानि स्थानमानानि, उद्योगे प्राप्यमाणं गौरवं, वृत्तौ लाभालाभाः, वृद्धि-क्षयादयः - इत्यादयः अंशाः अत्र द्रष्टव्याः ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः

चरसंज्ञकः, स्त्रीजातिः, पृथ्वीतत्त्वं, वातप्रकृतिः, पिङ्गलवर्णः, रात्रिबली, वैश्यवर्णः, शिथिलशरीरं, दक्षिणदिशः स्वामी । अस्य प्राकृतिकस्वभावः उच्चदशाभिलाषी वर्तते । अस्य स्वामी शनिः । यथा चोक्तं-

    मन्दाधिपस्तमी भौमी याम्येट् च निशिवीर्यवान् ॥
    पृष्ठोदयी बृहद्गात्रो मकरो जलभूचरः ।
    आदौ चतुष्पादन्ते च द्विपदो जलगो मतः ॥

स्म्बद्धानि अक्षराणि

मकरराशौ उत्तराषाढायाः २,३,४ पादाः, श्रवणायाः ४ पादाः, धनिष्ठायाः १, २ पादौ च भवन्ति इत्यतः बो, जा, जि, जू, जे, जो, ख, गा, गि ... इत्येतानि अक्षराणि मकरराशिसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्

येषां जन्मदिनम् फेब्रवरी-मासस्य २० दिनाङ्कतः मार्च्-मासस्य २० दिनाङ्कतः पूर्वं भवति तेषां मकरराशिः ।

Tags:

मकरराशिः नामौचित्यम्मकरराशिः अधिपतिःमकरराशिः राशिभावःमकरराशिः जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयःमकरराशिः स्म्बद्धानि अक्षराणिमकरराशिः जन्मदिनम्मकरराशिःकन्यारशिःकर्कटराशिःकुम्भराशिःतुलाराशिःधनूराशिःमिथुनराशिःमीनराशिःमेषराशिःवृश्चिकराशिःवृषभराशिःसिंहराशिः

🔥 Trending searches on Wiki संस्कृतम्:

अष्टाङ्गयोगःभाषाकुटुम्बःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)नेपोलियन बोनापार्टब्रह्मचर्यम्काशी१३९४भूकम्पः१७वीर बन्दा वैरागी७७५संस्कृतव्याकरणपरम्परावेदःशकुन्तलाइङ्ग्लेण्ड्१४७४विलियम ३ (इंगलैंड)जापानी भाषामस्तिष्कम्पुरातत्त्वशास्त्रम्सुखदुःखे समे कृत्वा...संहतिः (भौतविज्ञानम्)ग्रामःहनुमान्स्कन्दपुराणम्जार्ज ११६कालीएलेन ट्यूरिंग६०५पक्षिणः१६४८क्रैस्तमतम्संयुक्तराष्ट्रसङ्घः१७४६तण्डुलाःब्रह्मचर्याश्रमः३६९११५६दुष्यन्तःसंस्कृतम्प्राणायामःवायुमालिन्यम्संस्कृतविकिपीडियासत्यम्सऊदी अरबनवम्बर २६बालरोगशास्त्रअकिमेनिड्-साम्राज्यम्मेघदूतम्२०१०ध्११४३महम्मद् हनीफ् खान् शास्त्री२२ मार्चराजस्थानराज्यम्कराचीकच्छवनस्पतियुक्तभूमिःविकिमीडियाशाहजहानः४३१औदुम्बरवृक्षःविश्वामित्रःबर्गममार्जालःभगत सिंहमत्त (तालः)छायाग्राहिकाबिल्वः७ अप्रैलनारिकेलम्🡆 More