भूकम्पः

भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पनमित्यादी वैपरीत्यमेव भूकम्पः ।

भूकम्पः
जागतिक भूकम्पकेन्द्राणि, १९६३- १९९८

भूकम्पस्य लक्षणानि

भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति । भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति ।(आ) भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति ।

भूकम्पस्य परिणामाः

कदाचित् भूकम्पस्य परिणामतःभूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते । भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव । अधिकजनयुतेषु प्रदेशेषु अधिका हानिः सम्भवति ।

मर्क्यालिमानम् – एतत् मानं भूकम्पस्य तीव्रतां मापयित्वा , अमुके प्रदेशे प्रवृत्तस्य भूकम्पस्य प्रमाणं विवृणोति ।एतस्मिन् रोमन् संख्या I तः XII पर्यन्तं भवति | अत्र परिणामाः संक्षिप्ततया प्रदत्ताः।

क्रमसंख्या तीव्रता परिणामाः
सूक्ष्मा - सेस्मोग्राफ्द्वारा कैश्चिद्भिः पशुभिः एव ज्ञातुं साध्यम् ।
दुर्बला - विश्रान्तिस्तितौ वर्तमानाः केचन जनाः एव ज्ञातु शक्नुवन्ति ।
लघ्वी - यदा ट्रक्यानमागच्छति तावान् कम्पनयुतः ।
मिता - गृहस्य अन्तः अनुभवगम्यः,स्थगितं कार्यनं कम्पितं भवति ।
स्वल्पबलयुता - सामान्यस्थितौ अनुभवगम्यः, सुप्ताः भीताः भवन्ति ।
बलयुता - वृक्षाः कम्पन्ते । आसन्दाः पतन्ति ।
अतिबलयुता - अपायः, भित्तयः भिन्नाः भवन्ति , छदयः बलहीनाः भवन्ति ।
हानिकारिका - स्तम्भाः, प्रतिमाः, दुर्बलभित्तयः, पतन्ति।
नाशकारिणी -भूमिः स्फुटति, कानिचन गृहाणि विदारितानि भवन्ति ।
१० विनाशकारिणी - अनेकानि भवनानि नष्टानि भवन्ति, रेल्मार्गः नष्टः भवति ।
११ विपत्कारिणी - गृहाणि नश्यन्ति , भूमिः निकूला भवति ।
१२ प्रलयकारिणी - सम्पूर्णनाशः, भूमिः तरङ्ग एव भाति ।

रिक्टर् मापनम्

एतत्मापनं भूकम्पस्य प्रमाणं अथवा विस्तारं मापयितुं उपयुनक्ति ।सेस्मोग्राफ उपकरणेन भूकम्पतः उत्पन्नां शक्तिं मापयितुं शक्यते ।

व्याप्तिः

एतान्मानचित्रम् बृहत्भूकम्पवलयं दर्स्शयति । शान्तसागरस्य तटपर्यन्तं तथा आल्फपर्वतश्रेण्यां, हिमालयमध्ये वर्तमानपर्वतश्रेणीनां तथा तासां समीपि भूकम्पः सामान्यतया सम्भवति । प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर् उपकरणे अष्टमस्थानं अतिक्रान्तः ।

    १९०६ - कोल्म्बियातटप्रदेशः -८.६
    १९०६ -स्यान्फ्रान्सिस्को - ८.३
    १९२० -कान्षुप्रदेशः, चीना -८.६
    १९२३ -क्याण्टोक्षेत्रम्, जपानदेशः- ८.३
    १९५० - अस्साम्, भारतदेशः - ८.६
    १९५२ -कञ्चट्का -८.५
    १९५७ -अलीषियन् द्विपाः(यू.एस्.ए) - ८.३
    १९६० -लेबु ,चिलिदेशः-८.३
    १९६४ -अङ्कोरेज् ,अलास्कदेशः - ८.५
    १९७६ -टाङ्षन् ,चीनादेशः - ८.२

ऐतिहासिकाः भूकम्पाः

१७५५ तमे वर्षे लिस्बन्प्रदेशे सम्भूतः भूकम्पः रिक्टर्मापने ८.७५ तः ९ पर्यन्तं तीव्रतायुक्तः आसीत् । चीनादेशस्य षेंन्सिप्रदेशे प्रवृत्ते १५५६ तमे वर्षे प्रवृत्ते भूकम्पे ८,३०,००० जनाः कालकवलीभूताः ।

प्राणहानिः

    १९०८- मेस्सिना इटलि - ८०,०००
    १९०६- अवेज्ञानोइटलि- २९,९७०
    १९२० - कान्षुचीना - १,८०,०००
    १९२३- क्य़ाण्टोजपान् - १,४२,८०२
    १९५० - कान्षुचीना- ७०,०००
    १९५२- क्वेट्टाभारतम् - ६०,०००
    १९५७ - एर्जिङ्कान्टर्कि - ३०,०००
    १९६० - उत्तर्पेरुमध्ये- ६६,८००
    १९६४ - ताङ्ग्टान्चीना - २,४२,०००
    १९७६ - तबस्इरान् - २५,०००

बाह्यसम्पर्कतन्तुः

Tags:

भूकम्पः भूकम्पस्य लक्षणानिभूकम्पः भूकम्पस्य परिणामाःभूकम्पः रिक्टर् मापनम्भूकम्पः व्याप्तिःभूकम्पः ऐतिहासिकाः भूकम्पाःभूकम्पः प्राणहानिःभूकम्पः बाह्यसम्पर्कतन्तुःभूकम्पः

🔥 Trending searches on Wiki संस्कृतम्:

सत्यम्रामनवमीभीमराव रामजी आंबेडकरविसूचिकाबिल्वःचितकारा विश्वविद्यालयकमला सोहोनीमैत्रेयीमध्वाचार्यःरकुल प्रीत सिंहज्योतिषशास्त्रस्य विकासक्रमःसंयुक्तराज्यानिकालिदासःइण्डोनेशियासमासःमई १०जापानी भाषानवम्बर २ज्ञानपीठप्रशस्तिःओडिशीकाव्यम्कृष्णजन्माष्टमीनारिकेलम्कांगो गणराज्यम्वृक्षमाण्डूक्योपनिषत्हाम्मुरबीऐर्लेण्ड् गणराज्यम्विज्ञानेतिहासःयोगःजुलाई १०मासचुसेट्‍सअलङ्कारग्रन्थाःविश्वस्वास्थ्यसंस्थालातूरलोकेऽस्मिन् द्विविधा निष्ठा...विषमबाणलीलागाण्डीवं स्रंसते हस्तात्...कुमारिलभट्टःपुर्तगालनागार्जुनःमहाभारतम्पाकिस्थानम्कुचःकूर्मपुराणम्अभिज्ञानशाकुन्तलम्अरुण शौरी६७७८६१महाकाव्यम्१४०५जीन् ब्याप्टिस्ट् लामार्क्मेघदूतम्महाभाष्यम्बेट्मिन्टन्-क्रीडायामिमां पुष्पितां वाचं…फलानिमाधवीतमिळभाषाइन्द्रवज्राछन्दःसाहित्यदर्पणःसंस्कृतम्आपूर्यमाणमचलप्रतिष्ठं...अरबीभाषालिङ्गपुराणम्पुरातत्त्वशास्त्रम्शवः१ अक्तूबर१६६६जावामन्ना डे२७२ह्यूगो द व्रीस्मास्कोनगरम्🡆 More