निघण्टुः

निघण्टुः वेदस्य कठिनशब्दानां समुच्चयः अस्ति । निघण्टुग्रन्थस्य सङ्ख्याविषये पर्याप्तः मतभेदः अस्ति । सम्प्रति समुपलब्धो निघण्टुग्रन्थ एक एवास्ति, किञ्च प्राचीनपरम्परायाः अनुशीलनेन निघण्टुग्रन्था अनेके प्राप्यन्ते।

निरुक्तस्य आरम्भे 'निघण्टुम्' 'समाम्नाय' इत्येतेन पदेनाभिधीयते । तेनास्य प्राचीनत्वं प्रमाणयन्ति विद्वांसः । महाभारतस्य मोक्षधर्मपर्वानुसारेण अस्य निघण्टोः रचयिता प्रजापतिः कश्यपः आसीत् —

'वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत।

निघण्टुकपदाख्याने विद्धि मा वृषमुत्तमम्॥

कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते।

तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः॥'

वर्त्तमाने निघण्टुग्रन्थे ‘वृषाकपिः’ शब्दः सङ्गृहीतोऽस्ति । अतः महाभारतकालेऽस्य निघण्टुग्रन्थस्य निर्मातृपदेन प्रजापतिः कश्यप एव प्रख्यातः मन्यते।

व्युत्पत्तिः

निघण्टु्शब्दस्य व्युत्पत्तिः एवं भवति । नि + गम्लृ गतौ + तुन् प्रत्ययः (उणा.१.६९.) अपि च वदति यास्कः - निघण्टवः कस्मात्? निगमा इमे भवन्ति । ते निगन्तव एव सन्तो निगमनात् निघण्टव इत्युच्यन्त इति औपमन्यवः। निश्चयेन गमयन्ति प्रापयन्ति वेदार्थान् इति निगमाः, निघण्टवो वा । अपि च हन धातुना अपि निघण्टुशब्दस्य व्युत्पत्तिं दर्शयन्ति - सम्यक्तया आहताः वेदेभ्यः इति ।

विषयवस्तु

निघण्टुग्रन्थे १७७३ शब्दाः सङ्गृहीताः । अध्यायपञ्चकेषु विभक्तोऽयं ग्रन्थः । गवादि देवपत्न्यन्ताः वैदिकशब्दाः तत्रोक्ताः । प्रथमाध्यायत्रयं नैघण्टुककाण्डमिति प्रोक्तम् । चतुर्थाध्यायस्तु नैगम इत्युच्यते । पञ्चमस्तावत् दैवतमिति संविज्ञातम् । अस्य ग्रन्थस्य विषये यास्कः स्वयमेव वदति -

समाम्नायः समाम्नातः, स व्याख्यातव्यः । ... छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः ।

अर्थात् अस्मिन् ग्रन्थे निघण्टौ आम्नायशब्दाः एव समाहृताः । तस्य विवरणमत्र निरुक्ते क्रियते ।

निघण्टौ पञ्चाध्यायाः सन्ति । आदिमस्त्रयोऽध्यायाः ‘नैघण्टुककाण्डम्' इत्यभिधीयन्ते । चतुर्थोऽध्यायो नैगमकाण्डं, पञ्चमोऽध्यायो दैवतकाण्डमिति पदेन व्यपदिश्यते । प्रथमतस्त्रिष्वध्यायेषु पृथिव्यादिबोधकानाम् अनेकशब्दानाम् एकत्र सङ्ग्रहोऽस्ति । द्वितीयकाण्डमेकपदीयमपि कथ्यते । 'नैगमः' इत्येतस्य पदस्य तात्पर्यमिदमस्ति यदेतस्य प्रकृतिप्रत्यययोः यथार्थावगमनं न भवति - 'अनवगतसंस्कारांश्च निगमान्॥' दैवतकाण्डे देवतायाः स्वरूपस्थानयोः निर्देशो लभते।

निघण्टुनिर्वचन-व्याख्या

सम्प्रति निघण्टुग्रन्थस्यैका एव व्याख्या समुपलब्धा भवति । अस्याः व्याख्यायाः रचयिता देवराजयज्वा अस्ति । अस्य पितामहस्यापि नाम देवराजयज्वा एवासीत् । अस्य पितुर्नाम यज्ञेश्वरोऽस्ति । अयं हि विद्वान् ‘रंगेशपुरी' इत्याख्यस्य नगरस्य पार्श्ववर्त्तिनः कस्याऽपि ग्रामस्य निवासी अासीत् । नाम्ना अयं विद्वान् सुदूरदक्षिणभारतस्यैव निवासी मन्यते। अस्य समयस्य विषये मतद्वयं प्रचलितमस्ति। केषाञ्चिद्विदुषां मते विद्वानयं सायणात्परवर्त्ती आसीत्, किञ्च यथार्थतः सायणात्पूर्ववर्त्ती एवायमासीत् । आचार्यसायणेन ऋग्वेदीयमन्त्रस्य स्वकीये भाष्ये निघण्टुभाष्यवचनस्य उल्लेखः कृतः । उल्लेखोऽयं देवराजयज्वनः भाष्येऽपि किञ्चित्पाठान्तरेण समुपलब्धो भवति । अस्माद्भाष्याद् अतिरिक्तं न किमप्यन्यं निघण्टुभाष्यं विद्यमानमस्ति । देवराजयज्वा स्वभाष्यस्य उपोद्घाते क्षीरस्वामिनः, अनन्ताचार्यस्य च निघण्टुव्याख्यायाः उल्लेखं कृतवानस्ति । यथा -

'इदं च क्षीरस्वामी अनन्ताचार्यकृतां निघण्टुव्याख्यां'..... निरीक्ष्य क्रियते।' अनन्ताचार्यस्योल्लेखोऽत्र प्राथम्येन एव प्राप्यते। क्षीरस्वामिनो मतस्योल्लेखोऽत्र बहुलतया कृतोऽस्ति । क्षीरस्वामी अमरकोशस्य प्रसिद्धः टीकाकारोऽस्ति । क्षीरस्वामी अमरकोशस्य प्रसिद्धः टीकाकारोऽस्ति । यज्वन उद्धरणम् ‘अमरकोशोद्घाटने' यथावदुपलब्धं भवति ।

अस्य भाष्यस्य नाम-निघण्टूनिर्वचनमस्ति । स्वप्रतिज्ञानुसारेण देवराजयज्वा नैघण्टुककाण्डस्यैव निर्वचनमधिकेन विस्तरेण कृतवान्। अन्यकाण्डानां व्याख्या अत्यल्पाऽऽकारा अस्ति । अस्य भाष्यस्य उपोद्घातो वैदिकभाष्यकर्त्तृृणाम् इति वृत्तावबोधनाय नितान्तं प्रयोजनीयोऽस्ति । अस्मिन्नुपोद्घाते स्कन्दस्वामिनः ऋग्भाष्यष्टीकातः, महेश्वरस्य निरुतभाष्यटीकातश्च साहाय्यं गृहीतमस्ति । प्राचीनप्रामाण्यादपि सुष्ठूद्धरणानि सन्त्यनेकानि च । सायणात्पूर्ववर्त्तित्वेन अस्य व्याख्यायाः, निरुक्तेश्च विशेषं महत्त्वमस्ति ।

सम्बद्धाः लेखाः

बाह्यपरिसन्धिः

उद्धरणानि

Tags:

निघण्टुः व्युत्पत्तिःनिघण्टुः विषयवस्तुनिघण्टुः निघण्टुनिर्वचन-व्याख्यानिघण्टुः सम्बद्धाः लेखाःनिघण्टुः बाह्यपरिसन्धिःनिघण्टुः उद्धरणानिनिघण्टुःवेद

🔥 Trending searches on Wiki संस्कृतम्:

फरवरी २६मई २५मई २०अप्रैल५ जूनअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याजोनी एवंससितम्बर ४५३१सायणःभारतस्य नृत्यकलाः१४ फरवरी२२ सितम्बरकदलीफलम्१५८२वेदाङ्गम्७ अप्रैल६६मार्च २५एस्पेरान्तोव्लाडिमिर लेनिनसंयुक्ताधिराज्यम्दिसम्बर ७१२०७१९ जुलाईसागरःमुना मदनअगस्त २९५००३० सितम्बरअक्तूबर २१अप्रैल १८जुलाई १०फरवरी ३मार्च६५५जुलाई २९११७जून २५२६ मार्च७७२माध्यमम् (संचारः)अक्तूबर ८२७८पुराणलक्षणम्१३३३अप्रैल ७८८२अक्तूबर २०११ सितम्बर४७८सितम्बर २८आस्ट्रेलियाअशोच्यानन्वशोचस्त्वं...२५ जुलाईकुपोषणम्अप्रैल ८शुक्लरास्या४ मईशर्मण्यदेशःक्षमा रावनाभागमिथुनराशिः१७५३२६ नवम्बरनवम्बर ३दिसम्बर २६मई ३१जुलाई १६१८०७मई १०जुलाई ६विद्याविकिःपाणिपतस्य प्रथमं युद्धम्अगस्त २जीवन्तीवृक्षः🡆 More