नासा

नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एडमिनिस्ट्रेशन् (संस्कृतानुवादः-राष्ट्रियवैमानिक-अन्तरिक्षप्रशासनम्; आङ्ग्ल: National Aeronautics and Space Administration) अथवा नासा (सङ्क्षिप्तनाम) (आङ्ग्ल: NASA) अमेरिकादेशस्य एका अन्तरिक्षगवेषणा संस्था । १९५८ तमे वर्षे अस्याः संस्थायाः संरचना अभवत् । नासा इत्येव संक्षिप्तनाम्ना अस्याः ख्यातिः । नासायाः मुख्यकार्यालयः वाशिङ्गटन्, डि.सि.

नगरे अस्ति । १९५८ तमवर्षस्य २९ तमे दिनाङ्के नैशनल् एड्वैज़री कमिटी फ़र् एरोनॉटिक्स् (NACA) इति अन्तरिक्षसंस्थायाः अवलुप्तिं कृत्वा अमेरिकासर्वकारः नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एक्ट् माध्यमेन नासा इति संस्थायाः संरचनाम् अकरोत् । नासायाः बहुसफलकार्येषु अपोलो चन्द्रयात्रा अन्यतमा।

नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एडमिनिस्ट्रेशन्

(NASA)

नासा
नासा संस्थायाः मुद्रा
नासा
नासा संस्थायाः प्रतीकचिह्नम्
घोषः- For the Benefit of All
नासा
नासा संस्थायाः ध्वजः
संस्थायाः विवरणम्
संस्थापनम् 29 1958 (1958-07-29) (65 years ago)
नैशनल् एड्वैज़री कमिटी फ़र् एरोनॉटिक्स्

(NACA) (१९१५–१९५८)

अधिकारक्षेत्रम् अमेरिकासर्वकारः
मुख्यकार्यालयाः वाशिङ्गटन्, डि.सि.
३८°५२′५९″ उत्तरदिक् ७७°०′५९″ पश्चिमदिक् / 38.88306°उत्तरदिक् 77.01639°पश्चिमदिक् / ३८.८८३०६; -७७.०१६३९
कार्यकर्तारः १८,१००+
वार्षिक-अर्थसङ्कल्पः US$१७.८ बिलियन् (वित्तवर्षम् २०१२)
संस्थायाः
मुख्यपदाधिकारी
चार्ल्स् फ़्रैन्क् बोल्डेन्, नासा संस्थायाः प्रशसकः
जालस्थानम्
NASA.gov

इतिहासः

१९४६ तमे वर्षे 'एरोनॉटिक्स् ( NACA ) राष्ट्रियमन्त्रालयः 'सुपर्सनिक् बेल् एक्स्-१ रकेट्' विमानं प्रथमवारं परीक्षाम् अकरोत्। १९५७-५८ समयकालः 'अन्ताराष्ट्रिय-भौगलिकसंवत्सरः' इति उत्घोषितः आसीत् । तन्निमित्तं अमेरिकादेशेस्य 'व्यान्-गार्ड्' इति नाम्ना विशेषप्रकल्पः आसीत् । १९५७ तमवर्षस्य ४ दिनाङ्के विश्वस्य प्रथमकृत्रिम-उपग्रहः (स्पुट्निक् १) सोवियेत्-रशियादेशेन प्रेषणानन्तरम् अन्तरिक्षशोधविषये अमेरिकादेशः अत्युत्साही आसीत् । अमेरीकीयकंग्रेस्-पक्षः NACAविभागस्य नेतारम् आहूय अविलम्बेन तथा क्षिप्रवेगेन कर्मान् समापयितुम् उक्तवान् । स्पुट्निक् सङ्कटम् (Sputnik crisis) इति नाम्ना ख्यातः अयं कालः । अमेरिकादेशस्य राष्ट्रपतिः डोयैट् डि ऐजेन्हावर् एवं तस्य मन्त्रिमण्डलः अन्तरिक्षशोधकार्यविषये तेषां चिन्तनं प्रकटितवन्तः । प्रधानतः NACA संस्थायाः अधीने अन्तरिक्षशोधनिमित्तम् एकस्य नूतनस्वतन्त्रविभागस्य संरचना । समकालैव १९५८ तमे वर्षे 'उन्नतगवेषणा-प्रकल्पसंस्था'(Advanced Research Projects Agency (ARPA)) अमेरिकादेशस्य सामरिकसहाय्यार्थं निर्मितम् ।

१९५८ तमवर्षस्य जुलैमासस्य २९ तमे दिनाङ्के राष्ट्रपतिना डोयैट् डि ऐजेन्हावर् महोदयेन 'नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एक्ट्' इति प्रस्तावपत्रे हस्ताक्षरम् कृत्वा नासायाः निर्माणम् अकरोत् । वस्तुतः १९५८ तमवर्षस्य अक्टोबर् मासस्य २९ तमे दिनाङ्के शुभारम्भदिवसः । ४६ वर्षपुरातनीं संस्थां विलोप्य नासायाः प्रारम्भः आसीत् । प्रारम्भे अस्याः संस्थायाः ८,००० कार्यकर्तारः आसन् । नासायाः वार्षिक-अर्थसङ्कल्पः आसीत् $१०० मिलियन्(यु एस् डलर्) । तदा नासा अन्तरिक्षकेन्द्रे त्रिणि प्रधानगवेषणागाराणि ('लेङ्गली'वैमानिकगवेषणागारं, विशेषवैमानिकगवेषणागारं तथा ल्युस् फ्लैट् परिचालना गवेषणागारम्) तथा द्वे लघुपरीक्षणकेन्द्रे आस्ताम्। १९५९ तमे वर्षे राष्ट्रपतिः ऐजेन्हावर् महोदयः 'नासा'प्रतीकचिह्नं अनुमोदितवान्।

टिप्पणी

बाह्यसम्पर्काः

    साधारणतथ्यानि
    अधिकज्ञानार्थम्

Tags:

अमेरिकाआङ्ग्लभाषावाशिङ्ग्टन् डि सिसंस्कृतम्

🔥 Trending searches on Wiki संस्कृतम्:

कात्यायनी१७ जुलाईनेपालदेशः१८ मईअभिनवगुप्तःशिशुपालवधम्चीन (बहुविकल्पीय)प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)वर्णाश्रमव्यवस्थाजून २५बौद्धधर्मःवेदान्तदेशिकःरामःयदा विनियतं चित्तम्...काव्यभेदाःईशावास्योपनिषत्बाय्सीधनञ्जयःसिद्धान्तकौमुदीअप्रैल २१न त्वेवाहं जातु नासं...परोपकारःटेनेसीकुन्तकःशर्मण्यदेशःहर्षचरितम्नीतिशतकम्सांख्ययोगःवेदाविनाशिनं नित्यं...ब्राह्मणःगुरु दत्तमोहम्मद रफीवेदान्तःशुकःश्रीधर भास्कर वर्णेकरदक्षिण डकोटाजेफर्सन्-नगरम्इङ्ग्लेण्ड्श्रीलङ्कासमन्वितसार्वत्रिकसमयःफरवरी १७१ फरवरीॐ तत्सदिति निर्देशो...नारिकेलम्द्वैतदर्शनम्मदर् तेरेसा१६१७संभेपूस्वसाट्यूपएप्पल्खो खो क्रीडामहाभारतम्सूर्यः (ज्योतिषशास्त्रम्)आर्मीनियाजार्जिया (देशः)नर्मदानदीसन्धिप्रकरणम्१७००स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्)वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः (योगसूत्रम्)सावित्रीबाई फुले१७९३कन्नडभाषाकिर्गिजस्थानम्कार्लागुहाःपञ्चतन्त्रम्जडभरतःभारतस्य राष्ट्रध्वजःयवनदेशः८५मिशिगनदण्डीप्राकृतिकसङ्ख्याआसाराम बापूभगवद्गीता🡆 More