द्राक्षाफलम्

द्राक्षाफलम् (Grape) भारते वर्धमानः फलविशेषः । द्राक्षा आङ्ग्लभाषायां Grapes इति उच्यते । द्राक्षा न केवलं भारते अपि तु जगतः सर्वेषु देशेषु उपयुज्यते । 'तापसप्रिया' इत्येतत् द्राक्षायाः अपरं नाम । द्राक्षा मुख्यतया द्विधा विभज्यते । शुष्का द्राक्षा, अशुष्का द्राक्षा च इति । अशुष्का द्राक्षा (द्राक्षाफलम्) वर्णानुगुणं पुनः द्विधा विभज्यते – हरितवर्णीया, नीललोहितवर्णीया च इति । अत्र उच्यमाना द्राक्षा तु अशुष्का द्राक्षा एव ।

द्राक्षाफलम्
हरितं द्राक्षाफलम्
द्राक्षाफलम्
नीललोहितवर्णीयं द्राक्षाफलम्
द्राक्षाफलम्
द्राक्षालता

आयुर्वेदस्य अनुसारम् अस्याः द्राक्षायाः स्वभावः

द्राक्षाफलं मधुररसयुक्तम् कदाचित् आम्लयुक्तमधुरं भवति । इदं शीतवीर्यम् अपि ।

द्राक्षाफलम्
द्राक्षासवः
    द्राक्षातिमधुराम्ला च शीता पित्तार्ति दाहजित् ।
    मूत्रदोषहरा रुच्या वृष्या सन्तर्पणी पणरा ॥ (राजकोषे आम्रादिवर्गः)
द्राक्षाफलम्
लतायां हरिद्वर्णीयं द्राक्षाफलम्
द्राक्षाफलम्
लतायां विद्यमानानि नीललोहितवर्णस्य द्राक्षाफलानि
    १. द्राक्षाफलं शरीरे विद्यमानं पित्तदोषं निवारयति ।
    २. द्राक्षाफलं शरीरे विद्यमानां वेदनां, ज्वलनं वा शमयति ।
द्राक्षाफलम्
शुष्का द्राक्षा
    ३. द्राक्षाफलं मूत्रस्य विसर्जनावसरे जायमानां वेदनां, ज्वलनं चापि निवारयति ।
    ४. द्राक्षाफलं मुखे रुचिम् उत्पादयति ।
    ५. द्राक्षाफलं पौरुषं वर्धयति । शरीरस्य पुष्टिकारकं च ।
    ६. द्राक्षां, वामनीं, पिप्पलीं, भू-आमलकं च योजयित्वा निर्मितः घृतपाकः कामलारोगं, पित्तजन्यं ज्वरं च शमयति ।
    ७. शुष्कां द्राक्षां जले योजयित्वा संस्थाप्य अनन्तरं तस्मिन् एव जले तां निष्पीड्य सेवनेन रक्तपित्तम् अपगच्छति । एतत् द्राक्षाजलं हृद्रोगम् अपि निवारयति ।
    ८. अपक्वा वा अर्धपक्वा वा द्राक्षा गुरुगुणयुक्ता भवति । आम्लत्वस्य आधिक्यस्य कारणतः तादृशी द्राक्षा रक्तपित्तं वर्धयति ।
    ९. अपक्वा वा अर्धपक्वा वा द्राक्षा बुभुक्षां वर्धयति । पुरुषेषु वीर्यम् अपि वर्धयति ।
    १०. पक्वा द्राक्षा पित्तं, दाहं (पिपासाम्)) च निवारयति । मधुररुचियुक्ता भवति । शरीरस्य बलं वर्धयति । मलप्रवृत्तिं, मूत्रप्रवृत्तिं च कारयति ।
    ११. द्राक्षा मद्यपानेन जातं दोषानुलोमजन्यं मदात्सयं निवारयति ।
    १२. द्राक्षां, शर्कराम्, अळलेकायि इत्याख्यं फलं च समप्रमाणेन योजयित्वा चूर्णीकृत्य सज्जीकृता गुलिका 'द्राक्षादिगुटिका' इति उच्यते । तस्याः गुलिकायाः सेवनेन श्रान्तिः, कण्ठवेदना, उदरज्वलनं चापि अपगच्छति ।
    १३. द्राक्षाम्, आमलकं, खर्जूरम्, मधु, घृतं, दाडिमं, निम्बूकरसं च योजयित्वा सज्जीकृतं द्रवं 'पञ्चसारमन्थम्' इति उच्यते । एतत् द्रवम् अग्निमान्द्यरोगिणां परमम् औषधम् ।
    १४. आसवविधिना निर्मितः 'द्राक्षासवः' अग्निमान्द्यं, नेत्रस्य सम्बद्धान् रोगान्, शिरसः सम्बद्धान् रोगान् च निवारयति । भोजनस्य अनन्तरं द्राक्षासवः समप्रमाणेन जलेन सह २-४ चमसान् यावत् योजयित्वा पातव्यः । एतत् रसायनम् इव शरीरस्य बलं वर्धयति ।
    १५. द्राक्षां, पिप्पलीपुष्पम् , अतिमधुरं च योजयित्वा निर्मितं यवागूं, तक्रं वा रक्तपित्तरोगे सति दातव्यम् ।
    १६. द्राक्षां, पिप्पलीं, शर्करां च योजयित्वा चूर्णीकृत्य सेवनेन कासः अपगच्छति ।
    १७. पुराणघृतेन सह द्राक्षायाः पेषणं कृत्वा निर्मितः द्राक्षाघृतः कामलारोगं, रक्तहीनतां, प्रमेहं च निवारयति ।
    १८. द्राक्षायाः रसायनं सन्तानकारकम् अपि ।
    १९. द्राक्षा तपस्विषु सत्त्वगुणं वर्धयित्वा, मनसः शान्तिम् उत्पादयति । अतः एव अस्याः अपरं नाम 'तापसप्रिया' इति ।

बाह्यसम्पर्कतन्तुः

Tags:

भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

१८ मार्चटोक्यो२८ जुलाई९४४१० अक्तूबरकाव्यालङ्कारयोः क्रमिकविकासःभाष्यम्४५४१८७फरवरी ५फरवरी २०११९३२५ दिसम्बरजून १२८८११ नवम्बर१५६३कल्पना चावला३० अप्रैल२ जनवरीफरवरी २५जी० स० घुरये६२०१ दिसम्बरवर्नर हाइजेनबर्गजून १०नक्षत्रम्क्मुख्यपृष्ठम्फरवरी ४अप्रैलन्यायदर्शनम्पञ्चतन्त्रम्७ जनवरीअगस्त १७अप्रैल २२नवम्बर ९नवम्बर १९१८२६७८५३० जुलाई८५८१५ नवम्बरदेहली१८ फरवरी७९३२०फरवरी २६जून २०थामस एक्विनासडचभाषाअक्तूबर ३०३४३जुलाई २४अक्तूबर १८१८ जुलाईजनवरी २७१३अलेक्ज़ांडर १८०६जुलाई १६१० मईअक्तूबरअक्तूबर ६चार्ल्स २दिसम्बर १६अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याफ्रेङ्क्लिन रुजवेल्टयूनानीभाषा१ सितम्बरअगस्त १२चीनदेशः८ दिसम्बर१२१०विद्यामाध्यमम् (संचारः)आस्थाननवरत्नानि🡆 More