देवकणः

देवकणः इत्येषः कणः वैज्ञानिकभाषया हिग्स्-बोसन्-कणः इति निर्दिश्यते । अनेन कणेन एव ब्रह्माण्डस्य सृष्टिः जाता इत्येषः विज्ञानिनाम् अभिप्रायः । चन्द्रः, नक्षत्रं, सस्यवृक्षादयः, प्राणिनः इत्येषां सर्वेषां सृष्टिकारणं वर्तते अयं देवकणः । स्विट्झर्ल्याण्ड्देशे जिनीवानगरे अणुभौतशास्त्रस्य संशोधनार्थं विद्यमाने विश्वस्य बृहत्तमे (ऐरोप्य-परमाणुसंशोधनसंस्था - सि.

इ. आर्. एन्.) सुरङ्गप्रयोगालये २०१२ तमस्य वर्षस्य जुलैमासस्य ४ दिनाङ्के देवकणसदृशः कणः आविष्कृतः इति घोषितः ।

देवकणः
देवकणः

ब्रह्माण्डस्य सृष्टिः

१४ शतकोटिवर्षेभ्यः पूर्वं कश्चन महास्फोटः जातः । तस्मात् स्फोटात् आविर्भूताः एते हिग्स्-बोसन्-कणाः एव परमाणुषु द्रव्यराशिं योजितवन्तः । ततः एव ताराग्रहादयः उत्पन्नाः । परमाणुषु द्रव्यराशिः (भारः) यदि न स्यात् तर्हि ते एकत्र स्थिताः न भवन्ति स्म । अतः एव अयं देवकणः ब्रह्माण्डनिर्माता इति निर्दिश्यते । सृष्टेः निर्माणं सरलतया विवृणोति स्टेण्डर्ड् माडेल् (एस् एम्) इत्येतत् साधनम् । तस्मिन् निर्दिष्टेषु १२ कणेषु ११ कणाः प्राप्ताः आसन् । अयं देवकणः एव द्वादशः कणः ।

कः अयं कणः?

अति सूक्ष्मकणानाम् एतेषाम् अवगमनाय क्वाण्टं-विश्वम् अवगन्तव्यम् । इदं विश्वं बहिः दृश्यमानं ब्रह्माण्डमिव अनूह्यं, निगूढं, सङ्कीर्णतमं च विद्यते । परमाणवः अति सूक्ष्मकणाः । अस्माभिः सकृत् स्वीकृते श्वासे 'दश'सङ्ख्यायाः पुरः २० शून्यानि योजयामः चेत् प्राप्यमाणसङ्ख्याकाः आम्लजनकपरमाणवः विद्यन्ते । तादृशे सूक्ष्मतमे परमाणौ प्रोटान्-न्यूट्ऱान्-कणाः भवन्ति । प्रोटान्कणस्य अन्तः विद्यमानः अनूह्यं विश्वमेव क्वाण्टं विश्वम् । उदाहरणाय - हीलियम्-अनिलं द्रवरूपं प्रति आनीय पात्रे यदि स्थापयेम तर्हि सः क्वाण्टं-स्थितिं प्राप्नोति । किञ्चित्कालानन्तरं सः पात्रस्य उपरिभागम् आगत्य ततः बहिः अदृश्यतां गच्छति । अयं विशिष्टः सन्निवेशः सङ्ख्याशास्त्रस्य आधारेण एव ऊहितं भारतीयेन अपूर्वेण विज्ञानिना सत्येन्द्रनाथबोसेन १९२४ तमे वर्षे । द्रव्यानां अस्याः विशिष्टस्थितेः कारणस्य आविष्करणे ऐन्स्टीनः अपि योगदानम् अकरोत् । एताभ्याम् अन्विष्टम् इत्यतः द्रव्यस्य सा विशिष्टस्थितिः 'बोस्-ऐन्स्टीन्-कण्डेन्सेट्' इति निर्दिश्यते । अस्याः स्थितेः तस्मिन् विद्यमानः विशिष्टकणाः एव कारणीभूताः इति सप्रमाणं दर्शितं १९६४ तमे वर्षे पीटर्-हिग्स्-नामकेन विज्ञानिना । अतः एव अयं कणः 'हिग्स् बोसन्'कणः इति निर्दिश्यते । प्रोटान्-कणस्य अन्तः विद्यमानस्य अस्य सूक्ष्मतमकणस्य द्रव्यराशिः १२० गुणितम् अधिकम् इति उच्यते । अत्र भाषापरिमितिम् अतिरिच्य वस्तुस्थितिः ग्रहीतव्या भवति ।

प्रयोगपथः

विश्वसृष्टेः कारणं महास्फोटः इति ज्ञातः अंशः । तादृश्याः अगाधशक्तेः पुनः सृष्टिः सामान्या न इति विज्ञानिनः जानन्ति स्म । अतः तन्निमित्तं विज्ञानिभिः अति बृहत् विज्ञानोपकरणं निर्मितम् । फ्रान्स्-स्विट्झर्लेण्ड्देशयोः सीमाप्रदेशे सुरङ्गप्रयोगालये इदं यन्त्रं संस्थापितम् । तस्य नाम 'लार्ज्-ह्याड्रन्-कोलैडर्' इति । सरलं नाम 'बिग्-बेङ्ग्-मिषन्' इति । भूमौ ५७४ पादयुते गभीरे स्थले २७ किलोमीटर्परिमितः दीर्घः सुरङ्गमार्गः कल्पितः । विश्वसृष्टेः अवसरे क्षणस्य शतकोट्यंशे भागे विद्यमानस्य उष्णांशस्य पुनः सृष्ट्यर्थम् इदं यन्त्रं निर्मितम् । अणोः हृदयरूपाः प्रोटान्कणाः सुरङ्गस्य उभयदिशौ अपि स्फोटयन्ति । एते कणाः प्रकाशस्य ९९.९९९९९९१ प्रतिशतेन वेगेन चलन्ति । अनेन वेगेन प्रोटन्कणाः क्षणे ११ सहस्रवारं यन्त्रे भ्रमणं कुर्वन्ति । प्रदक्षिणावसरे निर्दिष्टेषु स्थलेषु प्रोटान्कणानां घट्टनं कारयन्ति । एतस्मात् महतः प्रमाणस्य शक्तिः उद्गता भवति । इयं शक्तिः द्रव्यरूपं प्राप्य नूतनकणानां सृष्टौ सहायिका भवति । ऐन्स्टीनेन वचनानुगुणं e=mc2 इत्येतत् सूत्रम् अत्र अन्वेति । ये कणाः नूतनतया जायन्ते ते सान्द्रयुक्ताः भवेयुः इति चेत् उत्पद्यमाना शक्तिः अगाधा स्यात् । अधिकसान्द्रयुक्ताः कणाः न्यूनसान्द्रयुक्तेषु कणेषु विलीनाः भवन्ति । इदम् अत्यल्पावधौ भविष्यति । तन्नाम क्षणस्य १००० कोट्यंशस्य भागस्य अवधौ इदं सर्वं भविष्यति । अस्य कणस्य अभिज्ञाने विज्ञानिनः यशस्विनः जाताः सन्ति । ३५ देशानां १६० विज्ञानसंस्थाभ्यः आगताः द्विसहस्राधिकाः विज्ञानिनः देवकणस्य सृष्टौ निरताः सन्ति । २००८ तमस्य वर्षस्य सेप्टेम्बर्मासस्य १० दिनाङ्के इदं कार्यम् आरब्धम् । आरम्भे केषुचित् एव दिनेषु हीलियम्-अनिलगोलानां स्फोटस्य कारणतः घर्षणहेतुभूताः अयस्कान्ताः कार्यविरताः जाताः । तदा ९ दिनानि कार्यं स्थगितम् आसीत् । २००९ तमस्य वर्षस्य नवेम्बर्मासस्य २० तमे दिनाङ्के कार्यस्य पुनरारम्भः जातः ।

उपलब्धयः

कोट्यधिकडालर्मितस्य धनस्य व्ययेन क्रियमाणेन अनेन प्रयोगेण एताः उपलब्धयः इति विज्ञानिनः कथयन्ति -

  • कस्यचित् वस्तुनः आकारः गात्रं च कथं प्राप्यते इत्येतस्य प्रश्नस्य उत्तरं प्राप्यते ।
  • अन्तर्जालस्य वेगस्य वर्धने साहायकं भविष्यति ।
  • सम्पर्कक्रान्तौ नूतनः विक्रमः साधितः भवति ।
  • न्यानोतन्त्रज्ञाने महत्वभूतं परिवर्तनं भविष्यति ।
  • जङ्गमदूरवाण्यां सूपर्-सङ्गणकयुगस्य आरम्भः भविष्यति ।

अग्रिमाध्ययनाय

बाह्यानुबन्धाः

Tags:

देवकणः ब्रह्माण्डस्य सृष्टिःदेवकणः कः अयं कणः?देवकणः प्रयोगपथःदेवकणः उपलब्धयःदेवकणः अग्रिमाध्ययनायदेवकणः बाह्यानुबन्धाःदेवकणःजिनीवास्विट्झर्ल्याण्ड्

🔥 Trending searches on Wiki संस्कृतम्:

यास्कःथामस एक्विनासपञ्चतन्त्रम्कृष्णनिम्बपत्रम्४ मई३० जुलाईदिसम्बर २०१३साङ्ख्यदर्शनम्१४१५१२५७७५८७४६ सितम्बरमार्च २७नवम्बर ५९६२६८५जुलाई ९अक्तूबर ८सीता१५४५१२९८रेडियोदिसम्बर २४जनवरी १३सुबन्धुःआदिशङ्कराचार्यःमई १४थाईभाषामार्च २५१२ मईअप्रैल ८अगस्त १५१४ मार्चजुलाई १८सितम्बर ९मार्च २११७१३१९२सितम्बर १६श्रीलङ्काजनवरी २४१४ फरवरीनवम्बर १पुनर्नवारामायणम्१३ दिसम्बरफरवरी २८अक्तूबर १२७८१९ नवम्बरमारिषस्जून ८१३२५२०६उपनयनम्१९७जुलाई ४नवम्बर १६१२ जूननक्षत्रम्११९३अण्टार्क्टिकाजुलाई २०२८ मईजोनी एवंसकर्मयोगः (गीता)अक्तूबर १७१५०३उत्तररामचरितम्१७ जनवरी४४सामवेदःराज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषत्मई २१२. भक्तियोगःफरवरी ५🡆 More