तेलङ्गाणाराज्यम्

तेलङ्गाणाराज्यं i/ˌtɛlənˈɡɑːnə/ दक्षिणभारतस्य एकं राज्यमस्ति । १९४७ तमसंवत्सरं पर्यन्तं प्रदेशोऽयं निजाम्-राज्ञा शासितस्य हैदराबाद्-राज्यस्य अंशः आसीत् । स्वाधीनभारते अन्तर्भुक्तिकरणस्य अनन्तरमपि तेलङ्गाणा हैदराबाद्-राज्यस्य एव प्रदेशः आसीत् । १९५६ तमे वर्षे हैदराबाद्-राज्यस्य विलोपं संसाध्य आन्ध्रप्रदेशस्य संरचना अभूत् । २०१४ तमवर्षस्य द्वितीये दिनाङ्के आन्ध्रप्रदेश-पुनर्निर्मानविधि-अनुगुणं आन्ध्रप्रदेशस्य उत्तर-पश्चिमदिशि दशमण्डलानि स्वीकृत्य तेलङ्गाणारज्यस्य संरचना अभवत् । हैदराबाद्-नगरं तलङ्गाणा- आन्ध्रप्रदेशराज्ययोः यौथराजधानीरूपेण अग्रिमदशवर्षाणि स्थास्यति ।

तेलङ्गाणा
తెల౦గాణ
تلنگانہ
—  राज्यम्  —
तेलङ्गाणाराज्यम्
तेलङ्गाणाराज्यस्य मुद्रिका
तेलङ्गाणाराज्यम्
भारते तेलङ्गाणाराज्यस्य अवस्थानम् (लोहितवर्णेन) राज्यस्य स्थानम्
भारते तेलङ्गाणाराज्यस्य अवस्थानम् (लोहितवर्णेन)
Coordinates (हैदराबाद्): १७°२१′५८″उत्तरदिक् ७८°२८′३४″पूर्वदिक् / 17.366°उत्तरदिक् 78.476°पूर्वदिक् / १७.३६६; ७८.४७६
देशः भारतम्
प्रदेशः दक्षिणभारतम्, डेकन्
निर्मितम् २ जून् २०१४
राजधानी हैदराबाद्
वृहत्तमनगरम् हैदराबाद्
मण्डलानि १०
सर्वकारः
 • राज्यपालः इ एस् नरसिंहन्
 • मुख्यमन्त्री के चन्द्रशेखर् राव् (टी आर् एस्)
 • विधानसभा द्विदलीयव्यवस्था (११९ + ४० केन्द्राणि)
 • लोकसभकेन्द्राणि १७
 • उच्चन्यायालयः हैदराबाद्-उच्चन्यायालयः
विस्तीर्णता
 • संहतिः १,१४,८४० km
क्षेत्रविस्तारः १२ तमम्
जनसङ्ख्या (२०११)
 • संहतिः ३,५१,९३,९७८
 • रैङ्क् १२ तमम्
प्रादेशिकजनाः तेलुगु
भारतीयसमयवलयः (UTC+०५:३०)
ऐ एस् ओ ३१६६ कोड् IN-xx (न निश्चितम्)
वहानपञ्जीकरणपत्रम् TS
एच् डि ऐ
आधिकारिकभाषा तेलुगु, ऊर्दू
जालस्थानम् telangana.gov.in
^† आन्ध्रप्रदेशराज्येन सह युग्मराजधानी

तेलङ्गाणाराज्यस्य उत्तरपश्चिमदिशि महाराष्ट्रराज्यं, पश्चिमे कर्णाटकराज्यम्, उत्तरपूर्वे छत्तीसगढराज्यम् एवञ्च दक्षिण तथा पूर्वदिशि आन्ध्रप्रदेशराज्यं विद्यते । अस्य राज्यस्य आयतनं १,१४,८४० वर्ग किलोमीटर (४४,३४० वर्ग मील) तथा जनसङ्ख्या ३५,२८६,७५७ (२०११ जनगणनानुसारम् ।

नाम्नः व्युत्पत्तिः

एवं मनुते यत्, "तेलङ्गाणा" नाम इदं "तेलुगु"शब्दात् आगतम् इति । एतेन पदेन तेलुगुभाषी-जनैः अध्युषितः प्रदेशः इति बोध्यते । अपरपक्षस्य मतानुयायी "त्रिलिङ्गदेशः" इत्यऽयं शब्दः "तेलङ्गाणा" पदस्य मूलः । अस्य अयमर्थः भवति- त्रिलिङ्गविशिष्टः देशः । प्रचलितहिन्दुकथानुसारं शिवः लिङ्गरूपेण कालेश्वरम्, श्रीशैलम्, तथा द्राक्षरामपर्वते आविर्भूतः आसीत् । एताः पर्वतश्रेण्यः अस्य देशस्य सीमारूपेण स्थिताः आसन् । शब्दविस्तारः यथा-

त्रिलिङ्ग > थेलिङ्ग > तेलुङ्गा > तेलुगु

मालिक मकबुल महोदस्य अपरनामरूपेण "तेलङ्गाणा" इति शब्दस्य प्रयोगऽपि अन्यतमः ।"तिलङ्गानि" इति तस्य उपाधिः आसीत् ।

इतिहासः

प्राचीनयुगः

तेलङ्गाणाराज्यम् 
सातवाहनसाम्राज्यस्य मूलप्रदेशः आसीत् करीमनगरमण्डलस्य कोटिलिङ्गलप्रदेशः ।

प्राचीनकाले करीमनगरस्य कोटिलिङ्गलप्रदेशः षोडशजनपदस्य अस्मकजनपदस्य राजधानी आसीत् । अस्मिन् प्रदेशे प्राक्-सातवाहनसाम्राज्यस्य मुद्राः प्राप्ताः । सातवाहनराजवंशस्य प्रतिष्ठाता चिमुख् तथा तदोत्तराकालीनां राज्ञानां ताम्रमुद्राः अपि उत्खनिताः ।

सातवाहनराजवंशः (क्रैस्तपूर्वं २३० अब्दः - २२० क्रैस्ताब्दः) अस्य प्रदेशस्य प्रधानशक्तिरासीत् । अस्य राजवंशस्य उत्पत्तिः आसीत् गोदावरी-कृष्णा नद्योः मध्यवर्तिभूभागे । सातवाहनसाम्राज्यस्य अनन्तरं वाकाटक्, विष्णुकुण्डिना, चालुक्य, राष्ट्रकूट प्रभृतयः राजवंशाः अत्र शासनं कृतवन्तः ।

वीक्षणीयस्थलानि

तेलङ्गाना-राज्यस्य पर्यटनस्थालानि जनान् आकर्षन्ति । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । हैदराबाद-नगरस्य “चार मीनार”, “थए पापी हिल्”, कुन्तला-जलप्रपातः इत्यादीनि आकर्षणकेन्द्राणि सन्ति । राज्येऽस्मिन् मन्दिराणि अपि बहूनि सन्ति । “भद्राचलम”, “सहस्त्रस्तम्भानां मन्दिरं”, “श्री राजा राजेश्वरा स्वामी मन्दिरम्” इत्यादीनि प्रमुखाणि मन्दिराणि सन्ति । आवर्षं बहवः पर्यटकाः भ्रमणार्थं तेलङ्गाना-राज्यं गच्छन्ति ।

हैदराबाद

हैदराबाद-नगरं तेलङ्गाना-राज्यस्य हैदराबाद-मण्डलस्य मुख्यालयः अस्ति । अस्य नगरस्य राजधानी अपि हैदराबाद-नगरम् एव अस्ति । इदं स्थलं सम्पूर्णे भारते विश्वस्मिन् च बहुचर्चितम् अस्ति । नगरमिदं मूसी-नद्याः तटे स्थितम् अस्ति । ई. स. १५९१ तमे वर्षे “मोहम्मद कुली कुतुब शाह” इत्याख्येन कुतुबशाही-वंशस्य शासकेन अस्य नगरस्य स्थापना कृता । भागमती-इत्याख्या एक नर्तकी आसीत् । राजा अस्यां नर्तक्यां स्निहति स्म । अतः राज्ञा “भागमती” इत्यस्याः नाम्ना अस्य नगरस्य नाम भाग्यनगरम् इति कृतम् आसीत् । यदा भागमत्या इस्लामधर्मः आचरितः, तदा राज्ञा तया सह विवाहः कृतः । तदनन्तरं भागमत्याः नामान्तरणं “हैदर महल” इत्यभवत् । अनेन कारणेन अस्य नगरस्य नाम “हैदराबाद” इति कृतम् । कुतुबशाह-वंशजैः हैदराबाद-नगरे शतवर्षाणि यावत् शासनं कृतम् आसीत् । यदा “औरङ्गजेब” इत्याख्येन मुगल-शासकेन भारतस्य दक्षिणभागे आक्रमणं कृतं, तदा हैदराबाद-नगरे आधिपत्यं स्थापितम् । ई. स. १७२४ तमे वर्षे “आसिफ जाह प्रथम” इत्याख्येन जाहीवंशः स्थापितः । आसिफ-राजा हैदराबाद-नगरस्य निजाम-रूपेण स्थितः जातः । अनन्तरं हैदराबाद-नगरे, हैदराबाद-नगरस्य समीपस्थेषु स्थलेषु च स्वस्य आधिपत्यं स्थापितम् आसीत् । निजाम-शासकैः हैदराबाद-नगरे २०० वर्षाणि यावत् शासनं कृतम् आसीत् । ई. स. १७६९ तः १९४८ पर्यन्तम् इदं नगरं निजाम-शासकानां राजधानी आसीत् । निजाम-शासकैः आङ्ग्लैः सह सन्धिः कृतः । तेन कारणेन निजाम-शासकैः १९४८ पर्यन्तं शासनं कृतम् आसीत् । स्वतन्त्रताप्राप्त्यनन्तरम् “ऑपरेशन पोलो” इत्यस्यां योजनायां निजाम-शासकेन भारतीय-सङ्घेन सह सन्धिः कृतः । तस्मिन् समये हैदराबाद-नगरम् आन्ध्रप्रदेश-राज्यस्य राजधानी अभवत् । हैदराबाद-नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् नगरे संस्कृतिद्वयस्य मिश्रणम् अस्ति । यतः इदं नगरम् उत्तर-दक्षिणभारतयोः सीमायां स्थितम् अस्ति । इदं नगरम् आर्थिकदृष्ट्या, शैक्षणिकदृष्ट्या च समृद्धम् अस्ति । अस्मिन् नगरे बहवः यन्त्रागाराः, विश्वविद्यालयाः च सन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः वृत्त्यर्थं हैदराबाद-नगरं गच्छन्ति । अस्य नगरस्य सांस्कृतिकी स्थितिः सुदृढा अस्ति । अतः एव अस्य नगरस्य विकासः जायमानः अस्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “चारमीनार”, “गोलकुण्डा-दुर्गः”, “सलार जङ्ग सङ्ग्रहालयः”, “हुसैन-सागर-तडागः” च इत्यादीनि अस्य नगरस्य प्रसिद्धानि पर्यटनस्थलानि सन्ति । हैदराबाद-नगरस्य वातावरणं शीतर्तौ अपि उष्णं भवति । अतः यदा तस्य वातावरणम् अनुकूलं भवेत्, तदा भ्रमणार्थं गन्तव्यम् । आन्ध्रप्रदेश-राज्यस्य भूमार्गपरिवहनं सुदृढम् अस्ति । हैदराबाद-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । नगरमिद, औद्योगिकं, शैक्षणिकं च केन्द्रम् अस्ति । अतः भारतस्य विभिन्नराज्येभ्यः, विदेशस्य विभिन्ननगरेभ्यः च जनाः हैदराबाद-नगरं गच्छन्ति । अस्मिन् नगरे तेलङ्गाना-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः हैदराबाद-नगरं, हैदराबाद-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्नुवन्ति । हैदराबाद-नगरे रेलस्थानकम् अस्ति । एतद् रेलस्थानकं भारतस्य विभिन्ननगरैः सम्बद्धम् अस्ति । दक्षिणरेलवे-विभागस्य मुख्यरेलस्थानकेषु इदम् अन्यतमम् अस्ति । हैदराबाद-रेलस्थानकात् बेङ्गळूरु-नगराय, देहली-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । अस्मिन् नगरे एकम् अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । इदं विमानस्थानकं विदेशस्य, भारतस्य च विभिन्ननगरैः सम्बद्धम् अस्ति । ततः देहली-नगराय, कोलकाता-नगराय, बेङ्घळूरु-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण हैदराबाद-नगरं भूमार्गेण, धूमशकटमार्गेन, वायुमार्गेण च सरलतया प्राप्तुं शक्यते ।

पोचमपैल्ली

पोचमपैल्ली-नगरं तेलङ्गाना-राज्यस्य नलगोण्डा-मण्डले स्थितम् अस्ति । इदं नगरं जनेषु अत्यन्तं लोकप्रियम् अस्ति । इदं नगरं “भारतस्य कौशेयनगरत्वेन (Silk City of India)” ज्ञायते । यतः अस्मिन् नगरे कौशेयशाटिकानां निर्माणं क्रियते । अस्य नगरस्य कौशेयशाटिकाः सर्वोत्तमाः भवन्ति । वैदेशिकपर्यटकाः अपि शाटिकायाः निर्माणकलां ज्ञातुं प्रयासान् कुर्वन्ति । अस्य नगरस्य संस्कृतिः, परम्परा, इतिहासः, सौन्दर्यं च अपि श्रेष्ठम् अस्ति । अतः जनाः पोचनमैल्ली-नगरं प्रति आकृष्टाः भवन्ति । इदं नगरं परितः पर्वताः, तडागाः, मन्दिराणि च सन्ति । अस्य नगरस्य जनाः सर्वदा व्यस्ताः भवन्ति । तथापि ते पर्यटकानां सोत्साहेन स्वागतं कुर्वन्ति । ई. स. १९५१ तमे वर्षे “विनोबा भावे” इत्याख्येन अस्य नगरस्य भ्रमणं कृतम् । तस्मिन् समये नगरजनैः तस्य भव्यस्वागतं कृतम् आसीत् । तस्मिन् काले “वेद्रे रामचन्द्र रेड्डी” इत्याख्यः भूपतिः आसीत् । तेन अस्मै नगराय २५० एकडमिता भूमिः प्रदत्ता । तावदेव भूदान-आन्दोलनम् आरब्धम् । अतः तेन कारेणन इदं नगरं “भूदान पोचमपैल्ली” इति नाम्ना अपि ज्ञायते । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः शीतर्तौ, वर्षर्तौ च अस्य नगरस्य वातावरणं सुखदं, शान्तं च भवति । जनाः तस्मिन् काले भ्रमणार्थं पोचमपैल्ली-नगरं गच्छन्ति । पोचमपैल्ली-नगरं १६३ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गयोः स्थितम् अस्ति । इमौ मार्गौ पोचमपैल्ली-नगरं हैदराबाद-नगरेण सह सञ्योजयतः । पोचमपैल्ली-नगरात् हैदराबाद-नगरं ४२ किलोमीटरमिते दूरे स्थितम् अस्ति । पोचमपैल्ली-नगरे तेलङ्गाना-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य नगरस्य समीपस्थानि स्थलानि गन्तु शक्यन्ते । पोचमपैल्ली-नगरे रेलस्थानकं नास्ति । अतः बीबी-नगरस्य रेलस्थानकम् पोचमपैल्ली-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । पोचमपैल्ली-नगरात् बीबी-नगरं १६ किलोमीटरमिते दूरे स्थितम् अस्ति । बीबीनगर-रेलस्थानकं तेलङ्गाना-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । बीबी-नगरात् पर्यटकाः बसयानैः, भाटकयानैः वा पोचमपैल्ली-नगरं प्राप्तुं शक्नुवन्ति । पोचमपैल्ली-नगरे विमानस्थानकम् अपि नास्ति । अतः हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं पोचमपैल्ली-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं पोचनपैल्ली-नगरात् ५० किलोमीटरमिते दूरे स्थितम् अस्ति । बसयानैः, भाटकयानैः वा तस्मात् विमानस्थानकात् पोचमपैल्ली-नगरं गन्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च पोचमपैल्ली श्रेष्ठतया सम्बद्धम् अस्ति । जनाः सरलतया पोचमपैल्ली-नगरं प्राप्तुं शक्नुवन्ति ।

आदिलाबाद

आदिलाबाद-नगरं तेलङ्गाना-राज्यस्य आदिलाबाद-मण्डले स्थितम् अस्ति । नगरमिदम् आदिलाबाद-मण्डलस्य मुख्यालयः अस्ति । “मुहम्मद आदिल शाह” इत्याख्यस्य नाम्ना एव अस्य नगरस्य नामकरणम् अभवत् । सः बीजापुरस्य शासकः आसीत् । अस्य नगरस्य इतिहासः महत्त्वपूर्णः अस्ति । पुरा अस्मिन् नगरे विभिन्नसंस्कृतीनां, धर्माणां च समावेशः आसीत् । नगरेऽस्मन् सप्तवाहन-वंशेन, वकाताका-वंशेन,राष्ट्रकूट-वंशेन, काकतीय-वंशेन, चालुक्य-वंशेन, बरार-वंशेन इत्यादिभिः दक्षिणभारतीयराजवंशैः शासनं कृतम् । अस्मिन् नगरे मौर्यराजवंशस्य, मुगल-राजवंशस्य इत्यादीनाम् उत्तरभारतीयराजवंशानाम् अपि शासनम् आसीत् । यतः इदं नगरं मध्य-दक्षिणभारतयोः सीमायां स्थितम् अस्ति । अतः अस्मिन् प्रदेशे उत्तर-दक्षिणभारतयोः शासकाः आक्रमणं कुर्वन्ति स्म । तेन कारणेन अस्य नगरस्य आधुनिकेतिहासे मराठी-तेलुगु-संस्कृत्योः मिश्रणम् अस्ति । नगरेऽस्मिन् गुजरातीसंस्कृतिः, बङ्गालीसंस्कृतिः, राजस्थानीसंस्कृतिः च अपि दृश्यते ।इदं नगरं तेलङ्गाना-राज्यस्य महत्त्वपूर्णं वीक्षणीयस्थलं वर्तते । “कुन्तला-जलप्रपातः”, “सेण्ट् जोसेफ् कैथेड्रल्”, “कदम-जलबन्धः”, “सदर मट्ठ एनीकट”, “महात्मागान्धी-उद्यानं”, “बसरासरस्वती-मन्दिरम्” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । औरङ्गजेब-राज्ञः शासनकाले इदं क्षेत्रं प्रमुखं व्यापारकेन्द्रम् आसीत् । आदिलाबाद-नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अस्मिन् नगरे अत्यधिकम् औष्ण्यं भवति । किन्तु शैत्यं तु न्यूनम् एव भवति । जनाः शीतर्तौ इदं नगरं गच्छन्ति । यतः शीतर्तोः वातावरणं सुखदं, स्वास्थ्यकरं च भवति । आदिलाबाद-नगरं ७ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । तेलङ्गाना-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः आदिलाबाद-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्नुवन्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । आदिलाबाद-रेलस्थानकात् नान्देड-नगराय, नेल्लोर-नगराय, विजयवाडा-नगराय, हैदराबाद-नगराय, पटना-नगराय, नागपुर-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । आदिलाबाद-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् आदिलाबाद-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । आदिलाबा-नगरात् इदं विमानस्थानकम् २८० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण आदिलाबाद-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । अतः जनाः सरलतया आदिलाबाद-नगरस्य समीपस्थानि वीक्षणीयस्थलानि गन्तुं शक्नुवन्ति ।

वारङ्गल

वारङ्गल-नगरं तेलङ्गाना-राज्यस्य वारङ्गल-मण्डलस्य मुख्यालयः अस्ति । १२ तः १४ शताब्दीपर्यन्तम् इदं नगरं ककातिया-शासकानां राजधानी आसीत् । वारङ्गल-नगरं तेलङ्गाना-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं नगरम् एकेन शैलेन निर्मितम् अस्ति । इदं स्थलं पुरा “ओरगूगौलू”, “ओम्टीकोण्डा” इति नाम्ना ज्ञायते स्म । नगरेऽस्मिन् वारङ्गल-दुर्गः भारते प्रसिद्धः अस्ति । इटली-नगरस्य “मारको पोलो” इत्याख्येन यात्रिकेण स्वस्य यात्रापुस्तिकायाम् अपि वारङ्गल-नगरस्य विषये लिखितम् अस्ति । अस्य नगरस्य विकासक्रमे ककातिया-वंशस्य प्रोला-राज्ञः योगदानम् आसीत् । सांस्कृतिकक्षेत्रे, प्रशासनिकक्षेत्रे च अस्य नगरस्य ख्यातिः विशिष्टा वर्तते । अस्य नगरस्य अर्थव्यवस्था कृष्याधारिता अस्ति । नगरेऽस्मिन् तण्डुलाः, तमालः, रक्तमरिचं च उत्पाद्यन्ते । ई. स. १६८७ तमे वर्षे औरङ्गजेब-राज्ञा गोलकुण्डा-क्षेत्रे स्वस्य आधिपत्यं स्थापितम् आसीत् । वारङ्गल-क्षेत्रम् अपि गोलकुण्डा-क्षेत्रस्य कश्चन भागः एव आसीत् । वारङ्गल-नगरे बहूनि मन्दिराणि, वन्यजीवाभयारण्यानि च सन्ति । “पाखल-तडागः”, “वारङ्गल-दुर्गः”, “रॉक् गार्डन्”, “भद्रकाली-मन्दिरं”, “पद्माक्षी-मन्दिरं”, “वारङ्गल प्लेनेटेरियम्” इत्यादीनि वारङ्गल-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “बथूकम्मा” इत्ययं वारङ्गल-नगरस्य प्रमुखोत्सवेषु अन्यतमः अस्ति । शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । वारङ्गल-नगरं १६३ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः वारङ्गल-नगरं हैदराबाद-नगरेण, विजयवाडा-नगरेण, विशाखापट्टनम्-नगरेण च सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण पर्यटकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । वारङ्गल-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं तेलङ्गाना-राज्यस्य प्रमुखरेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । वारङ्गल-रेलस्थानकात् चेन्नै-नगराय, बेङ्गळूरु-नगराय, मुम्बई-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं वारङ्गल-नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं वारङ्गल-नगरात् १४८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, चेन्नै-महानगराय, बेङ्गळूरु-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । तस्मात् विमानस्थानकात् बसयानैः, रेलयानैः, भाटकयानैः वा वारङ्गल-नगरं प्राप्यते । अनेन प्रकारेण वारङ्गल-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरलतया वारङ्गल-नगरं प्राप्नुवन्ति ।

नागार्जुनसागर

नागार्जुनसागर-नगरं तेलङ्गाना-राज्यस्य नलगोण्डा-मण्डले स्थितं किञ्चन नगरम् अस्ति । स्थलमिदं दक्षिणभारतस्य लोकप्रियं पर्यटनस्थलत्वेन स्थितम् अस्ति । पुरा इदं नगरं “विजयपुरी” इति नाम्ना ज्ञायते स्म । बौद्धधर्मस्य प्रचारकस्य नागार्जुनस्य नाम्ना अस्य नगरस्य नामकरणं कृतम् आसीत् । तस्मिन् समये दक्षिणभारते बौद्धधर्मस्य प्रभुत्वम् आसीत् । अस्मिन् नगरे बौद्धधर्मस्य अवशेषाः प्राप्ताः । ते अवशेषाः भगवतः बुद्धस्य जीवनसम्बद्धाः सन्ति । अनेन कारणेन इदं स्थलम् पर्यटनस्थलत्वेन प्रसिद्धं जातम् । “नागार्जुनसागर-जलबन्धः”, इथिपोथल-जलप्रपातः, नागार्जुनकोण्डा इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं भवति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । नागार्जुनसागर-नगरं ९ क्रमाङ्कस्य, ५६५ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । इमौ राष्ट्रियराजमार्गौ नागार्जुनसागर-नगरं भारतस्य प्रमुखनगरैः सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । इदं नगरं भूमार्गेण चेन्नै-नगरेण, हैदराबाद-नगरेण, विजयवाडा-नगरेण, विशाखापट्टनम-नगरेण च सह सम्बद्धम् अस्ति । नागार्जुनसागर-नगरे रेलस्थानकं नास्ति । गुण्टूर-नगरस्य रेलस्थानकं नागार्जुनसागर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । गुण्टूर-रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इदं रेलस्थानकं नागार्जुनसागर-नगरात् १३५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् रेलस्थानकात् चेन्नै-नगराय, हैदराबाद-नगराय, मुम्बई-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुण्टूर-नगरात् बसयानैः, भाटकयानैः वा नागार्जुनसागर-नगरं प्राप्यते । अस्मिन्नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-विमानस्थानकं नागार्जुनसागर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अतः विदेशस्य विभिन्ननगरेभ्यः अपि वायुयानानि प्राप्यन्ते । नागार्जुनसागर-नगरात् इदं विमानस्थानकम् १३५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा नागार्जुनसागर-नगरं गन्तुं शक्यते । अनेन प्रकारेण नागार्जुनसागर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरलतया नागार्जुन-नगरं प्राप्नुवन्ति ।

=

निजामाबाद

निजामाबाद-नगरं तेलङ्गाना-राज्यस्य निजामाबाद-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं तेलङ्गाना-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं “इन्दूर”, “इन्द्रपुरी” वा इति नाम्ना अपि ज्ञायते । अष्टम्यां शताब्द्यां नगरेऽस्मिन् राष्ट्रकूटवंशस्य शासनम् आसीत् । पुरा अस्य नगरस्य नाम “इन्द्रपुरी” एव आसीत् । किन्तु “निजाम उल मुल्क” इत्याख्यस्य राज्ञः शासनकाले अस्य नगरस्य नाम “निजामाबाद” कृतम् । तेन बहुवर्षाणि यावत् शासनं कृतम् आसीत् । तेन कलायाः, स्थापत्यकलायाः संरक्षणं कृतम् । तेन बहूनि हिन्दुमन्दिराणि, मुस्लिम-उपासनागृहाणि च निर्मापितानि आसन् । अस्मिन् नगरे विविधाः जनाः निवसन्ति । जान्दा, नीलकण्ठेश्वरा इत्येतौ अस्य नगरस्य प्रमुखौ उत्सवौ स्तः । जान्दा-उत्सवः अगस्त-मासे सितम्बर-मासे वा आयोज्यते । अयमुत्सवः पञ्चदशदिवसात्मकः भवति । जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । नीलकण्ठेश्वरा-उत्सवः द्विदिवसात्मकः भवति । अयं जनवरी-मासे फरवरी-मासे वा आचर्यते । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । हनुमन्-मन्दिरं, नीलाकण्ठेश्वर-मन्दिरं, खिल्लारामालायम-मन्दिरं, श्रीरघुनाथ-मन्दिरं, श्रीलक्ष्मीनरसिंहास्वामी-मन्दिरं, सरस्वती-मन्दिरम् इत्यादीनि अस्य नगरस्य पर्यटनस्थलानि सन्ति । निजामाबाद-नगरे एकः सङ्ग्रहालयः अपि अस्ति । अस्मिन् सङ्ग्रहालये ऐतिहासिकानि वस्तूनि सङ्गृहितानि सन्ति । अस्मिन् नगरे डोमकोण्डा-दुर्गः अपि अस्ति । साम्प्रतम् अस्य दुर्गस्य स्थितिः जर्जरा अभवत् । किन्तु साम्प्रतमपि अयं दुर्गः जनान् आकर्षति । नगरस्य समीपे निजामाबाद-दुर्गः अपि स्थितः अस्ति । दुर्गः अयं पर्यटकाणाम् आकर्षणस्य केन्द्रम् अस्ति । अयं दुर्गः जनेषु लोकप्रियः वर्तते । निजामाबा-नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अस्य नगरस्य तापमानम् अत्यधिकम् उष्णं भवति । शीतर्तौ अस्य नगरस्य वातावरणं सुखदं, स्वास्थ्यप्रदं च भवति । अतः जनाः प्रतिवर्षं नवम्बर-मासतः फरवरी-मासपर्यन्तं निजामाबाद-नगरं गच्छन्ति । निजामाबाद-नगरं ७६५ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः निजामाबाद-नगरं तेलङ्गाना-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण पर्यटकाणां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अतः बसयानैः निजामाबाद-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । निजामाबाद-नगरात् भोपाल-नगराय, पुणे-नगराय, नागपुर-नगराय, इरोड-नगराय, औरङ्गाबाद-नगराय, मुम्बई-नगराय, मदुरै-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । निजामाबाद-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं निजामाबाद-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । निजामाबाद-नगरात् इदं विमानस्थानकं २०० किलोमीटरमिते दूरे स्थितम् अस्ति । हैदराबाद-विमानस्थानकात् देहली-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । हैदराबाद-विमानस्थानकात् बसयानैः, भाटकयानैः वा निजामाबाद-नगरं गन्तुं शक्यते । अनेन प्रकारेण निजामाबाद-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरतलतया निजामाबाद-नगरं गन्तुं शक्नुवन्ति ।

मेडक

मेडक-नगरं तेलङ्गाना-राज्यस्य मेडक-मण्डले स्थितम् अस्ति । नगरमिदम् ऐतिहासिकम् अस्ति । मन्यते यत् “अस्य नगरस्य मूलनाम “सिद्धपुरम्” इति आसीत्” । अनन्तरं “गुलशानबाद” इति अस्य नाम परिवर्तितम् । काकतीय-वंशजानां शासनकाले नगरमिदं विकासशीलम् आसीत् । काकतीय-वंशस्य प्रतापरूद्र-राज्ञा अस्य नगरस्य संरक्षणाय इदं नगरं परितः दुर्गः निर्मापितः आसीत् । अस्य दुर्गस्य निर्माणम् एकस्मिन् पर्वते कृतम् । अस्य नाम “मेथुकुरूदुरुगम” इति कृतम् । स्थानीयजनैः इदं नगरं “मेथुकुस्सीमा” इति नाम्ना कथ्यते । नगरमिदं समीपस्थेषु जनेषु लोकप्रियम् अस्ति । बाथुकम्मा-उत्सवः अस्य नगरस्य प्रसिद्धः उत्सवः अस्ति । तेलङ्गाना-राज्यस्य स्त्रियः एव इमम् उत्सवम् आचरन्ति । उत्सवेऽस्मिन् गौरीदेवी बाथकुम्मा-स्वरूपेण पूज्यते । “बाथकुम्मा” इत्यर्थः “जीवितदेवी” इति । उत्सवः अयं शीतर्तौ आचर्यते । अयम् उत्सवः नवदिवसात्मकः भवति । अर्थात् नवरात्रिपर्व एव बाथकुम्मा-उत्सवः कथ्यते । मेडक-नगरस्य समीपे बहूनि पर्यटनस्थलानि सन्ति । अस्मिन् नगरे सांईबाबा-मन्दिरम् अस्ति । समीपस्थेभ्यः राज्येभ्यः अपि बहवः जनाः दर्शनार्थं तत्र गच्छन्ति । अस्य नगरस्य समीपे “गोट्टमगुट्टा” नामकः लघुग्रामः अस्ति । अस्मिन् ग्रामे तडागः, मन्दिराणि च सन्ति । मेडक-नगरस्य समीपे पोचरम-वनं, वन्यजीवाभयारण्यं च जनेषु लोकप्रियम् अस्ति । अस्मिन् अभयारण्ये विभिन्नप्रकारकाः विहगाः, वन्यजीवाः च दृश्यन्ते । सिङ्गुर-जलबन्धः, निजामसागर-जलबन्धः च अपि पर्यटनाय प्रसिद्धः वर्तते । “सरस्वती क्षेत्रमु मन्दिरं”, “वेलूपुगोन्दा श्री तुमबारून्था देवालयम”, “इडुपालया दुर्गा भवानी गुडी” च अस्य नगरस्य तीर्थस्थलानि सन्ति । अस्मिन् नगरे हिन्दुजनाः अधिकाः सन्ति । अतः उत्सवाः सोत्साहेन आचर्यन्ते । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् अत्यधिकम् उष्णं भवति । जनाः शीतर्तौ मेडक-नगरं भ्रमणार्थं गच्छन्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तं मेडक-नगरस्य भ्रमणार्थम् उत्तमः कालः भवति । मेडक-नगरं १६१ क्रमाङ्कस्य, ७६५ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । इमौ राष्ट्रियराजमागौ मेडक-नगरं तेलङ्गाना-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण पर्यटकाणां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अतः बसयानैः मेडक-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । कामरेड्डी-नगरस्य रेलस्थानकं मेडक-नगरस्य निकटतमं रेलस्थानकम् अस्ति । कामरेड्डी-रेलस्थानकं मेडक-नगरात् ६० किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं तेलङ्गाना-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । सिकन्दराबाद-नगराय, करीमनगराय, विजाग-नगराय, हैदराबाद-नगराय इत्यदिभ्यः नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मात् रेलस्थानकात् बसयानैः मेडक-नगरं प्राप्यते । मेडक-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं निजामाबाद-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मेडक-नगरात् इदं विमानस्थानकं १०० किलोमीटरमिते दूरे स्थितम् अस्ति । हैदराबाद-विमानस्थानकात् देहली-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । हैदराबाद-विमानस्थानकात् बसयानैः, भाटकयानैः वा मेडक-नगरं गन्तुं शक्यते । अनेन प्रकारेण मेडक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरतलतया मेडक-नगरं गन्तुं शक्नुवन्ति ।

बाह्यसम्पर्काः

सन्दर्भाः

Tags:

तेलङ्गाणाराज्यम् नाम्नः व्युत्पत्तिःतेलङ्गाणाराज्यम् इतिहासःतेलङ्गाणाराज्यम् बाह्यसम्पर्काःतेलङ्गाणाराज्यम् सन्दर्भाःतेलङ्गाणाराज्यम्Listenआन्ध्रप्रदेशराज्यम्दक्षिणभारतम्भारतम्सञ्चिका:Telanganapronunciation.oggहैदराबाद्-नगरम्, भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

लिस्बनगौतमबुद्धःनीतिशतकम्शिश्नम्टुनिशियालातूरस तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्)एस्पेरान्तो२०११मोलिब्डेनमरामानुजाचार्यः१६४२१०३६भगीरथःगोल्कोण्डदुर्गम्कन्दुकक्रीडाहेनरी ६पुण्डरीकअधिगमःजन्तवःपुष्पाणि१०८६मध्यमव्यायोगःशैक्षिकमनोविज्ञानम्जातीमलेशियाकर्मणैव हि संसिद्धिम्...१३ फरवरी५०४मांग विश्लेषण१५६३सांख्ययोगः२६९बभ्रुः१२२४मुख्यपृष्ठम्२९९हेण्ड्रिक लारेन्ज्अभिज्ञानशाकुन्तलम्उजबेकिस्थानम्दृश्यकाव्यम्१४ मईशतावधानी गणेशअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या८८८नक्षत्रम्४८१विशिष्टाद्वैतवेदान्तःमम्मटःपादकन्दुकक्रीडामाधवीबालरोगशास्त्रम्मीराबाईरावणःमाडिसन्तं तथा कृपयाविष्टम्...वनम्कालिदासस्य उपमाप्रसक्तिःप्लावनम्८९६४ फरवरीसंभेपूस्वसाट्यूपसूत्रलक्षणम्कोलकाता२.४८ ततो द्वन्द्वानभिघातःनाभागसंस्कृतसाहित्येतिहासःकृत्१७१०फलानिऔरादअन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमाला🡆 More