पण्डितजगन्नाथः (Pandita Jagannātha) संस्कृत भाषायाम् उत्तण्डकविरासीद् । सः शहजहान्सार्वभौमस्य आस्थाने कविरासीदित्यवगम्यते । पितुः पेरुभट्टस्य मातुर्लक्ष्म्याश्च पुत्रो तैलङ्गदेशावयवमुनागुण्डाभिधग्रामवासी वेजिनतीजातीयो जगन्नाथो गोदावरीमण्डलस्य भूषणमासीत् । तस्याभिजनं नाम 'उपद्रष्टा’ इत्यासीत् । स स्वाध्य्यनविषये स्वयं लिखति –
पण्डितजगन्नाथः '-' | ||||||||||||||||||
[[image:{{{भावचित्रम्}}}|250px]] | ||||||||||||||||||
| ||||||||||||||||||
|
श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः
काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् ।
देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं
शेषाङ्कप्राप्तशेषामलभणितिरभूत् सर्वविद्याधरो यः ॥
जगन्नाथः शाहजहानमकस्य मुस्लिमशासकस्य सभायामासीत् । शाहजहां १६२८ तः १६३८ ई. पर्यन्तं राज्यमकरोत् । अतो जगन्नाथस्य समयविषये कोऽपि संशयो नोदयते । शाहजहांनृपतेः पुत्रो दारासिकोहो जगन्नाथस्य पोषकः आसीत् ।
जगन्नाथः कस्यांचन यवनयुक्त्यामासक्तो जातिच्युतो भूत्वा तामुपयेमे इति प्रवादो जगन्नाथस्य नाम्ना प्रचारिताभिः कविताभितपि पुष्टिं नीयते । तस्यां मृतायां जगन्नाथो राजाश्रयं परित्यज्य मथुरामायातो यत्र तस्य १६७४ ई. वर्षे मृत्युरभवत् । मृत्योः पूर्वं स प्रायश्चितं कर्तुमपि सन्नध्द आसीत् परं तत्कालप्रसिध्दौ पण्डितौ भट्टोजिदीक्षिताप्पय्यदीक्षितौ नानुमेनाते । तत्र कारणं तयोर्जगन्नाथेन सहशास्त्रीयमतभेद एवोच्यते ।
पण्डितराजो जगन्नाथः क्रि. श. सप्तदशशतके तैलङ्गदेशे जनिमलभत ।
अस्य पिता पेरुभट्टः, माता च लक्ष्मीदेवी । पेरुभट्टः महापण्डितः आसीत् । जगन्नाथपण्डितविषये अनेकाः दन्तकथाः प्रचलिताः भवन्ति । अस्य यवनतरुणीसम्बन्धं वर्णयन्तः बहवः श्लोकाः समुपलभ्यन्ते । परन्तु अस्मिन् विषये सुदृढं प्रमाणं नोपलभ्यते ।
जगन्नाथेन बहवो ग्रन्थाः विरचिताः । अलङ्कारशास्त्रे अनेन विरचितः रसगङ्गाधरः सर्वानपि प्राचीनालङ्कारग्रन्थानतिशेते । जगन्नाथः न केवलं कविः शास्त्रज्ञ: च अपि तु महान् भगवद्भक्तोऽपि बभूव । तन्निर्मिताः पञ्चलहर्यः तस्य भगवद्भक्तिं सूचयन्ति ।
जगन्नाथः दिल्लीश्वरस्य शहजहान् -सार्वभौमस्य तत्पुत्रस्य दाराशिकोहस्य च बहुमानपत्रं बभूव । भामिनीविलासनाम्नि ग्रन्थे जगन्नाथः स्वयमेव कथयति -
"सार्वभौम श्री शहजहांप्रसादाधिगतपण्डितराजपदवीराजितेन-" इति ।
जगन्नथपण्डितः अप्पय्यदीक्षितानां समकालिकः इति प्रवादोऽपि प्रमाणकोटिं नाधिरोहति ।
This article uses material from the Wikipedia संस्कृतम् article जगन्नाथः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.