कृष्णयजुर्वेदः

कृष्णयजुर्वेदः यजुर्वेदस्य एव उपविभागः।

शाखा

कृष्णयजुर्वेदस्य चतस्रः शाखाः प्राप्यन्ते –

  1. तैत्तिरीयशाखा – इयं प्रधानशाखा। अत्र सप्तखण्डाः, ते च खण्डाः अष्टकशब्देन काण्डशब्देन च व्यवह्रियन्ते । प्रतिकाण्डं कतिपयेऽध्यायाः, ये प्रपाठकनाम्ना ख्याताः । इमे प्रपाठकाः बहुषु अनुवाकेषु विभक्ताः सन्ति ।
  2. मैत्रायणीसंहिता -
  3. कपिष्ठलकठसंहिता - इमे द्वे अपि संहिते तैत्तिरीयसंहिताम् अनुकुरुतः
  4. काठकसंहिता - केवलं क्रमे यत्र तत्र पार्थक्यं विद्यते।

तैत्तिरीयसंहिता

तैत्तिरीयसंहितायाः प्रसारः दक्षिणभारते अस्ति । अांशिकरूपेण महाराष्ट्रप्रदेशः समग्ररूपेण च आन्घ्रद्रविडदेशीयाः अस्याः शाखायाः अनुयायिनः सन्ति। अस्याः संहितायाः स्वकीयाः ब्राह्मण-आारण्यक-उपनिषद्-श्रौतसूत्र-गृह्यसूत्रप्रभृतयः अक्षुण्णाः सन्ति । तैत्तिरीयसंहितायाः परिमाणमपि न्यूनं नास्ति । आचार्यसायणस्य इयं स्वकीया शाखाऽऽसीत् ।

मैत्रायणीसंहिता

मैत्रायणीसंहिता कृष्णयजुर्वेदस्य अन्यतमा संहिता। इयं संहिता गद्य-पद्यात्मिकाऽस्ति । अस्यां संहितायां चत्वारः काण्डाः सन्ति ।

कठसंहिता

कठसंहिता यजुर्वेदस्य सप्तविंशति-शाखासु अन्यतमाऽस्ति । पुराणेषु काठकजनाः मध्यप्रदेशीया वा माध्यमनाम्ना विख्याताः सन्तिः । अनेन ज्ञातो भवति यत्ते प्राचीनकाले मध्यप्रदेशेऽवसन्। पतञ्जलेः कथनानुसारेण कठसंहितायाः प्रसारस्तथा पठनं-पाठनं प्रतिग्रामम् आसीत् ('ग्रामे ग्रामे काठको कालापकं च प्रोच्यते') । अनेनास्याः संहितायाः प्राचीनकाले विपुलप्रचारस्य बोधो भवति । किञ्च अधुनाऽस्याः अध्येतृृणां संख्या नगण्याऽस्ति।

कपिष्ठलकठसंहिता

कपिष्ठलकठसंहितायाः नाम कस्यचित् ऋषेः नाम्ना अस्ति। एतस्याः संहितायाः पूर्णः ग्रन्थः अनुलब्धः। एतस्मिन् ग्रन्थे ऋग्वेदस्य प्रभावः दरीदृश्यते। चरणव्यूहस्य मतानुसारेण चरकशाखान्तर्गते कष्ठानां, प्राच्यकठानां कपिष्ठलकठानाञ्च उल्लेखो लभते, येनोल्लेखेन अस्य शाखा-सम्बन्धस्य पूर्णपरिचयो भवति ।

वैशिष्ट्यम्

कृष्णयजुर्वेदः संहिताभागः ब्राह्मणभागः इति समग्रतया विभक्तः नास्ति । ब्राह्मणभागः संहिताभागेन सह युक्तः विद्यते । वैदिककर्मणां विषये आचरणानाञ्च समीचीनविवरणं यजुर्वेदस्य विशेषः । कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायां दर्शपूर्णमास, सोमयाग, वाजपेय, राजसूय, अश्वमेध इत्यादीनां यज्ञानां सूक्ष्मविवरणम् उपलभ्यते ।

ऋग्वेदे अविद्यमानाः स्तुतिमन्त्राः अस्मिन् उपलभ्यन्ते । उदाहरणाय अद्य पठ्यमानं 'श्रीरुद्रम्' यजुर्वेदमात्रे एव दृश्यते । 'पञ्च रुद्रम्' इत्येतत् यद्यपि ऋग्वेदे उपलभ्यते किन्तु तदस्ति पञ्चमन्त्रात्मकमात्रम् । अतः एव महान् शिवभक्तः अप्पय्यदीक्षितः कदाचित् अवदत् - 'अहं यजुर्वेदवंशे न जातः इति मे मनः खिद्यते । यदि स्यात् तर्हि शिवं यजुर्वेदेन एव शिवम् अपूजयिष्यम्' इति । सः सामवेदानुयायिनां कुटुम्बे जातः आसीत् । कृष्णयजुर्वेदस्य अध्ययनं विशेषतया दक्षिणभारते भवति । ऋग्वेदे दृश्यमानः पुरुषसूक्तः कैश्चित् परिवर्तनैः सह यजुर्वेदे अपि दृश्यते ।

सम्बद्धाः लेखाः

Tags:

कृष्णयजुर्वेदः शाखाकृष्णयजुर्वेदः तैत्तिरीयसंहिताकृष्णयजुर्वेदः मैत्रायणीसंहिताकृष्णयजुर्वेदः कठसंहिताकृष्णयजुर्वेदः कपिष्ठलकठसंहिताकृष्णयजुर्वेदः वैशिष्ट्यम्कृष्णयजुर्वेदः सम्बद्धाः लेखाःकृष्णयजुर्वेदःयजुर्वेद

🔥 Trending searches on Wiki संस्कृतम्:

९५०नासिकामधुमेहःकृत्ट्विटरकाल्काशिम्लाधूमशकटयानम्उमाश्रव्यकाव्यम्शिश्नम्३ जनवरीप्राणःमहाभाष्यम्१४६९वसुदेवः५ फरवरीउत्प्रेक्षालङ्कारः१२०जोनास् एड्वर्ड् साक्चार्ल्स् डार्विन्शनिःशब्दः८९६जानुलियोनार्ड ओइलरदीपावलिःउद्योगपर्वदृश्यकाव्यम्१९००शब्दमालिन्यम्भौतिकी तुलामुख्यपृष्ठम्बालरोगशास्त्रम्नेपोलियन बोनापार्टकाव्यालङ्कारयोः क्रमिकविकासः१४१६किरातार्जुनीयम्१३८७यमःजानुवातः सन्धिवातश्च८७८मालवा६२२चीनदेशः५९२ब्रह्मसामाजिक मानवशास्त्रऋणम्वेदाङ्गम्उजबेकिस्थानम्वाल्मीकिःज्यायसी चेत्कर्मणस्ते...छन्दःअथ चेत्त्वमिमं धर्म्यं...केरळराज्यम्वेनेजुयेलामेडलिन् स्लेड्१४०७रावणःगद्यकाव्यम्१५६३अव्ययम्१६५०विदुरःस तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्)परस्परक्रियापुण्डरीकमाडिसन्झारखण्डराज्यम्जेम्स क्लर्क माक्सवेलजीवनीग्रहणम्ऋतुचर्यानागलिङ्गम्🡆 More