कारकम्

क्रमवतां वर्णानां समूहः पदम् । पदसमूहः वाक्यम् । वाक्यम् अभीप्सितम् अर्थं बोधयति । अतः शब्दप्रपञ्चे वाक्यमेव प्राधान्यम् आवहति । किन्तु पदम् अन्तरा वाक्यं न भवति । ऋते वर्णेभ्यः पदं नास्ति । अतः व्याकरणे वर्णनिमित्तानि कार्याणि, पदनिमित्तानि कार्याणि च सन्ति । प्रायः सन्धिकार्याणि वर्णनिमित्तकानि । समासादीनि पदनिमित्तकानि । वाक्यम् अवलम्ब्य प्रवृत्तानि भवन्ति कारकाणि कारकसम्बन्धीनि कार्याणि च । साक्षात् परम्परया वा वाक्यानि संस्कर्तुम् एव व्याकरणं प्रवृत्तम् । सम्प्रति कारकाणि कारकसम्बन्धीनि कार्याणि च इह प्रस्तूयन्ते ।

कारकम्

किं नाम कारकम् ? क्रियान्वयि कारकम् । क्रियायाः अन्वयः = क्रियान्वयः । अन्वयः = सम्बन्धः । क्रियान्वयः अस्य अस्ति इति क्रियान्वयि । यः क्रियया अन्वेति (सम्बन्धं प्राप्नोति ) सः कारकम् इत्युच्यते इति फलितार्थः । यथा –

  1. पाचकः पचति । अत्र पाचकः पाकक्रियायाम् अन्वेति । अतः पाचकः कारकम् । तच्च प्रकृते कर्तृकारकम् ।
  2. गां स्पृशति । अत्र गौः स्पर्शनक्रियायाम् अन्वेति । अतः सा कारकम् । तच्च प्रकृते कर्मकारकम् ।
  3. परशुना छिनत्ति । अत्र परशुः छेदनक्रियायाम् अन्वेति । अतः कारकम् । तच्च प्रकृते करणकारकम् ।
  4. बालाय फलं ददाति । अत्र बालः दानक्रियायाम् अन्वेति । अतः बालः कारकम् । तच्च प्रकृते सम्प्रदानकारकम् ।
  5. प्रासादात् पतति । अत्र प्रासादः पतनक्रियायाम् अन्वेति । अतः प्रासादः कारकम् । तच्च अपादानकारकम् ।
  6. पीठे उपविशति । अत्र पीठम् उपवेशनक्रियायाम् अन्वेति । अतः पीठं कारकम् । तच्च प्रकृते अधिकरण-कारकम् ।

कर्तृकारकं क्रियायां साक्षात् अन्वेति । अन्यानि कारकाणि तु परम्परया क्रियायाम् अन्वयं प्राप्नुवन्ति इति ज्ञेयम् । इदं परिशील्यताम् – कः, कां, केन, कस्मै, कस्मात्, कुत्र ददाति इति प्रश्नः (अयोध्यायाः) राजा, गां, हस्तेन, विप्राय, गोष्ठात्, गङ्गातीरे ददाति इति वाक्येन समाहितः भवति । अतः दानक्रियायां षडपि कारकाणि अन्वितानि भवन्ति इति स्पष्टम् । ‘कस्य राजा’ इति प्रश्नस्तु ‘अयोध्यायाः राजा’ इत्यनेन समाहितः भवति । अयोध्यायाः राजा’ इत्यनेन समाहितः भवति । अयोध्यायाः अन्वयः राज्ञि एव, न तु दानक्रियायाम् । अतः षष्ठी (शेषषष्ठी) कारकं न इति उद्घोषः ।

इत्थञ्च क्रियया सह कारकाणां सम्बन्धस्य परिशीलनाय प्रश्नोत्तररुपः पन्थाः सुगमः । यथा –‘कः पचति?’ = कः पाकक्रियां निर्वर्तयति ? इति उत्थितायाः आकांक्षायाः (प्रश्नस्य )उपशमनं देवदत्तः पचति=‘ देवदत्तः पाकक्रियां निर्वर्तयति’ इति वाक्येन (उत्तरेण ) भवति । देवदत्तस्य कर्तुः पाकक्रियया सह सम्बन्धः यदि न अभविष्यत् तर्हि आकांक्षायाः उपशमनमपि न अभविष्यत् । जातञ्च उपशमनम् आकांक्षायाः । अतः क्रियया सह सम्बन्धः अस्तीति ज्ञायते । एवम् अन्यकारकादौ अपि ज्ञेयम् ।

एतानि षट् कारकाणि स्मर्तुम् अयं सरलः श्लोकः -

    कर्ता कर्म च करणं सम्प्रदानं तथैव च ।
    अपादानाधिकरणम् इत्याहुः कारकाणि षट् ॥ इति ।

Tags:

वाक्यम्

🔥 Trending searches on Wiki संस्कृतम्:

वर्णाश्रमव्यवस्थातत्त्वज्ञानम्रामःपोलोनियम१०१देशाः३ दिसम्बरचिन्तानर्मदानदीवेदान्तःदेवनागरीभोजपुरीभाषाजन्तवःमधुपारिजात वृक्षःपोताश्रयःसंहतिः (भौतविज्ञानम्)चित्रकलातमिळभाषावङ्गःईरानभूकम्पःअरिस्टाटल्अशोच्यानन्वशोचस्त्वं...उत्तररामचरितम्१२१४७७९पृथिव्याः वायुमण्डलम्दुष्यन्तः२१ दिसम्बरपञ्चतन्त्रम्चार्ल्स २वाल्ट डिज्नीसंस्कृतवाङ्मयम्विकिःपी टी उषाशिशुपालवधम्संस्कृतभाषामहत्त्वम्विकिसूक्तिःअभिहितान्वयवादः११८१८६३६६टोगोनागानन्दम्द्वितीयविश्वयुद्धम्१७४४मोरारजी देसाईसूडानबिहारराज्यम्१४ अक्तूबरमृत्तिकामध्यमव्यायोगः९६३गौतमबुद्धःविष्णुशर्माऋतुसंहारम्नासालन्डन्प्रजातन्त्रम्शीतकम्लक्सम्बर्ग१७४५चम्पादेशःसिद्धान्तशिरोमणिःस्थूल अर्थशास्त्र१७४६हनुमज्जयन्तीसमन्वितसार्वत्रिकसमयःकालीइङ्ग्लेण्ड्नाटकम् (रूपकम्)🡆 More