एतत् कदलीफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् सस्यजन्यः आहारपदार्थः । कदलीफलम् आङ्ग्लभाषाया Banana इति उच्यते । अस्याः कदल्याः फलं, काण्डं, पुष्पं चापि आहारत्वेन उपयुज्येते । भारतदेशे कदलीपर्णस्य पवित्रं स्थानं वर्तते । धार्मिककार्येषु कदलीपत्राग्रभगस्य उपयोगः अनिवार्यः अस्ति । भारते अस्मिन् भागे भोजनं तु शास्त्रविहितम् । कदलीफलम् अकृष्टपच्यम् अपि । कदलीफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । भारतस्य सर्वेषु राज्येषु कदली वर्धते । अधिकतया करर्णाटके, केरले, असमराज्ये, तमिळ्नाडुराज्ये, आन्ध्रप्रदेशे, पश्चिमबङ्गालप्रदेशेषु च वर्धयन्ति । यूरोप् जनेषु अलेक्साण्डर् प्रथमतया कदलीफलं खादितवान् । सः स्वदेशे कदलीफलं परिचायितवान् । लघुकदली अथवा नञ्जनगूडुरसकदलीफलं तु प्रसिद्धम् । लघुकदली अथवा देवस्य कदली, पच्चकदलीफलानि अधिकतया सर्वत्र उपयुज्यन्ते । एलाकदली, रसकदली च मैसूरुनगरे अधिकतया संवर्धयन्ति । नेन्द्रकदली मलेनाडुप्रदेशे अस्ति । आफ्रिका-ईजिप्त्-तः अरब्-वर्तकाः समग्रे विश्वे कदलीविक्रयणेन एव प्रसिद्धाः अभवन् ।
आहारसंशोधनालयस्य इतिवृत्तानुगुणं ज्ञायते यत् ९० निमेषाणां श्रमयुक्तकार्यार्थं या शक्तिः अपेक्ष्यते सा शक्तिः कदलीफलद्वयेन लभ्यते । एतस्मिन् कदलीफले शक्त्या सह वल्कलांशः, सुक्रोस्, फ्रक्टोस्, ग्लूकोस् इति त्रिविधाः प्राकृतिकशर्कराः च सन्ति ।
प्रतिदिनं कदलीफलस्य सेवनेन अनेकाभ्यः समस्याभ्यः दूरे भवामः । नित्यजीवने कदलीफलस्य उपयोगेन उत्तमम् आरोग्यं प्राप्तुं शक्नुमः अपि ।
निपीडः (Pressure) - अस्मिन् फले पोटाषियं प्रमुखः खनिजः । सः हृदयकम्पनस्य नियन्त्रणं करोति । मस्तिष्कं प्रति आम्लजनकस्य पूरणं करोति । शरीरे जलस्य प्रमाणं समतोलयति । प्रपञ्चे श्रेष्ठक्रीडापटोः प्रथमाद्यता सेवफलम् । तदनन्तरस्थाने अस्ति कदलीफलम् । एतेषु ४ गुणितं प्रोटीन्, २ गुणितं कार्बोहैड्रेट्, ३ गुणितं फास्फरस्, ५ गुणितं विटमिन् ए, अयसांशः च, २ गुणितम् अन्यविटमिन्, खनिजाः च सन्ति । अतः यदाकदापि यत्किमपि खादनस्य अपेक्षया कदलीफलस्य सेवनेन देहस्य सुस्तितिः भवति इति वैद्याः वदन्ति ।
आम्रं पनसं, कदलीफलं च प्रमुखफलत्रयत्वेन परिगण्यन्ते । एवम् एव कदली-आम्र-उदुम्बर तिन्त्रिणीवृक्षाः प्रमुखाः वृक्षाः इति उच्यन्ते । एतान् अधिकृत्य काचित विचित्रा कथा केषुचित प्रदेशेषुश् श्रूयते । एते पञ्च वृक्षाः अपि कस्मिंश्चित् काले मनुष्यरुपेण सहोदर्यः आसन् । बहुकालं यावत् तासां विवाहः न जातः । कदाचित् देवः प्रत्यक्षीभूय ‘विवाहम् इच्छन्ति वा ?’ इति ताः पॄष्टवान् । तदा चतस्रः सहोदर्यः विवाहम अङ्घीकृतवत्यः । किन्तु अन्तिमा सहोदरी न अङ्गीकृतवती । सा सन्तानमात्रं प्रार्थितवती । अनन्तरं देवः ताः सर्वाः वृक्षरुपेण परिवर्त्य - "यः एतान् वृक्षान् आरोहति सः एव पतिः ’ इति उक्तवान् । अतः एव् विवाहम् अङ्गीकृतवतः वृक्षान सर्वे आरोढुं शक्नुअन्ति चेदपि कदलीवृक्षं कोऽपि आरोढुं न शक्नोति । कदली इति संस्कृतभाषया, हिन्दिभाषया केला इति, आंगलभाषया बनाना प्लाण्टन्, आडम्स् आपिल इत्यपि उच्यते । काभिश्चित् भारतीयभाषाभिः कदलीइत्येव उच्यते । तमिळु मलयाळभाषया च वाळ्:ऐ इति, तेलुगुभाषया अरटि इति च उच्यते ।
बौद्धाः कदलीवृक्षं पवित्रं मन्यन्ते । बौद्धसाहित्ये उक्तं मोचापानं कदलीफलेन एव सज्जीक्रियते । अस्माकं पुराणे श्रूयते यत् -हनुमान् हिमालयप्रान्ते कदलीवने आसीत् इति ।
कदलीवृक्षस्य पुष्पं, शलाटुः, फलं च आहररुपेण उपयुज्यते । कदलीवृक्षस्य शलाटुः हरितवर्णीयः भवति । तस्य फलं हरितं ,पीतं, पीतहरितमिश्रितं, रक्तवर्णीयं वा भाति । तदा आकारेण लघु बृहत् चापि भवति । कदल्यां ५,००० प्रभेदाः सन्ति इति श्रूयते । पच्चेकदली, बूदिकदली, वृक्षकदली, रसकदली, एलाकदली, अरण्यकदली इति अष्ट, दश वा विधाः प्रसिद्धाः सन्ति । कदलीपर्णं बृहदाकारकं पञ्चषपादमितदीर्धम्, अधिकविशालं च भवति । दक्षिणाभारते केषुचित स्थलेषु भोजनार्यम् एतस्य उपयोगः क्रियते । जनाः विवाहादिशुभकार्येषु वितानं मण्डपं द्वारं च पुष्पगुच्छसहितेन कदलीवृक्षेण अलङ्कुर्वन्ति । एतं शुभसङ्केतं मन्येन्ते जनाः ।
यदा शलाटुः पक्वं भवति तदा वृक्षं कर्तयन्ति । कर्तितवृक्षस्य प्रकाण्डं परितः स्थितेभ्यः कन्देभ्यः नूतनसस्यानि उत्पद्यन्ते । एवं किदलीसन्तानः वर्धते ।
This article uses material from the Wikipedia संस्कृतम् article कदलीफलम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.