उत्तमः पुरुषस्त्वन्यः...

श्लोकः

उत्तमः पुरुषस्त्वन्यः... 
गीतोपदेशः
    उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः

उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥

अन्वयः

उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः अव्ययः यः लोकत्रयम् आविश्य बिभर्ति ।

शब्दार्थः

    परमात्मा = परब्रह्म
    उदाहृतः = कथितः
    ईश्वरः = प्रभुः
    लोकत्रयम् = भुवनत्रयम्
    आविश्य = प्रविश्य
    बिभर्ति = धारयति ।

अर्थः

आभ्याम् उभाभ्यामपि भिन्नः अन्यः कश्चित् पुरुषो वर्तते । सः उत्तमः पुरुषः । स एव परमात्मा यः त्रीन् अपि लोकान् व्याप्य तान् बिभर्ति । एवं कार्यभूतः पदार्थः महदादिः क्षरः, कारणीभूता प्रकृतिः अक्षरः । ताभ्यां व्यतिरिक्तः उत्तमः पदार्थः परमात्मेति भागत्रयम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

उत्तमः पुरुषस्त्वन्यः... श्लोकःउत्तमः पुरुषस्त्वन्यः... पदच्छेदःउत्तमः पुरुषस्त्वन्यः... अन्वयःउत्तमः पुरुषस्त्वन्यः... शब्दार्थःउत्तमः पुरुषस्त्वन्यः... अर्थःउत्तमः पुरुषस्त्वन्यः... सम्बद्धसम्पर्कतन्तुःउत्तमः पुरुषस्त्वन्यः... सम्बद्धाः लेखाःउत्तमः पुरुषस्त्वन्यः...

🔥 Trending searches on Wiki संस्कृतम्:

पाणिनीया शिक्षामोक्षः१५१७दण्डीमलेशियाजाम्बियालिङ्गपुराणम्रामनवमीक्शिवःइटलीपाण्डीचेरीनगरम्५२ शक्तिपीठानिकमल् हासन्करणम् (ज्योतिषम्)योत्स्यमानानवेक्षेऽहं...आपूर्यमाणमचलप्रतिष्ठं...मोहनदास करमचन्द गान्धीभूपेन हाजरिकाअगस्त २१जैमिनिःपरित्राणाय साधूनां...धर्मशास्त्रम्जुलाई १०उपमालङ्कारःगौतमबुद्धः१००कपिलः (ऋषिः)प्रजहाति यदा कामान्...नेप्टुनियमहिन्दुस्थानीभाषाउपनिषद्मापनप्रविधिः६६कोमोश्रीहर्षःछ्वॉशिंगटन, डी॰ सी॰भयाद्रणादुपरतं...कुमारिलभट्टः१८८९पुर्तगालश्येनः५१११८१८ईश्वरः६४१जलम्१२१८विकिपीडियाजूनश्फेस्बुक्थामस् हण्ट् मार्गन्पुराणम्ओक्‍लाहोमाकेनोपनिषत्हर्षचरितम्नवम्बर २तारायूनानीभाषाभौतिकशास्त्रम्आलङ्कारिकाःसुब्रह्मण्य भारतीअथ योगानुशासनम् (योगसूत्रम्)आङ्ग्लविकिपीडियाअम्बिकादत्तव्यासःरासायनिक संयोगःगोदावरीनदी🡆 More