इस्लाम्-मतम्

इसलाम् (अरबी : الإسلام अल्-इस्लाम्) एकं एकेश्वरवादि यहूदी क्रैस्त मताभ्यां सदृशं आब्राहामीयमतम् च अस्ति। कुरान्-शास्त्रं, मुहाम्माद्-भगवद्दूतस्य जीवनशैल्या(सुन्नह्) आचरणप्रवचनद्वारा(हदीस्) च दर्शिता तस्य व्याख्या च इस्लाम्-मतस्य आधाराः सन्ति। इस्लाम्-मतस्य अनुयायी मुसलिम् इति उच्यते।

इस्लाम्-मतम्
काबा, मक्का, सऊदी अरब्

मुस्लिम्-जनाः मन्यन्ते यत् भगवान् मात्र एकः अनुपमः च अस्ति। मुस्लिम्-जनानां अयमपि विश्वासः यत् इस्लाम्-मतं तस्य मौलिकधर्मस्य सम्पूर्णं वैश्वनरं च रूपं अस्ति यः आदितः वारंवारं आदम्, नूह्, अब्राहाम्, मूसा, यीशुः चेति सदृशैः भगवद्दूतैः विवृतः आसीत्। इस्लाम्-मतस्य पञ्चस्तम्भाः, ये पूजायाः मूलविधयः सन्ति, अपिच इस्लामीयनीतिः या व्यापारेण, समृद्ध्या, पारिवारिकजीवनेन, वातावरणेन च सदृशे जीवनस्य प्रत्येकविषये मार्गदर्शनं करोति इति इस्लामीयसिद्धान्तस्य मूलभागाः वर्तन्ते।

इस्लाम्-मतस्य अनुचारिणां संख्या समग्रविश्वे प्रायः १४० कोटिपरिमितम् । मतमिदं संख्यादृष्ट्या द्वितीयबृहत्तमम्। मुहम्मद्-भगवद्दूतस्य एवञ्च तस्य उत्तराधिकारिणां प्रचारेण इस्लाम्-मतम् आविश्वं व्याप्तम् जातम् अस्ति। वर्तमाने समग्रे विश्वे मुस्लिम्-जनाः सन्ति, विशेषतः मध्यप्राच्ये, समग्र-एशियामहाखण्डे, आफ्रिकाखण्डे, पूर्व-यूरोपखण्डे, अधिकतया सन्ति। अमेरिका-सह पार्श्वस्थदेशेषु अपि इस्लाम्-मतं द्वितीयबृहत्तममतम् अस्ति।

शब्दोत्पत्तिः अर्थश्च

इस्लाम् स-ल-म इति अरबीधातुना उत्पन्नं एकं निमित्तार्थपदं अस्ति। अयं धातुना अरबीभाषायां सम्पूर्णता, सुरक्षा, शान्तिः चेति अर्थान् दत्तवन्ति बहूनि पदानि निर्मितानि सन्ति। धार्मिकदृष्ट्यां इस्लाम्-पदस्य अर्थः “भगवते स्वेच्छं आत्मसमर्पणं ” इति जातः। इस्लाम्-मतस्य अनुयायिभ्यः प्रयुक्तं पदं मुस्लिम् इत्यपि इस्लाम्-पदस्य क्रियापदेन हि उत्पन्नं कर्तृपदं अस्ति। भक्ताः भगवन्तं सेवित्वा, तस्य निदेशानां पालनं कृत्वा, बह्वीश्वरवादं त्यक्त्वा च भगवते आत्मसमर्पणं दर्शयन्ति। कुरान्-शास्त्रे इस्लाम्-पदं पृथक्पृथक् अर्थान् ददाति। केषुचन पद्येषु इस्लाम् इति काचित् आन्तरप्रतीतिरूपेण दृश्यते: “यं कमपि परमात्मा नेतुं इच्छति, तस्य हृदयं सः इस्लाम्-कृते उद्घाटयति” इति।

अन्येषु पद्येषु इस्लाम्-पदं दीन्‌ (धर्मः)इति पदेन सह प्रयुक्तं अस्ति: “अद्य अहं युष्माकं धर्मं(दीन्) युष्मभ्यं सम्पन्नं कृतवान्; युष्मासु स्वानुग्रहं पूर्णं कृतवान् अहं; अपिच युष्माकं धर्मरूपेण अहं इस्लाम्-मतस्य अनुमोदनं कृतवान्” इति। अन्येषु च इस्लाम् “भगवते प्रतिगमनं”रूपेण वर्णितं अस्ति (अर्थात् केवलं मुखेन स्वीकरणात् गहनतरं अर्थः अस्य।) जिब्रील्-पारिषदस्य हदीसे इस्लाम्; इस्लाम्(समर्पणं)-ईमान्(श्रद्धा)-इह्सान्(उत्तमता) इति त्रिगणस्य अंशरूपेण वर्णितं अस्ति।‌ इदं हदीस्-अनुसारं इस्लाम्-पदस्य दैविकपरिभाषा “भगवतः अद्वितीयता”, ऐतिहासिकपरिभाषा मुहम्मद् भगवतः सन्देशवाहकः इति प्रवादं, अपिच सैद्धान्तिकपरिभाषा आराधनायाः पञ्चस्तम्भानां विनियोगः अस्ति।

षडङ्गविश्वासः

इस्लाम्-मते षट् मूलभूतविश्वासाः सन्ति, एनानि विश्वासाङ्गानि मत्वा हि कश्चन जनः मुस्लिम् भवति:-

अल्लाह् (परमात्मा)

इस्लाम्-मतम् 
हाया-सोफ़ीयायां अल्लाह्-नाम युक्ता काचन मुद्रिका, इस्तम्बोल्-नगरं, तुर्कीदेशः

इस्लाम्-मतस्य प्रधानतमः सिद्धान्तः तौहीद् (अरबी:توحید) अर्थात् दृढः एकेश्वरवादः अस्ति। कुरान्-शास्त्रस्य ११२तमे अध्याये भगवतः वर्णनं ईदृशं अस्ति: “वद : सः अल्लाह्(परमात्मा) एकः; अल्लाह् सनातनः; नहि सः आजायते, नैव जनितः च; अपिच तस्य समतुल्यः कोऽपि नास्ति।”[कुरान्११२:१-४] मुस्लिम्-जनाः यहूदी-जनाः च क्रैस्तमतीयत्रिमूर्तिं यीशोः दिव्यता इति क्रैस्तमतीयसिद्धान्तं च अवमन्यन्ते, तौ बह्वीश्वरवादसमं मन्यन्ते च। इस्लाम्-मतानुसारं भगवान् अबोधगम्यः, अतः मुस्लिम्-जनाः तस्य प्रतिमां न कल्पयन्ति।

मुस्लिम्-जनाः मन्यन्ते यत् अखिलविश्वं भगवतः आदेशमात्रेण हि संबभूव “भव! तथा भवति” जीवनस्य उद्देशः भगवतः आराधना च अस्ति। सः व्यक्तिगतभगवान् सम्मतः यः प्रत्यागृणाति यदाकदापि कश्चन नाथितः वा पीडितः वा तं आह्वयति। कस्यापि परार्थवादिनः आवश्यकता नास्ति तं भगवन्तं सम्पर्कार्थं यः कथयति “अहं तस्मात् तस्य कण्ठधमन्याः अपि समीपतरः अस्मि” इति भगवतः पारस्परिकप्रकृतिः इदं हदीस् अल्‌ कुद्सीकथने वर्णिता “अहमस्मि यथा मम भक्तः मां चिन्तयति।”

इस्लाम्-मते भगवतः निजनाम अल्लाह् वर्तते। ततः परं भगवतः ९९ अन्यानि नामानि अपि सन्ति, उदाहरणार्थं अल्-रह्मान् अर्थात् “करुणामयः”, अल्-रहीम् अर्थात् “दयालुः” च‌। अन्याः अन्-अरबी मुस्लिम्-जनाः भगवते अन्यानां स्थानीयभाषाणां नाम्नां प्रयोगः अपि कुर्युः, उदाहरणार्थं पारसीकभाषायां उर्दुभाषायां च ख़ुदा(خدا) इति प्रयुक्तं अस्ति, मलायुभाषायां च तुहान् (Tuhan) इति पदं प्रयुज्यते।

मलाइकह् (भगवत्पारिषदाः)

मलाइकह् (अरबी: ملائکة; एकवचनं: ملك (मलक्); आङ्ग्ल: Angel) इस्लाम्-मतानुसारं भगवतः दिव्यपारिषदाः वर्तन्ते, तेषु विश्वासः च षट्सु मूलभूतविश्वासेषु अन्यतमः। तेषां भौतिकशरीराणि न वर्तन्ते, अपितु ते दिव्यज्योतिना निर्मिताः आत्मनः सन्ति। परन्तु कदाचित् ते मनुष्याणां सम्मुखे प्रकटनार्थं भौतिकरूपाणि धारयन्ति; उदाहरणार्थं यीशोः उपरि जिब्रील्-पारिषदः कपोतरूपेण अवतरितवान्। भगवत्पारिषदेषु स्वच्छन्दः न वर्तते, अतः ते भगवतः आदेशानुसारं सृष्ट्याः विभिन्नानि कार्याणि सम्पन्नम् कुर्वन्ति। भगवद्वाण्याः उदीरणं, भगवतः आराधना, जनानां कर्माणां अभिलेखनं, मृत्योः समये जनानां आत्मनां हरणं च भगवत्पारिषदानां मुख्यानि कर्तव्यानि सन्ति। विभिन्नस्थलेषु निवसिताः मुस्लिम्-जनाः भगवत्पारिषदानां कृते स्थानीयभाषाणां नाम्नां प्रयोगः अपि कुर्वन्ति; उदाहरणार्थं फ़ारसीवाचकाः उर्दू-हिन्दीवाचकाः च मुस्लिम्-जनाः भगवत्पारिषदान् फ़रिश्ता इति वदन्ति। भगवत्पारिषदाः असंख्याः सन्ति। इस्लामीयशास्त्रेषु तेषां संपूर्णा सूचिः तु न दत्ता, परन्तु भगवतः समीपतराः प्रधानतमाः च चत्वारः पारिषदाः विशेषरूपेण वर्णिताः

  • जिब्रील्/जिब्रैल् भगवद्वाणीवाहकः। सः सर्वश्रेष्ठः भगवत्पारिषदः। भगवद्दूतान् प्रति भगवद्वाण्याः आनयनं तस्य कर्तव्यम्। सः एव भगवत्पारिषदः यः मुहम्मद्-भगवद्दूतं प्रति भगवद्वाणीं कुरान्-शास्त्रं आनयत्। कुरान्-शास्त्रे जिब्रील्-पारिषदस्य नाम त्रिवारं उल्लिखितं अस्ति। कुरान्-शास्त्रे जिब्रील्-पारिषदस्य द्वौ अन्यौ उपाधी अपि वर्णितौ : रूह्-अल्-कुद्स् अर्थात् पवित्रात्मा [कुरान् १६:१०२];रूह्-अल्-अमीन् अर्थात् आप्तः आत्मा [कुरान् २३:१९२-१९४] चेति।
  • मीकाल्/मीकाइल् देहानां आत्मनां च पोषकः। सः भगवतः आज्ञानुसारं यथासङ्गं प्रसादेन यथासङ्गं दण्डेन च जनानां उद्धारं करोति। पोषयित्नुः वृष्टिः परिध्वंसी वज्रपातः च उभौ तस्य एव कर्तव्ये। कुरान्-शास्त्रे मीकाल्-पारिषदस्य नाम एकवारं उल्लिखितं अस्ति।
  • इस्राफ़ील्‌ (अर्थात् प्रज्वलितः), गोविषाणकधारी पारिषदः। महाप्रलस्य समये सः द्विवारं गोविषाणकं प्रधमिष्यति। गोविषाणकस्य प्रथमघोषात् महान् विस्फोटः भविष्यति, विनाशलीलां आरप्स्यते च। द्वितीयघोषात् सर्वेषां जनानां पुनरुत्थानं भविष्यति, सर्वे नियायदिनाय भगवतः सम्मुखे आगमिष्यन्ति च।
  • इज़्राईल् अथवा मलक्-अल्-मौत् प्रधानकालदूतः अस्ति। मृत्योः समये शरीरात् आत्मनः हरणं तस्य कर्तव्यम्। कुरान्-शास्त्रे तस्य वर्णनं एकवारं मलक्-अल्-मौत् (अर्थात् मृत्युपारिषदः) नाम्ना जातं।

भगवद्वाणी

इस्लाम्-मतम् 
ख़त्तात् अज़ीज़् अफ़न्दी शुबलेखकेन लिखितः कुरान्-शास्त्रस्य प्रथमसूरा(अध्यायः) ।

मुस्लिम्-जनाः मन्यन्ते यत् मानवकल्याणार्थं भगवान् स्ववाणीं भगवद्दूतेषु अवतारयति स्म। कुरान्-शास्त्रे भगवता अवतरितानि चत्वारि दिव्यशास्त्राणि उल्लिखितानि सन्ति‌ :

  • मूसा-भगवद्दूते अवतरितं तौरात्-शास्त्रम्।
  • दावूद्-भगवद्दूते अवतरिता ज़बूर्-संहिता।
  • यीशुभगवद्दूते अवतरितं इंजील्-(गोस्पल्)शास्त्रम्।
  • मुहम्मद्-भगवद्दूते अवतरितं कुरान्-शास्त्रम्।

मुस्लिम्-जनाः मन्यन्ते यत् गच्छता कालेन स्वार्थपराः जनाः दिव्यशास्त्राणि विकृतानि कृतवन्तः, अतः अन्ततः भगवान् पूर्वप्रेषितानां दिव्यशास्त्राणां सारं अन्तिमदिव्यवाणी कुरान् (अर्थात् पाठ्यमाणा वाणी/भाणः/शास्त्रम्) रूपेण उत्कृष्टायां अरबीभाषायां प्रेषितवान्।

मुस्लिम्-जनाः मन्यन्ते यत् भगवान् ६१०तमात् क्रैस्ताब्दात् ६३२तमक्रैताब्दपर्यन्तं जिब्रील्-प्रधानपारिषदेन कुरान्-शास्त्रं मुहम्मद्-भगवद्दूते अवातारयत्। मुहम्मद्-भगवद्दूतस्य पार्षदाः (सहाबह्) अवतरितां भगवद्वाणीं आलिखन्ति स्म, यद्यपि प्रधानविधिः स्मृत्या मौखिकसञ्चारः एव आसीत्।

कुरान्-शास्त्रं ११४ सूरायां अथवा अध्यायेषु विभाजितं अस्ति, येषु उत्सङ्गितेषु ६,२३६ पद्यानि सन्ति। कालनुक्रमेण मक्का-नगरे अवतरितानां पूर्वकानां अध्यायानां विषयाः प्रायः आध्यात्मिकाः वर्तन्ते, अपिच मदीना-नगरे अवतरितेषु अध्यायेषु प्रायः नैतिकानां सामाजिकानां च विषयाणां चर्चा अस्ति। कुरान्-शास्त्रस्य ध्यानं नियमनिर्देशात् अधिकं धर्मोपदेशे अस्ति, अपिच इदं इस्लामीयनीत्याः मर्यादायाः च आकरशास्त्रं सम्मतं अस्ति। मुस्लिम्-धर्मविद्याः कुरान्-शास्त्रस्य परिशिष्टरूपेण व्याख्यारूपेण च हदीस्-कथनेन अथवा मुहम्मद्-भवद्दूतस्य जीवनस्य लिखितवृत्तान्तेन मन्त्रणं कुर्वन्ति। कुरान्-शास्त्रस्य व्याख्या-टीकयोः विद्या तफ़्सीर् इति उच्यते, योग्योच्चारणस्य व्यवस्था च तज्वीद् इति उच्यते।

अंबिया/रुसुल् (सिद्धाः/भगवद्दूताः)

अंबिया (अरबी: أنبِيَاء; आङ्ग्ल: Prophets) नबी(نبي) पदस्य बहुवचनं। शब्दोऽयं 'न-ब-अ'धातुना उद्भूतः, अस्य मौलिकार्थः सूचकः, सिद्धः चेति भवति। रसूल् (अरबी: رسول, अर्थात् दूतः; बहुवचनं: रुसुल्) इति अन्यनाम युज्यते एतेषां कृते। इस्लाम्-मतानुसारं एते सिद्धाः मनुष्याः ये मानवजात्याः मार्गदर्शनार्थं भगवता दूतरूपेण नियुक्ताः। कुरान्-शास्त्रानुसारं भगवद्दूताः क्षितिप्रजाभ्यः “दैवेच्छां” आनेतुं भगवता देशिताः। मुस्लिम्-जनाः मन्यन्ते यत् भगवद्दूताः मानुषाः नतु दैवाः, यद्यपि तेषु केचन स्वसत्यतायाः प्रमाणरूपेण जनकल्याणार्थं च चमत्कारान् कर्तुमर्हन्ति। इस्लामीय-धर्मशास्त्रानुसारं सर्वे भगवद्दूताः इस्लाम् अर्थात् भगवते आत्मसमर्पणं एव प्राचारयत्। कुरान्-शास्त्रे बहवः सिद्धाः भगवद्दूताः वर्णिताः, उदाहरणार्थं आदम्, नूह्, अब्राहाम्, मूसा, यीशुः इत्यादि।

मुस्लिम्-जनाः मन्यन्ते यत् अन्ततः भगवान् दिव्यसन्देशस्य संवहनार्थं (भगवद्वाण्याः उपसंहार-पूरणार्थं च) मुहम्मद्-वर्यं “भगवद्दूतानां मुद्रा” (खातम्-अल्-नबिय्यीन्) अर्थात् अन्तिमधर्मशासक-भगवद्दूतरूपेण प्रेषितवान्। इस्लाम्-मते मुहम्मद्-भगवद्दूतस्य जीवनशैलीदृष्टान्तः सुन्नह् (अर्थात् “सूर्तमार्गः”) इति उच्यते। एषः दृष्टान्तः आरक्षितः हदीस् नाम्ना विख्यातासु स्मृतिषु, याः मुहम्मद्-वर्यस्य वाण्याः, कर्मणां, व्यक्तिगतलक्षणानां च वृत्तान्तानि सन्ति। हदीस्-अल्-कुद्सी इति हदीस्-कथनानां हि कश्चन उपवर्गः यः मुहम्मद्-वर्येण पुनरुक्तानि भगवतः वचनानि सम्मतानि। हदीस्-अल्-कुद्सी कथनानि कुरान्-शास्त्रात् पृथक् वर्तन्ते यतः तानि मुहम्मद्-वर्यस्य शब्दैः उक्तानि इतरद् कुरान्-शास्त्रं साक्षात् भगवतः वाणी। उत्कृष्टः मुस्लिम्-धर्मविद्यः “अल्-शाफ़ी” इस्लामीयनित्यां सुन्नह्-दृष्टान्तस्य गुरुत्वाय बहुमहत्त्वं दत्तवान्, अपिच मुस्लिम्-जनैः मुहम्मद्-वर्यस्य आचरणं एव अनुसरणीयं। सुन्नह्-दृष्टान्तस्य कुरान्-शास्त्रस्य व्याख्यायां निर्णायकमहत्त्वं अस्ति।

महाप्रलयः पुनरुत्थानदिनं च

पुरनरुत्थानस्य दिने (अरबी: يوم القيامة यौम्-अल्-क़्यामह्) विश्वासः अपि इस्लाम्-मते मूलभूतः। मुस्लिम्-जनाः मन्यन्ते यत् महाप्रलस्य कालः भगवता पूर्वनिर्धारितः, अपिच महाप्रलस्य पश्चात् जीवानां पुनरुत्थानं भविष्यति। ततःपरं सर्वस्याः मानवजात्याः सुकर्म-कुकर्मणोः न्यायः भविष्यति, अयं न्यायानुसारं च नरकस्वर्गयोः प्रेषणं भविष्यति। कुरान्-शास्त्रस्य अल्-ज़ल्ज़लह् नाम अध्याये अस्य वर्णनं ईदृशं अस्ति “यः कोऽपि अणुमात्र अपि पुण्यं करोति, तं द्रक्ष्यति। अपिच यः कोऽपि अणुमात्र अपि पापं करोति, तं द्रक्ष्यति” इति।[कुरान् ९९:७-८] कुरान्-शास्त्रे बहवः नरकयापकाः पातकाः उल्लिखिताः दृष्टान्ततः भगवति नास्तिकता (अरबी‌:كفر कुफ़्र) ‌वक्रधी च। नाम कुरान्-शास्त्रं स्पष्टयति यत् भगवान् अनुशयानजनानां पातकान् एव क्षन्तुं अर्हति। पुन्याः दृष्टान्ततः दानशीलता, प्रार्थना, पशून् प्रति दयाभावः आदि स्वर्गयापकाः। कुरान्-शास्त्रे स्वर्गस्य रूपरेखा आनन्दाः च विस्तरतः उल्लिखिताः। इस्लाम्-मतस्य केचन सम्प्रदायाः मन्यन्ते यत् इस्लामीय-शास्त्रेषु स्वर्गनरकयोः वर्णनं वस्तुतः गौणार्थं अस्ति अपिच स्वर्गः वस्तुतः भगवद्बोधस्य परमानन्दः अस्ति नरकाग्निः च भगवतः विरहः अग्निः अस्ति।

यौम्-अल्-क़्यामह् अर्थात् पनरुत्थानस्य दिनं कुरान्-शास्त्रे अन्यैः नामभिः अपि वर्णितं अस्ति उदाहरणार्थं यौम्-अल्-दीन् (अरबी:يوم الدين) अर्थात् “धर्मदिनं” अथवा “न्यायदिनं”, अल्-सा'अह् (अरबी:الساعة) अर्थात् “वेला”, अल्-कारियह् (अरबी:القارية) अर्थात् “तुमुलकारि”।

नियतिः

अल्-कज़ा वऽल-कदर् अर्थात् नियतिः अथवा भाविता अर्थात् परमात्मा त्रिकालज्ञः, सर्वं भगवदिच्छात् हि भवति च इति मान्यता इस्लाम्-मतस्य षट्सु मूलभूतविश्वासेषु अन्यतमा। कुरान्-शास्त्रे अयं सिद्धान्तः कदाचित् ईदृशं वर्णितः: “वद : न अस्मान् भविष्यति किञ्चित्, विहाय यत् परमात्मा अस्मभ्यं निर्णीतवान्; सः एव अस्माकं संरक्षकः…… ” मुस्लिम्-जनेभ्यः सर्वं मङ्गलामङ्गलं यत् संसारे भवति पूर्वनिर्धारितं अस्ति, भगवदिच्छां विना किमपि न भवितुं अर्हति च। मुस्लिम्-पण्डितानां अनुसारं यद्यपि घटनाक्रमः पूर्वनिर्धारितः अस्ति तथापि मनुष्येषु उचितानुचितयोः मध्ये चयनस्य स्वच्छन्दः वर्तते इत्थं ते स्वकर्मणां उत्तरदायिनः सन्ति। इस्लामीय-परम्परानुसारं सर्वं यत् भगवता निर्णीतं अस्ति लाक्षणिकरूपेण लौह्-अल्-मह्फ़ूज़् अर्थात् गुप्तफलके लिखितं अस्ति।

पञ्चस्तम्भाः

इस्लाम्-मतस्य पञ्चस्तम्भाः (अर्कान्-अल्-इस्लाम् अथवा अर्कान्-अद्दीन् अर्थात् आगमस्य स्तम्भाः) इस्लाम्-मतस्य मुख्याचरणानि सन्ति, ये सर्वास्तिकेभ्यः अनिवार्याणि सन्ति। कुरान्-शास्त्रानुसारं एते किञ्चन आराधनातन्त्रं, आस्थाप्रतिबद्धतायाः चिह्नानि च सन्ति। एते सन्ति:-

१.शहादह् (साक्ष्यम्), २.सलात् (विधिवत्प्रार्थना), ३.ज़कात् (वार्षिकदानम्), ४.सोम् (उपवासः) अपिच, ५.हज्(काबा-प्रार्थनालयस्य तीर्थयात्रा) इति। 

शहादह् (साक्ष्यम्)

शहादह्अथवा शहादत्(अरबी भाषा: شهادة), मूलभूता इस्लामीयमतिः, साक्ष्यरूपे भणितव्यम्:-

अश्हदु अल्-ला इलाह इल्लऽल्लाहु, व अश्हदु अन्न मुहम्मदन् रसूलुऽल्लह्


अर्थात्: “साक्ष्यं ददामि, न कोऽपि देवः (अथवा पूजनार्हः) परमात्मनः ऋते इति, साक्ष्यं ददामि च, मुहम्मत् परमात्मनः दूतः इति”

इदं साक्ष्यं सर्वेषां इस्लामीयानां मतानां विधीनां च मूलं अस्ति। यः कोऽपि इस्लाम्-मतं स्वीकर्तुं इच्छति तस्य कृते अस्य साक्ष्यस्य घोषणा अनिवार्या वर्तते। मुस्लिन्-जनाः प्रतिदिनं प्रार्थनासु अस्य किञ्चित् भिन्नरूपं भणन्ति, यस्मिन् द्वितीयभागः एवं वर्तते: -

व अश्हदु अन्न मुहम्मदन् अब्दुहू व रसूलुहू

अर्थात्: “अपिच साक्ष्यं ददामि, मुहम्मत् तस्य सेवकः दूतः च अस्ति इति”

सलात् (विधिवत्प्रार्थना)

सलात् अथवा सलाह् (अरबी: صلاة) इति विधिवत्प्रार्थना अहर्निशं पञ्चवारं आचरणीया। इयं विधिवत्प्रार्थना भगवति मनोयोगार्थं, अपिच तस्मै आभारव्यक्त्यै, तस्य पूजनार्थं च, तेन व्यक्तिगत-संवादस्य कश्चन विधिः‌। सलात् परमानिवार्या वर्तते, तथापि विशेषेषु परिस्थितिषु अवमोचनानि वर्तन्ते। सलाति कुरान्-शास्त्रेण अरबीभाषायां प्रार्थनाः, काश्चन स्तुतयः च वर्तन्ते।

मुस्लिम्-जनाः काबा-प्रार्थनालयस्य दिशः अभिमुखाः भूत्वा सलातं आचरन्ति, यद्यपि प्राथमिकदिनेषु ते यरूशलम्-नगरस्य दिशः अभिमुखाः भूत्वा आचरन्ति स्म।

इस्लामीय-प्राथनालयः मस्जिद् इति उच्यते। मस्जिद् न केवलं प्रार्थनानां कृते अपितु सामाजिक-मेलनस्य अपि केन्द्रः वर्तते।

सौम् (उपवासः)

उपवासः (अरबी: “صوم” सौम्) सूर्योदयात् सूर्यास्त-पर्यन्त्म् मुख्यरूपेण भोजन-पानयोः, मिथुनस्य च, एवमेव असत्यादि दुराचरणानां त्यागः वर्तते। समान्यतः आवर्षे अनानिवार्यः उपवासः शक्यः, परन्तु इस्लामीये रम्ज़ान्-मासे उपवासः विशेषतः अनिवार्यः वर्तते। उपवासः भगवतः निकटतायाः भावः, दरिद्राणां पीडां प्रति संवेदनां च कल्पते, अतः मुस्लिम्-जनैः उपवासे भगवतः चिन्तनं करणीयं, तस्य नामानि जपितव्यानि, कुरान्-पाठः कर्तव्यः, पूर्वकृतानां पापानां क्षमा याचनीया, दीनानां दुविधानां चिन्तनं आदि कर्तव्यम् च। रुग्णैः, यात्रिभिः, अन्यैः दुविधाग्रस्तैः उपवासः न करणीयः, अपितु अस्य पारितोषिक-रूपेण अन्नदानं करणीयं, अथवा दुविधायां गतायां उपवासः करणीयः।

ज़कात् (वार्षिकदानम्)

ज़कात्(अरबी: "زکاۃ" ज़कात्/ज़काह् अर्थात् पावकः) दीनेभ्यः, अनाथेभ्यः, समाजे हृदयेषु सहनिध्याय, बन्धस्थानां बद्धश्रमिकानां च मुक्त्यै,दरिद्रऋणिभिः, हितेच्छार्थे परदेशेभ्यः, विरुद्धपथिकेभ्यः, दानविभागस्य कर्मचारिभिः दत्तं वार्षिकदानं अस्ति। अस्य व्यवस्था आयकरं इव अनिवार्यं वर्तते। यदि कस्यचन समीपे ५२.५ तोला-परिमितं रजतस्य सममुल्यं धनं आवर्षं तिष्ठति, तर्हि वर्षस्य अन्ते तस्य २.५ प्रतिशत-भागः अस्मिन् दाने दाननीयं वर्तते। इयं सामान्यतुलना निसाब् अर्थात् मानं उच्यते। विशेषजनाः एव धनस्य अतिसंचयः न कुर्युः, धनं च समस्तसमाजे समानरूपेण प्रसारितं भवेत्, जनाः धनार्जनं कृत्वा निष्कर्मिणः न भवेयुः इति अस्य दानस्य आशयाः।

हज् (तीर्थयात्रा)

हज्-अल्-बैतुल्लह्(अरबी: حج البیت اللہ अर्थात् परमात्मनः गृहस्य तीर्थयात्रा) अथवा केवलं हज् (अर्थात् तीर्थयात्रा) द्ज़ुल्-हज् नाम इस्लामीय-मासे कृता काबा-स्मारकस्य, तस्य परितः स्थितानां च पवित्रस्थानानां तीर्थयात्रा वर्तते। इयं यात्रा प्रत्येकस्मै स्वस्थाय यात्रासमर्थाय मुस्लिम्-जनाय आजीवनं न्यूनमतिन्यूनं एकवारं अनिवार्या वर्तते। अस्याः यात्रायाः अनुष्ठानाः एवं वर्तन्ते: मिना-मरुक्षेत्रे पटगृहेषु अहर्निशं वासः। ततः आदिनं अराफ़ात् नाम मरुक्षेत्रे भगवतः आराधना, प्रार्थना-तपादि। ततः अब्राहामस्य पदन्यासं अनुसृत्य,मुज़्दलिफ़ा नाम मरुक्षेत्रे आरात्रि बहिः सैकतभूम्यां शयनम्। ततः जुमरात् नाम स्तम्भत्रये शर्करक्षेपणं, अब्राहामस्य अनुचरणे, यथा सः त्रिवारं तत्र अभिमुखे आगते शैतान्-पापात्मनि शर्करक्षेपणं कृतवान्।ततः इस्लामीय-मतानुसारं अब्राहामेन निर्मितस्य काबा-प्रार्थनालयस्य सप्तवारं परिक्रमा। ततः सफ़ा-मर्वा-पर्वतयोः मध्ये अर्वद्भ्रमणं; अब्राहामस्य भार्यां हाज्रां अनुसृत्य, पुरा यथा सा नवजाताय स्वपुत्राय इस्मायीलाय जलनिरूपणाय व्याकुला भूत्वा तत्र भ्रमितवती, परमात्मा च शिलायां शिशोः पादकर्षणस्य स्थानात् जलाशयं उद्भावितवान्। हज्-यात्रायाः वेलां विहाय आवर्षं अन्यवेलासु अपि तीर्थयात्रा शक्या अस्ति, ततः इयं यात्रा उमरा इति उच्यते।

टिप्पणी

बाह्यसम्पर्कतन्तुः

    शैक्षणिकस्रोतः
    आन्तर्जालाधारितः स्रोतः
    कोषाः

Tags:

इस्लाम्-मतम् शब्दोत्पत्तिः अर्थश्चइस्लाम्-मतम् षडङ्गविश्वासःइस्लाम्-मतम् पञ्चस्तम्भाःइस्लाम्-मतम् टिप्पणीइस्लाम्-मतम् बाह्यसम्पर्कतन्तुःइस्लाम्-मतम्अरबीभाषाकुरान्क्रैस्तमतम्मुहम्मद्

🔥 Trending searches on Wiki संस्कृतम्:

स्वामी विवेकानन्दःहिन्दी३ सितम्बरकोलोम्बियाराजनीतिःमाणिक्यम्बराक् ओबामाबाहुश्रीगङ्गानगरम्गणेशःमिसिसिपीबोलोन्याहाडजोर्नी शल्यचिकित्सावेदव्यासःवाशिङ्टन्विपाशाभासःद्वादशज्योतिर्लिङ्गानि१४७४भारतेश्वरः पृथ्वीराजःसुश्रुतःकालिफोर्नियासुकरातऋषिभिर्बहुधा गीतं...रससम्प्रदायःभारतसावित्रीनीलः२१ अप्रैल१०९२नेदर्लेण्ड्देशः१८२८भरतः (नाट्यशास्त्रप्रणेता)१८७६सेनेगलश्रुतिःदस्तासन्तदास काठियाबाबाजडभरतः२८ मईब्रह्मार्पणं ब्रह्म हविः...नडियादहल्द्वानीदेवनागरी लेखनार्थॆ किं कर्त्तव्यम्खलुभूगोलीयनिर्देशाङ्कप्रणालीआलिवर क्रामवेलसागरःएक्वाडोरइतिहासः१८१०आङ्ग्लभाषाबट्टीपग्लियाशिक्षाशास्त्रस्य इतिहासःआफ्रिकाखण्डःसंस्कृतभाष्यम्१७३२लातिनीभाषापडुआकालिका पुराण७ मई🡆 More