# | नाम | चित्रम् | कार्यकालारम्भः | कार्यकालसमाप्तिः | उपराष्ट्रपतिः | विशेषम् |
---|---|---|---|---|---|---|
१ | डॉ. राजेन्द्र प्रसाद (१८८४-१९६३) | ६/१/१९५० | १२/५/१९६२ | डॉ. सर्वपल्ले राधाकृष्णन् | भारतगणराज्यस्य प्रप्रथमराष्ट्रपतिः । केवलम् अनेन एव वारद्वयं राष्ट्रपतित्वेन दायित्वम् ऊढम् । | |
२ | डॉ. सर्वपल्ले राधाकृष्णन् (१८८८-१९७५) | १३/५/१९६२ | १३/५/१९६७ | डॉ. जाकिर हुसैन | एतस्य राष्ट्रपतेः जन्मदिने आभारते शिक्षकदिनस्य उत्सवः भवति । | |
३ | डॉ. जाकिर हुसैन (१८९७-१९६९) | १३/५/१९६७ | ३/५/१९६९ | वराहगिरि वेङ्कट गिरि | भारतगणराज्यस्य प्रप्रथमः मुस्लिमराष्ट्रपतिः । | |
वराहगिरि वेङ्कट गिरि * (१८९४-१९८०) | ३/५/१९६९ | २०/७/१९६९ | तृतीयस्य राष्ट्रपतेः आकस्मिकनिधने सति एषः कार्यकारिराष्ट्रपतिः अभवत् । | |||
मुहम्मद हिदायतुल्लाह * (१९०५-१९९२) | २०/७/१९६९ | २४/८/१९६९ | राष्ट्रपतिनिर्वाचनार्थं वराहगिरि वेङ्कट गिरि इत्यनेन पदत्यागं कृतम् । अतः कार्यकारिराष्ट्रपतित्वेन एषः दायित्वम् अवहत् । | |||
४ | वराहगिरि वेङ्कट गिरि (१८९४-१९८०) | २४/८/१९६९ | २४/८/१९७४ | गोपाल स्वरूप पाठक | भारतगणराज्यस्य उत्थानार्थम् अनेन बहवः निर्णयाः स्वीकृताः । | |
५ | फकरुद्दीन अली अहमद (१९०५-१९७७) | २४/८/१९७४ | ११/२१९७७ | बसप्प दानप्प जत्ति | एतस्य कार्यकाले एव भारते आन्तरिकापत्कालस्य घोषणा अभवत् । केचन वदन्ति इन्दिरा गान्धी स्वयं राष्ट्रपतिभवनम् अगच्छत् हस्ताक्षरं कारयितुम् इति । केचन वदन्ति, “पञ्चविंशतितमे दिनाङ्के रात्रौ सञ्जय गान्धी स्वमित्रैः सह राष्ट्रपतिभवनम् अगच्छत् । बलेन आपत्कालप्रस्तावे राष्ट्रपतेः हस्ताक्षरम् अकारयत् सः” इति । | |
बसप्प दानप्प जत्ति * (१९१२-२००२) | ११/२/१९७७ | २५/७/१९७७ | फकरुद्दीन अली अहमद इत्यस्य हृदयाघातेन आकस्मिकमृत्युः अभवत् । अतः अनेन राष्ट्रपतित्वेन दायित्वम् ऊढम् । | |||
६ | नीलं सञ्जीव रेड्डि (१९१३-१९९६) | २५/७/१९७७ | २५/७/१९८२ | मुहम्मद हिदायतुल्लाह | स्वस्य कर्मनिष्ठा-कुशलता-निर्णयशक्तिभिः श्रीसञ्जीवः भारतस्य राजनैतिकस्थितिं समीकर्तुं सफलः अभवत् । | |
७ | ज्ञानी जैलसिंह (१९१६-१९९४) | २५/७/१९८२ | २५/७/१९८७ | रामस्वामी वेङ्कटरामन् | अस्य नाम्ना ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खविरोधिहिंसायाः च स्मरणं भवत्येव । भारतस्य तयोः हृद्व्रणयोः दोषी कः इति पञ्चत्रिंशत्वर्षपश्चाद् अद्यापि प्रश्न एवास्ति । अतः देशजनाः खिन्नमनसा श्रीज्ञानी जैलसिंह इत्येनं स्मरन्तः सन्ति । परन्तु सत्यता तु अस्ति यत्, देशस्य हृदि यथा ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खहिंसायाः च पीडा अस्ति, तथैव तस्य हृदि अपि आसीत् । स्वयं सः, तस्य पुत्री च बहुवारं तयोः व्रणयोः विषये स्वपीडां देशस्य सम्मुखम् उपास्थापयत् । | |
८ | रामस्वामी वेङ्कटरामन् (१९१०-२००९) | २५/७/१९८७ | २५/७/१९९२ | शङ्कर दयाल शर्मा | राष्ट्रपतित्वेन प्रप्रथमभाषणं कुर्वन् श्रीवेङ्कटः अवदत्, “पञ्चत्रिंशत्वर्षं पुरा भारतस्य सर्वप्रथमः राष्ट्रपतिः श्रीराजेन्द्र प्रसाद यदा अस्मिन् सभाखण्डे राष्ट्रपतित्वेन शपथम् अकरोत्, तदा मम कल्पना अपि नासीत् यत्, अहमपि राष्ट्रपतित्वेन सम्मानं प्राप्स्यामि इति । अद्य देशजनाः यं सम्मानं मह्यम् अयच्छन्, तत्सम्मानाय अनुगृहीतोऽस्म्यहम् । अहमेतत्पदं न केवलं गौरव-प्रतिष्ठयोः प्रतीकत्वेन पश्यामि, अपि तु मम कृते साहसपूर्णदायित्वेन एतत् कार्यम् अस्ति” इति । | |
९ | शङ्कर दयाल शर्मा (१९१८-१९९९) | २५/७/१९९२ | २५/७/१९९७ | कोचेरिल् रामन् नारायणन् | राष्ट्रपतित्वेन श्रीशङ्करस्य कार्यकालः बहु अस्तव्यस्तः आसीत् । तस्य कार्यकालस्य प्रथमे वर्षे एव अयोध्यायां स्थितं बाबरी मस्जिद इति मुस्लिमजनानां प्रार्थनास्थलं ध्वस्तम् अभूत् । | |
१० | कोचेरिल् रामन् नारायणन् (१९२०-२००५) | २५/७/१९९७ | २५/७/२००२ | किशन कान्त | राष्ट्रपतित्वेन श्रीनारायणस्य कार्यकाले वारद्वयं लोकसभायाः भङ्गः अभवत् । प्रथमवारं १९९७ तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे (४/१२/१९९७) दिनाङ्के गुजराल इत्यस्य नेतृत्वस्य सर्वकारस्य पतनम् अभवत् । १९९८ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे (२६/४/१९९८) दिनाङ्के अटल बिहारी वाजपेयी इत्यस्य नेतृत्वस्य सर्वकारस्य पतनम् अभवत् । | |
११ | डॉ. ए पी जे अब्दुल कलाम (जन्म १९३१) | २५/७/२००२ | २५/७/२००७ | भैरोंसिंह शेखावत | भारतस्य महान् वैज्ञानिकः एषः प्रख्यातराष्ट्रपतिः । | |
१२ | प्रतिभा पाटील (जन्म १९३४) | २५/७/२००७ | २५/७/२०१२ | मोहम्मद हमीद अन्सारी | भारतगणराज्यस्य प्रप्रथममहिलाराष्ट्रपतिः । | |
१३ | प्रणब मुखर्जि (जन्म १९३५) | २५/७/२०१२ | २५/७/२०१७ | मोहम्मद हमीद अन्सारी | ||
१४ | रामनाथः कोविन्दः (जन्म १९४५) | २५/७/२०१७ | Incumbent | प्रणब मुखर्जि | भारतगणराज्यस्य वर्तमानः राष्ट्रपतिः । |
This article uses material from the Wikipedia संस्कृतम् article भारतस्य राष्ट्रपतयः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.