एषा ज्ञानपीठप्रशस्ति: भारते कृतां साहित्यक्षेत्रीयाम् अपूर्वां सिद्धिम् अभिलक्ष्य दीयते प्रतिवर्षम् । ‘दि टैम्स् आफ् इण्डिया’-पत्रिकाया: प्रकाशकै: साहुजैनपरिवारीयै: ‘भारतीयज्ञानपीठ’नामक: न्यास: प्रतिष्ठापित: । श्री साहुशान्तिप्रसादजैन, श्रीमती रमा जैन च एतस्य प्रतिष्ठापकौ । एतेन न्यासेन दीयते एषा प्रशस्ति: । प्रशस्तिरेषा पञ्चलक्षरूप्यकात्मिका भवति इदानीम् । संविधानेन अनुमतया ययाकयाचिदपि भाषया कृता कृतिरचना एव एतां प्रशस्तिं प्राप्तुम् अर्हा भवति । भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः १९६० तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे मलयालस्य लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, एकादशलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।
साहुशान्तिप्रसादजैनवर्य: क्रि.श.१९११ तमे वर्षे उत्तरप्रदेशे नजीबाबादनगरे जन्म प्राप्नोत् । बनारसहिन्दुविश्वविद्यालये आगराविश्वविद्यालये च तेन विज्ञानविषयिणी स्नातकपदवी प्राप्ता । वाराणस्याम् अखिलभारतीयं प्राच्यविद्यासम्मेलनं यत् प्रवृत्तं तत्र विद्वद्भि: सूचितं यत् साहित्यक्षेत्रस्य प्रोत्साहनाय राष्ट्रस्तरीया गौरववर्धिका काचित् विशिष्टा प्रशस्ति: प्रदातव्या, तदर्थं कश्चन न्यास: प्रतिष्ठापनीय: इति । तत: १९४४ तमे वर्षे फेब्रवरीमासस्य १८ दिनाङ्के ‘ज्ञानपीठप्रशस्ति’न्यास: प्रतिष्ठापित: जात: । शान्तिप्रसादजैनवर्य: अस्ति न्यासस्यास्य संस्थापकन्यासी । तस्य पत्नी रमाजैनवर्या न्यासाध्यक्षा जाता । २७.१०.१९७७ तमे वर्षे शान्तिप्रसादवर्य: दिवं गत: । क्रि.श.१९६५ तमात् वर्षात् ज्ञानपीठप्रशस्तिप्रदानप्रथा आरब्धा । आदौ प्रशस्तिमूल्यं सार्धैकलक्षरूप्यकात्मकम् आसीत् । इदानीं तु प्रशस्तिमूल्यम् अस्ति पञ्चलक्षरूप्यकात्मकम् । प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति । क्रि.श.१९८२ तः ,एतां प्रशस्तिं भारतीयसाहित्यस्य कृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।
मलयाळभाषीय: जि. शङ्करकुरुपवर्य: प्रथमां ज्ञानपीठप्रशस्तिं प्राप्तवान् क्रि.श.१९६८ तमे वर्षे । क्रि.श.१९८२ तमवर्षपर्यन्तम् अपि विशिष्टसेवां कृतवत: कृतिकारस्य विशिष्टायै कृत्यै एषा प्रशस्ति: प्रदीयते स्म । किन्तु अनन्तरकाले निर्णीतं यत् समग्रां सिद्धिम् अभिलक्ष्य एव एषा प्रदातव्या इति । अद्यापि सा एव परम्परा अनुवर्तते । हिन्दीभाषया कन्नडभाषया च सप्तवारं, वङ्गभाषया पञ्चवारं, मलयाळभाषया मराठीभाषया च चतुर्वारम्, उर्दुगुजरातिभाषाभ्यां त्रिवारम्, असामिया-ओरिया-पञ्जाबी-तळिलु-तेलुगुभाषाभि: द्विवारं च एषा प्रशस्ति: प्राप्ता । ज्ञानपीठप्रशस्तिं प्राप्तवती पञ्चदशी भाषा संस्कतम् । ११.११.०८ दिनाङ्के २००५, २००६ वर्षयो: ज्ञानपीठप्रशस्ति: घोषिता ज्ञानपीठप्रशस्तिभाज: डा सीताकान्तमहापात्रस्य आध्यक्ष्येण युक्तया समित्या । २००५ तमवर्षीया प्रशस्ति: हिन्दीकविना कुन्वरनारायणवर्येण सम्प्राप्ता ।
क्रि.श.२००६ तमवर्षीया प्रशस्ति: संस्कृतीयेन सत्यव्रतशास्त्रिवर्येण, कोङ्कणीभाषीयेण रवीन्द्रकेळकरवर्येण च सम्प्राप्ता । ४२ तमी प्रशस्ति: एषा । संस्कृतेन एषा प्रशस्ति: प्राप्ता अस्ति ऐदम्प्राथम्येन ।
वर्षम् | नाम | ग्रन्थः | भाषा | |
---|---|---|---|---|
१९६५ | जि शङ्कर कुरूप्प् | ओटकुऴल् (वंशी) | मलयाळम् | |
१९६६ | ताराशङ्कर वन्द्योपाध्यायः | गणदेवता | बाङ्गला भाषा | |
१९६७ | कुप्पळ्ळि वेङ्कटप्प पुट्टप्प (कुवेम्पु) | श्री रामायणदर्शनम् | कन्नड | |
१९६७ | उमाशङ्कर जोशि | निशीथ | गुजराती | |
१९६८ | सुमित्रानन्दन् पन्त् | चिदम्बर | हिन्दि | |
१९६९ | फिरक् गोरख्पुरि | जुल्-ए-नग्मा | उर्दु | |
१९७० | विश्वनाथ सत्यनारायण | रामायण कल्पवृक्षमु | तेलुगु | |
१९७१ | बिष्णु डे | स्मृति सत्ता भविष्यत् | बाङ्गला भाषा | |
१९७२ | रामधारी सिङ्ग् दिनकर | ऊर्वशी | हिन्दी | |
१९७३ | द.रा.बेन्द्रे | नाकुतन्ति | कन्नड | |
१९७३ | गोपिनाथ मोहान्ति | परज | ओरिया | |
१९७४ | विष्णु सखाराम खण्डेकर | ययाति | मराठी | |
१९७५ | पि वि अखिलन् | चित्रप्पवै | तमिळ् | |
१९७६ | आशापूर्णा देवी | प्रथम प्रतिश्रुति | बाङ्गला भाषा | |
१९७७ | शिवराम कारन्तः | मूकज्जिय कनसुगळु | कन्नड | |
१९७८ | सच्चिदानन्द हीरानन्द वात्स्यायन अज्ञेय | कितनी नावों में कितनी बार | हिन्दी | |
१९७९ | बीरेन्द्रकुमार् भट्टाचार्य | मृत्युञ्जय | अस्सामी | |
१९८० | एस् के पोट्टेकट् | ओरु देशथिन्ते कथा | मलयालम् | |
१९८१ | अमृताप्रीतम् | कगज् ते केन्वास् | पञ्जाबी | |
१९८२ | महादेवी वर्मा | यम | हिन्दी | |
१९८३ | मास्ति वेङ्कटेश ऐय्यङ्गार्यः | चिक्कवीरराजेन्द्र | कन्नड | |
१९८४ | तकाझि शिवशङ्कर पिल्लै | कायर् | मलयाळम् | |
१९८५ | पन्नालाल् पटेल् | मानवि नि भवाय् | गुजराती | |
१९८६ | सच्चिदानन्द राउत राय | ओरिया | ||
१९८७ | विष्णु वामन शिर्वाड्कर् (कुसुमाग्रज्) | नट्सम्राट् | मराठी | |
१९८८ | डा.नारायणरेड्डि सि | विश्वम्भर | तेलुगु | |
१९८९ | कुर्रतुलैन् हैदर् | अखिरे शाब् के हम्साफर् | उर्दु | |
१९९० | वि.कृ.गोकाकः | भारत सिन्धु रष्मि | कन्नड | |
१९९१ | सुभाष मुख्योपाध्यायः | पदाति | बाङ्गला भाषा | |
१९९२ | नरेश मेह्ता | हिन्दी | ||
१९९३ | सीताकान्त महापात्र | "भारतीयसाहित्यस्य अभिवर्धनाय तेन कृतम् अपूर्वं योगदानं निमित्तीकृत्य १९७३-९२" | ओरिया | |
१९९४ | यु आर् अनन्तमूर्तिः | कन्नडसाहित्याय तदीयं योगदानं निमित्तीकृत्य | कन्नड | |
१९९५ | एम् टि वासुदेवन् नैयर् | रण्टामूऴम् | मलयाळम् | |
१९९६ | महाश्वेता देवी | हाजार चुराशीर मा | बाङ्गला भाषा | |
१९९७ | अलि सर्दार् जफ्रि | उर्दु | ||
१९९८ | गिरीश कार्नाडः | "कन्नडसाहित्याय कन्नडरङ्गभूमये (ययातिः) तेन कृतं योगदानं निमित्तीकृत्य" | कन्नड | |
१९९९ | निर्मल वर्मा | हिन्दि | ||
१९९९ | गुर्डियल् सिङ्ग् | पञ्जाबी | ||
२००० | इन्दिरा गोस्वामी | अस्सामी | ||
२००१ | राजेन्द्र केशवलाल् षा | गुजराती | ||
२००२ | जयकान्तन् डि | तमिळ् | ||
२००३ | विन्दा कराण्डिकर् | अष्टदर्शन (काव्यम्) | मराठी | |
२००४ | रह्मन् रहि | सुबुक् सोड, कलमि रहि, सैयद् रोडे जरेन् मन्ज्झ् च | काश्मीरि | |
२००५ | कुन्वर् नारायण् | हिन्दी | ||
२००६ | रवीन्द्र केलेकर् | कोङ्कणी | ||
२००६ | सत्यव्रतशास्त्री | संस्कृतम् | ||
२००७ | ओ एन् वि कुरूप् | मलयाळम् | ||
२००८ | अक्लाख् मोहम्मद् खान् 'षाह्रयार्' | उर्दु | ||
२००९ | अमर कान्त तथा श्रीलाल शुक्ल | हिन्दी | ||
२०१० | डा.चन्द्रशेखर कम्बार | समग्रं साहित्यम् | कन्नड |
This article uses material from the Wikipedia संस्कृतम् article ज्ञानपीठप्रशस्तिः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.