विश्वकोशः

यस्मिन् लोके विद्यमानाः प्रायेण सर्वेऽपि विषयाः व्यवस्थितरूपेण निरूपिताः भवन्ति सः विश्वकोषः इत्युच्यते।

विश्वकोशः
ब्रिटानिक् इङ्ग्लिष् विश्वकोषस्य १५तमी आवृत्तिः। (क्रि.श १९७४-२०१०)
विश्वकोशः
अद्यत्वे सङ्गणके अन्तर्जालद्वारा प्राप्तुं शक्यः विश्वकोषः

व्युत्पत्तिः

विश्वकोषः [आङ्लम्: Encyclopedia / Encyclopaedia एन्^सैक्ल(/सैक्लो)पीडिअ] इति विश्वे विद्यमानां सर्वेषां विषयाणां कोषः।

इतिहासः

विश्वकोशः 
Naturalis Historiæ - १६६९ तमावृत्त्याः शीर्षकपुटम्
  • विश्वकोषसदृशाः ग्रन्थाः प्रायेण २००० वर्षेभ्यः प्राक् अपि आसन्। क्रि.पू ११६ तमे वर्षे रोम्-देशस्य मार्कस् टेरेन्सि अस्-वारो(Marcus Terentius Varro) इत्येषः नैन् बुक्स् आफ डिसिप्लीन्स्(Nine Books of Disciplines) इति विश्वकोषसदृशं ग्रन्थम् अरचयत्। एषः ग्रन्थः विश्वकोषकर्तॄणां मार्गदर्शकः अभवत्।
  • क्रि.श ७७-७८ तमे वर्षे रोम् देशस्य फ्लिनि दि एल्डर्(Pliny the Elder) इत्येषः न्याचुरल् हिस्टरी(Natural History, Naturalis Historia) इति विश्वकोषं रचितवान्। क्रि.श ८०० तमे वर्षे विरचिते चीना-देशस्य टुयु इत्येतस्य विश्वकोषे विषयाः व्यवस्थितरूपेण विभक्ताः आसन्।
  • क्रि.श ९४७-१००२ वर्षेषु चीना-देशस्य उषु इत्येषः ३० भागात्मकं विश्वकोषं व्यरचयत्। आधुनिकविश्वकोषाणां रचनं १७-१८ शतमानकाले आरब्धम्।
विश्वकोशः 
ब्रिटानिक् इंग्लिष् विश्वकोषस्य प्रथमा आवृत्तिः। (क्रि.श १७६८-१७७१)
विश्वकोशः 
Brockhaus Konversations Lexikon - जर्मन् विश्वकोषस्य १४तमावृत्तिः। (१८९६–१९०८)

प्रसिद्धाः विश्वकोषाः

  • एन्सैक्लोपीडिया ब्रिटानिका: एषः आधुनिकविश्वकोषेषु प्राचीनतमः। एतस्य प्रथमा आवृत्तिः १७६८ तमे वर्षे प्रकाशिता।
  • विकिपीडिया: एषः कश्चन अन्तर्जाल-आधारितः विश्वकोषः। अत्र अनेकासु भाषासु लेखाः समुपलभ्यन्ते। आङ्लभाषायामेव प्रायः ४.७ दशलक्षं लेखाः वर्तन्ते।

भारते विश्वकोषाणां संरचनम्

  1. पौराणिकविषयैः सह वैद्यकीयं, व्याकरणं, ज्यौतिषं, नाट्यं, सङ्गीतेत्यादयः विषयाः गरुडपुराणे, अग्निपुराणे नारदपुराणे च विद्यन्ते। एते ग्रन्थाः वाङ्मयकोषाः इत्युच्यन्ते।
  2. 'षड्दर्शनसमुच्चयः' इत्येषः आयुर्वेदग्रन्थोऽपि विश्वकोषकल्पः। आग्नेयपुराणम् सर्वविद्यासङ्ग्रह इति नाम्ना विश्वकोषस्वरूपतां भजते।
  3. क्रि.श १९०२-१९११ वर्षे बेङ्गालिभाषया रङ्गनाथमुखर्जी एवं नागेन्द्रनाथबसु इत्याभ्यां विरचितः २२ सम्पुटात्मकः विश्वकोषः भारतस्य प्रथमः विश्वकोषः इति कीर्तिभाक् भवति।
  4. क्रि.श १९१३ तमे वर्षे कोमराजु वेङ्कटलक्ष्मणराव् इत्येषः तेलुगुभाषया विश्वकोषं प्रकाशयितुं प्रायतत।
  5. क्रि.श १९६२ तमे वर्षे चेन्नै नगरतः ९ सम्पुटात्मकः विश्वकोषः तमिळुभाषया प्रकाशितः।
  6. क्रि.श१९७२ तमे वर्षे केरळतः सर्वविज्ञानकोषम् इति २० सम्पुटात्मकः विश्वकोषः प्रकाशितः।

टिप्पणी

बाह्यसम्पर्कतन्तुः

Tags:

विश्वकोशः व्युत्पत्तिःविश्वकोशः इतिहासःविश्वकोशः प्रसिद्धाः विश्वकोषाःविश्वकोशः भारते विश्वकोषाणां संरचनम्विश्वकोशः टिप्पणीविश्वकोशः उद्धरणम्विश्वकोशः बाह्यसम्पर्कतन्तुःविश्वकोशः

🔥 Trending searches on Wiki संस्कृतम्:

सेशेलदिशा पटानी६६धर्मसूत्रम्५३८चीनीभाषाश्येनःमुम्बईयुद्धम्जून ११विराटपर्वकौसल्याभयाद्रणादुपरतं...अभिनेताआर्याछन्दःओडिशी१७७३ब्रह्मदेशःप्रक्षेपणक्रीडावामनपुराणम्१००नवम्बर २अन्तर्जालम्२ दिसम्बरमध्वाचार्यस्य कृतयःमयि सर्वाणि कर्माणि...बसवजयन्तीपुराणलक्षणम्जापानी भाषाअरशियामावैशेषिकदर्शनम्भासःअम्लम्आर्षसाहित्यम्रवीन्द्रनाथ ठाकुरसचिन तेण्डुलकरपर्यावरणशिक्षाशाकानिवाचस्पतिमिश्रःवालोकसभा२३७कमला सोहोनी५६०समासःहर्षचरितम्योगदर्शनस्य इतिहासःपेट्रिक एम एस ब्लाकेटमासचुसेट्‍सप्कणादःकर्मसंन्यासयोगःजया किशोरीजनवरी १९महाभारतम्अष्टाङ्गहृदयम्शिरोवेदनाओसामा बिन् लाडेन्मध्वसिद्धान्तःन च मत्स्थानि भूतानि...शबरस्वामीलाओसकांगो गणराज्यम्पतञ्जलिस्य योगकर्मनियमाःबृहत्संहितासत्ययुगम्जावाजातीफलम्मन्ना डेनरेन्द्र सिंह नेगीबलरामपुरम्🡆 More