मेषराशिः

मेषः द्वादश राशिषु अन्यतमः अस्ति । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

मेषराशिः
मेषः

नामौचित्यम्

मेषस्य स्वभावः अस्ति अनुसरणशीलतागम्भीरता अपि तदीयः स्वभावः । अतः धैर्य-अग्रे गमनम्-अनुसरणशीलता-व्यवहारनिर्वहणम् - एतान् गुणान् सङ्केतयितुं मेषः उदाह्रीयते । अस्मिन् राशौ विद्यमानेषु एतानि तत्त्वानि दृश्यन्ते ।

अधिपतिः

मेष-वृश्चिकयोः अधिपतिः कुजः । ग्रहराज्यव्यवस्थायां कुजः भवति दण्डनायकः । निर्णयानाम् अन्वयनशक्तिः, अद्भुतनिर्वहणाशक्तिः, न्याययुत-योजनायुतजीवनाय प्रयत्नशीलता च कुजस्य स्वभावः । मेषराशिवन्तः निर्णयानां कार्यान्वयनविषये अतीव जागरूकाः भवन्ति । अन्येषाम् आधिपत्यं, स्वीये कार्ये अन्येषां प्रवेशं च एते न सहन्ते । समीचीनतया कार्यनिर्वहणं, अन्यैः कार्यकारणञ्च एतेषां वैशिष्ट्यम् । एते सर्वदा अपि कस्मिंश्चित् कार्ये मग्नाः भवन्ति । परिश्रमेण एव आनन्दः अनुभूयते एतैः । कार्यकरणे सर्वे क्लेशाः आनन्देन एव एतैः सम्मुखीक्रियन्ते ।
निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।

राशिभावः

मेषः सहजप्रथमभावः इति निर्दिश्यते । प्रथमभावे आत्मविश्वासः, स्वयं शक्तिः, सामर्थ्यम्, शरीरम् - इत्येतेषाम् आद्यता भवति । मेषराशिवत्सु अपि अयं भावः दृग्गोचरः भवति ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः

पुरुषजातिः, चरसंज्ञकः, पूर्वदिशः स्वामी, क्षत्रियवर्णः, पर्वतीयप्रदेशे विचरणकर्ता, रजोगुणयुक्तः, कान्तिहीनः, अल्पसन्ततिः, पृष्ठोदयी, अग्नितत्त्वयुक्तश्च भवति मेषराशिः । अस्य स्वामी मङ्गलग्रहः वर्तते । उक्तं च -

    पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी ।
    पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ॥ (बृ पा हो शा - २/७)

स्म्बद्धानि अक्षराणि

मेषराशौ अश्विन्याः ४ पादाः, भरण्याः ४ पादाः, कृत्तिकायाः प्रथमः पादः भवति इत्यतः चू, चे, चो, ला, ली, लू, ले, लो, आ ... इत्येतानि अक्षराणि मेषसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्

येषां जन्मदिनम् मार्च्-मासस्य २१ दिनाङ्कतः एप्रिल्-मासस्य २० दिनाङ्कतः पूर्वं भवति तेषां मेषराशिः ।

Tags:

मेषराशिः नामौचित्यम्मेषराशिः अधिपतिःमेषराशिः राशिभावःमेषराशिः जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयःमेषराशिः स्म्बद्धानि अक्षराणिमेषराशिः जन्मदिनम्मेषराशिःकन्यारशिःकर्कटराशिःकुम्भराशिःतुलाराशिःधनूराशिःमकरराशिःमिथुनराशिःमीनराशिःवृश्चिकराशिःवृषभराशिःसिंहराशिः

🔥 Trending searches on Wiki संस्कृतम्:

कोरियालिभाषादलितजनः३३९कृषिःप्राचीनज्योतिषम्अद्वैतवेदान्तःशबरस्वामीभजनरीतिसम्प्रदायःपिकः१५ जुलाईमार्च १९श्येनःसितम्बर १६१२३८आवर्तसारणीबाङ्काजया किशोरीअक्षरमाला७८५४३५यमःन्‍यू यॉर्क्अन्ताराष्ट्रीयमहिलादिनम्ललितापुरुषार्थःकल्पशास्त्रस्य इतिहासःअलङ्कारग्रन्थाःजयललितासंस्कृतवर्णमालामहाभारतम्धर्मशास्त्रप्रविभागःदिङ्नागःनीतिशतकम्पुराणलक्षणम्विष्णुपुराणम्गुरूनहत्वा हि महानुभावान्...२०११कलियुगम्भारतीयप्रबन्धनसंस्था (IIM)इतिहासःइण्डो-सिथियन्स् (साम्राज्यम्)सरदार वल्लभभाई पटेलसंस्कृतवाङ्मयम्अभिनवगुप्तःसङ्गणकम्सुबन्धुःसर्वपल्ली राधाकृष्णन्गुनामण्डलम्जापानी भाषावक्रोक्तिसम्प्रदायःभारतस्य इतिहासःदेवनागरी१७३०प्रतीपअष्टादश महाशक्तिपीठनियमःभासनाटकचक्रम्स्वामी शिवानन्दसरस्वती२५ मार्चभारतस्य नृत्यकलाःपञ्चरात्रम्सहाराउत्तर-अमेरिकाखण्डः८१२कृष्णजन्माष्टमीअक्षय कुमार१००अभिनेता११२७१.४४ उत्सन्नकुल…🡆 More