जलम्

जलम् ( ( शृणु) /ˈdʒələm/) (हिन्दी: जल, आङ्ग्ल: Water) एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः (Blue Planet ) इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते ।

जलम्
जलबिन्दुः

अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते ।

जलीयचक्रम्

जलम् एकं चक्रीयसंसाधनं वर्तते । पौनःपुन्येन जलस्य उपयोगः क्रियते । अस्मिन् जलचक्रे जलं महासागरतः धरातलं, धरातलतः महासागरं प्राप्नोति । इदं चक्रं सततं कार्यरतम् अस्ति । पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते । जलस्य वितरणं पृथिव्याम् असमानम् अस्ति । केषुचित् क्षेत्रेषु जलम् अधिकमात्रायां प्राप्यते । किन्तु केषुचित् क्षेत्रेषु अल्पमात्रायाम् एव प्राप्यते । पृथिव्यां पातुं योग्यं जलम् अल्पमात्रायाम् एव अस्ति । जलस्य आवश्यकता सर्वत्र अधिका वर्तते । अतः सर्वत्र जलसमस्या उत्पद्यते । नदीनां जलं प्रदूषितं भवति । तेन समस्याः उत्पद्यन्ते ।

जलस्य वितरणम्

पृथिव्याः ७५% भागः जलेन आच्छादितः वर्तते । यद्यपि पृथिव्यां स्थलस्य अपेक्षया जलस्य मात्रा अधिका वर्तते, तथापि अनेकेषु देशेषु जलसमस्या अस्ति । किन्तु पृथिव्याः सम्पूर्णं जलं पातुं योग्यं नास्ति ।

पृथिव्याः ९७.३०% जलं महासागरेषु विद्यते । हिमाच्छादितं जलं २%, भूमिगतं जलं ०.६८%, तडागानाम् (lake) अलावणं जलं ०.००९%, स्थलीयसमुद्राणां, लवणीयतडागानां जलं ०.००९%, वायुमण्डले जलं ०.००१९%, नदीषु जलं ०.०००१% वर्तते ।

आधुनिके काले नाल-कूपमाध्यमेन जलसिञ्चनं क्रियते । जनाः तेन माध्यमेन जलसङ्ग्रहणं कुर्वन्ति । तज्जलस्य वितरणम् अपि कुर्वन्ति । सर्वकारः जनेभ्यः जलवितरणाय नगरे महाभाण्डानां रचनां करोति । तदनन्तरं तेषु महाभाण्डेषु नाल-कूपमाध्यमेन जलं प्रपूर्य जनेभ्यः जलवितरणं करोति । तज्जलं प्रतिगृहं प्राप्यते । किन्तु साम्प्रतं सर्वत्र जलस्य अशुद्धिः दृश्यते । तेन कारणेन बहवः रोगाः समुद्भवन्ति । वर्तमानकाले सर्वकारेण जलवितरणस्य व्यवस्था प्रचाल्यते । प्राचीनकाले जलस्य प्राप्तेः स्थानानि परिवर्तितानि । तेन जलस्य गुणदोषेषु अपि परिवर्तनं दृश्यते ।

जलस्य विभिन्ननामानि

  • यदा वर्षा भवति, तदा वर्षाजलं एकत्रितं भवति । एकीभूय प्रवाहेण तज्जलं पर्वतान् अपि उल्लङ्घयति । तदनन्तरं तज्जलं विशालक्षेत्रं प्राप्य नदीस्वरूपं धरति । तज्जलं नादेयम् इति कथ्यते ।
  • यज्जलं भूमिम् उद्भिद्य धारारूपेण प्रवहति, तज्जलम् उद्भिजम् इति कथ्यते ।
  • यज्जलं पर्वतस्य उन्न्तप्रदेशात् अधः पतति, तत् निर्झरः भवति । तदा तज्जलं नैर्झरम् इति कथ्यते ।
  • यत्र जलं पर्वतैः अवरुध्यते तत्र सरोवराः जलाशयाः वा भवन्ति । तज्जलं सारसम् इति उच्यते ।
  • भूमिम् उद्भिद्य पाषाणैः गहनकूपस्य रचना क्रियते । यस्मिन् कूपे बहुजलराशेः सङ्ग्रहः भवति । तज्जलम् कौपम् इति कथ्यते ।
  • यत्र सोपानानि निर्मीय चतुष्कोणाकृतौ जलसङ्ग्रहः भवति, तत् स्थानं वापीः उच्यते । वाप्याः जलं वाप्यम् इति कथ्यते ।
  • लघुतडागः वा लघुसरोवरः पल्वम् कथ्यते । तज्जलं पाल्वम् इति कथ्यते ।

इत्थं पुरा स्थानानुसारं जलनामानि भवन्ति स्म । जलस्य गुणाः अपि नामानुसारं भिन्नाः भवन्ति स्म ।

वायुमण्डले जलम्

वायौ जलबाष्पः प्राप्यते । ऋतूनां परिघटनायाम् अस्य महत्वपूर्णं योगदानं वर्तते । वायुमण्डले जलं तिसृषु अवस्थासु प्राप्यते । वायुः, द्रवमयं, कठोरं च । जलाशयेभ्यः बाष्पीकरणेन, पादपेषु बाष्पोत्सर्जनेन च वायुमण्डले आर्द्रता प्राप्यते । अतः एव बाष्पीकरणस्य, बाष्पोत्सर्जनस्य, सङ्घननस्य, वर्षायाः च प्रक्रियया वायुमण्डलस्य, महासागरस्य, महाद्वीपस्य च मध्ये जलस्य परस्परम् आदान-प्रदानं च भवति ।

वायौ उपस्थितः जलबाष्पः आर्द्रता कथ्यते । वायुमण्डले स्थितस्य जलबाष्पस्य वास्तविकमात्रा निरपेक्षार्द्रता कथ्यते ।

बाष्पीकरणं सङ्घननञ्च

बाष्पीकरणेन, सङ्घननेन च वायुमण्डले जलबाष्पस्य मात्रा अल्पाधिका भवति । बाष्पीकरणप्रक्रियया जलं द्रवरूपात् बाष्पावस्थायां परिवर्तते । ताप एव बाष्पीकरणस्य मुख्यकारणं वर्तते । यावत् वायोः गतिः तीव्रा भवेत् तावत् बाष्पीकरणस्य तीव्रता भवति ।

जलबाष्पस्य जलरूपे परिवर्तनं सङ्घननं कथ्यते । ऊष्मायाः ह्रासः एव सङ्घननस्य कारणं वर्तते । यदा आर्द्रवायुः शीतलः भवति, तदा तस्य जलबाष्पधारणस्य क्षमता नष्टा भवति । ततः अतिरिक्तः जलबाष्पः द्रवे सङ्घनितः भवति । यदा सः जलबाष्पः कठोररूपे परिवर्तते, तदा ऊर्ध्वपातनम् इति कथ्यते । सङ्घनने लघुकणाः सङ्घननकेन्द्रकाः कथ्यन्ते । वायुमण्डले तापमानस्य न्यूनता सङ्घननाय सु-अवस्था वर्तते ।

सङ्घननात् परं वायुमण्डलस्य जलबाष्पः, आर्द्रता च अवश्यायस्य (Dew), खबाष्पस्य (Mist), हिमस्य, मेघस्य च स्वरूपे परिवर्तते । स्थितेः तापमानस्य आधारेण सङ्घननस्य प्रकाराः वर्गीकृताः ।

अवश्यायः (Dew)

यदा आर्द्रता धरातले, पाषाणेषु, तृणेषु, पादपानां पत्रेषु च जलबिन्दु एव स्थिता भवति, तदा इयम् आर्द्रता अवश्यायः कथ्यते । अस्य निर्माणे सर्वोपयुक्तायाः अवस्थायाः, स्वच्छाकाशस्य, शान्तवायोः आवश्यकता वर्तते ।

हिमः

यदा सङ्घननं तापमानस्य ० º सेल्सीयस् इत्यतः अपि अधः गच्छति, तदा शीतलस्तरेषु हिमस्य निर्माणं भवति । शेषाः जलबिन्दवः लघुहिमकणेषु परिवर्तन्ते ।

खबाष्पः(Mist)

यदा अधिकमात्रायां जलबाष्पयुतः वायुः सहसा अधः पतति, तदा लघुकणेषु एव सङ्घननप्रक्रिया भवति । अतः खबाष्पः भवति । अस्य आधारः भूस्तरः वा भूस्तरस्य समीपे भवति । खबाष्पेन दृश्यता न्यूनं भवति । नगरीयकेन्द्रेषु, औद्योगिककेन्द्रेषु च धूमस्य अधिकतायाः कारणेन केन्द्रकानाम् अपि आधिक्यं भवति । तेन खबाष्पनिर्माणे साहाय्यं भवति । केन्द्राणां परितः सङ्घननप्रक्रिया भवति ।

मेघः

जलस्य लघुबिन्दुभिः, हिमस्य लघुकणैः मेघस्य निर्माणं भवति । सः अधिकोच्चतायां स्वतन्त्रवायौ जलबाष्पस्य सङ्घननेन निर्मीयते । मेघस्य निर्माणं भूस्तरात् अल्पोच्चतायाम् एव भवति । अतः मेघाः विभिन्नाकारेषु दृश्यन्ते । उच्चतायाः, विस्तारस्य, घनत्वस्य, पारदर्शितायाः, अपारदर्शितायाः च आधारेण मेघानां चतुर्षु रूपेषु विभाजनं कृतम् अस्ति । पक्षाभमेघः, कार्पासीयमेघाः, स्तरीयमेघः, वर्षामेघः च ।

पक्षाभमेघः

८,००० तः १२,००० मी. पर्यन्तम् औन्नत्ये पक्षाभमेघस्य निर्माणं भवति । यदा आकाशे अयं प्रशोचते, तदा इमे पक्षाः इव दृश्यन्ते । इमे सदैव श्वेतवर्णीयाः एव विद्यन्ते ।

कार्पासीयमेघः

कार्पासीयमेघः कार्पासमिव दृश्यते । इमे प्रायः ४,००० तः ७,००० मी. पर्यन्तम् औन्नत्ये निर्मीयन्ते । एतेषाम् आधारः समतलः भवति ।

स्तरीयमेघः

नाम्ना एव ज्ञायते यत् इमे स्तरयुताः मेघाः सन्ति । एतेषां निर्माणम् उष्मायाः ह्रासेन वा तापमाने वायूनां परस्परमेलने भवति ।

वर्षामेघः

वर्षामेघः कृष्णवर्णीयः वर्तते । अयं भूतलस्य समीपे भवति । सूर्यकिरणेभ्यः इमे अपारदर्शिनः भवन्ति । कदाचित् वर्षामेघाः अल्पौन्नत्ये भवन्ति, तेन भूस्तलं स्पृशन्ति इति भासते । वर्षामेघानां बृहद्जलबाष्पस्य आकृतिविहीनाः समूहाः वर्तन्ते ।

वर्षणम्

जलम् 
वर्षायाः स्थितिः

स्वतन्त्रवायौ सङ्घननप्रक्रियया सङ्घनितकणानां स्वरूपं बृहत् भवति । यदा गुरुत्वाकर्षणबलेन वायोः प्रतिरोधकक्षमता न्यूना भवति, तदा ते कणाः भूस्तरेषु पतन्ति । अतः जलबाष्पस्य सङ्घननप्रक्रियायाः आर्द्रतायाः मुक्तिः वर्षणं कथ्यते । अयं द्रवावस्थायां वा कठोरावस्थायां भवति । यदा जलरूपे वर्षणं भवति, तदा वर्षा कथ्यते, यदा तापमानं ० º सेल्सीयस् इत्यतः अपि अधः गच्छति, तदा हिमशिलारूपे वर्षणं भवति । सः हिमपातः कथ्यते ।

वर्षायाः प्रकाराः

उत्पत्त्याधारेण वर्षा त्रिषु प्रकारेषु विभक्ता अस्ति । संवहनीयवर्षा, पर्वतीयवर्षा, चक्रवातीयवर्षा च ।

१. संवहनीयवर्षा

उष्णवायुः अल्पभारेण संवहनधारारूपे उपरि गच्छति । वायुमण्डलस्य उपरिस्तरं प्राप्य अयं विस्तीर्यते । अनन्तरं तापमाने न्यूने सति जलं शीतलं भवति । तस्य परिणामेण सङ्घननप्रक्रिया भवति । तया कार्पासीमेघानां निर्माणं भवति । मेघगर्जनेन वर्षौघः भवति । किन्तु अयम् अल्पकालीनः एव वर्तते । इयं वर्षा प्रायः ग्रीष्मर्तौ, उष्णदिनेषु च भवति । इयं विषुवतीयक्षेत्रेषु, उत्तरीयगोलार्धस्य महाद्वीपानाम् आन्तरिकभागेषु च भवति ।

२. पर्वतीयवर्षा

यदा सन्तृप्तवायूनां समूहः पर्वतीयक्षेत्रं प्राप्नोति, तदा ऊर्ध्वगमने बाधा भवति । वायुमण्डलस्य बाह्यस्तरं प्राप्य वायुः विस्तीर्यते । न्यूनतापमानेन आर्द्रता सङ्घनिता भवति । तेन कारणेन वर्षा भवति । पवनाभिमुखपर्वतानाम् उपह्वरे (declivity) अधिकवर्षा भवति । अस्मिन् उपह्वरे वर्षणानन्तरं सः अपरम् उपह्वरं (declivity) प्राप्नोति । अनन्तरम् अधः गमने तापमानस्य वृद्धिर्भवति । तदा तस्य आर्द्रताधारणस्य क्षमतायाम् अपि वृद्धिर्भवति । तेन कारणेन पवनविमुखम् उपह्वरं (declivity) शुष्कं, वर्षाविहीनं च विद्यते । पवनविमुखं क्षेत्रं वृष्टिच्छायाक्षेत्रं कथ्यते । इयं पर्वतीयवर्षा, स्थलकृतवर्षा वा इति अपि कथ्यते ।

३. चक्रवातीयवर्षा

इयं वर्षा चक्रवातेन, अवदाबेन सह भवति । शीतलवायौ आर्द्रवायोः प्रवाहेन आर्द्रवायुः सङ्घनितः भवति, तेन चक्रवातीयवर्षा भवति । शीतोष्णकटीबन्धीयक्षेत्रेषु वर्षा चक्रवातैः एव भवन्ति । यदा चक्रवातस्य शीतवाताग्रे शीतलवायुः उष्णवायुं तीव्रतया ऊर्ध्वं क्षिपति, तदा सङ्घननप्रक्रिया अपि तीव्रतया भवति । तेन कारणेन मेघा गर्जनां कुर्वन्ति । मेघगर्जनया सह तीव्रवर्षा भवति । वर्षायां हिमखण्डानि अपि आपतन्ति । यदा उष्णवायुः वक्रीभूयः मन्दगतिना ऊर्ध्वं गच्छति, तदा सङ्घननम् अपि मन्दं मन्दं भवति । तेन वर्षा विस्तृतक्षेत्रेषु भवति । उष्णकटिबन्धीयचक्रवातैः ग्रीष्मकाले पर्याप्तवर्षा जायते ।

संसारे वर्षायाः वितरणम्

एकस्मिन् वर्षे पृथिव्यां विभिन्नक्षेत्रेषु विभिन्नमात्रायां वर्षा भवति । सा विभिन्न्तायाम् अपि भवति । यदा वयं विषुवत्-वृत्ततः ध्रुवं प्रति गच्छामः, तदा वर्षायाः मात्रा न्यूना भवति । महाद्वीपानाम् आन्तरिकभागानाम् अपेक्षया विश्वस्य तटीयक्षेत्रेषु अधिका वर्षा भवति । विश्वस्य स्थलीयभागानाम् अपेक्षया महासागरेषु अधिका वर्षा भवति । कारणं तत्र जलस्य आधिक्येन बाष्पीकरणप्रक्रिया सततं प्रचलति । विषुवत्-वृत्ततः ३५ º तः ४० º उत्तरे, दक्षिणाक्षांशानां मध्य-पूर्वीतटेषु अत्यधिकं वर्षा भवति ।

वार्षिकवर्षणस्य मात्रायाः आधारेण विश्वस्य मुख्यवर्षणप्रवृत्तिः अधो लिखितरूपेण ज्ञायते ।

विषुवतीयपट्टिकायां, शीतोष्णप्रदेशेषु पश्चिमीतटीयपर्वतानां वायोः उपह्वरेषु वर्षा अत्यधिका भवति । महाद्वीपानाम् आन्तरिकेषु भागेषु १०० तः २०० से. मी. वर्षा भवति । महाद्वीपानां तटीयक्षेत्रेषु मध्यमवर्षा भवति । उष्णकटिबन्धीयक्षेत्रस्य केन्द्रीयभागेषु, शीतोष्णक्षेत्राणां पूर्वी-आन्तरिकभागेषु प्रतिवर्षं ५० तः १०० से. मी. वर्षा भवति । महाद्वीपानाम् आन्तरिकभागस्य वृष्टिच्छायाक्षेत्रेषु, उच्चाक्षांशानां क्षेत्रेषु प्रतिवर्षं ५० से. मी. इत्यस्मात् अपि न्यूना वर्षा भवति । विषुवतीयपट्टिकायां, शीतलसमशीतोष्णप्रदेशेषु आवर्षं वर्षा भवति ।

महासागरीयं जलम्

महासागरीयं जलं सदैव गतिमत् भवति । किन्तु तडागानां जलं शान्तं भवति । भौतिकविशेषताभिः, बाह्यबलस्य प्रभावेण च महासागरीयजलं गतिं प्राप्नोति । महासागरीयजले द्विप्रकारके गती स्तः । क्षैतिजा, ऊर्ध्वाधरा च । महासागरीयधाराणां क्षैतिजगतिः अस्ति । ज्वार-भाटा ऊर्ध्वाधरगतिः वर्तते । तरङ्गः जलस्य क्षैतिजगतिः अस्ति । धारासु जलम् एकस्मात् स्थलात् अन्यत्र गच्छति । किन्तु तरङ्गेषु जलस्य गतिः न भवति। सूर्यचन्द्रमसोः आकर्षणेन जलस्य उच्चैः अधश्च गतिः भवति । अधस्थलात् शीतलजलस्य उत्प्रवाहः अवप्रवाहः महासागरीयजलस्य ऊर्ध्वाधरगतेः प्रकारौ स्तः । महासागरस्य गतीनाम् अपि विभाजनं कृतम् अस्ति यत् – तरङ्गः, ज्वार-भाटा, धाराः च ।

तरङ्गः

जलम् 
जलतरङ्गः

महासागरीयं जलं सततम् उच्चैरधश्च पतति । सा स्थितिः तरङ्गः कथ्यते । वास्तविकत्वेन तरङ्गाः ऊर्जा वर्तते, जलं न । वायोः जलम् ऊर्जां प्राप्नोति । तेन तरङ्गाः उत्पद्यन्ते । महावाते वायुना विशालाः तरङ्गाः उत्पद्यन्ते । तैः अत्यधिकः विनाशः भवितुं शक्नोति । भूकम्पेन, ज्वालामुखिना, भूस्खलनेन च महासागरीयं जलम् अत्यधिकं विस्थापितं भवति । तेन कारणेन १५ मी. उन्नताः विशालाः ज्वारीयाः तरङ्गाः भवितुं शक्नुवन्ति । ते तरङ्गाः सुनामी इति कथ्यते । एतेषां तरङ्गानां गतिः ७०० कि. मी. प्रति घण्टा भवति । वायोः तीव्रतया तरङ्गस्य उच्चतमस्य बिन्दोः ज्ञानं भवति । गुरुत्वाकर्षणबलं तरङ्गानां शिखराणि अधः आकर्षयति । तरङ्गस्य अधः जलस्य गतिः वृत्ताकारा भवति ।

ज्वार-भाटा

प्रतिदिनं महासागरेषु जलस्य स्तरं वर्धते, न्यूनीभवति च । तत् ज्वार-भाटा इति कथ्यते । यदा जलैः समुद्रतटं जलमग्नं भवति, तदा ज्वार इति कथ्यते । ज्वार इत्यस्य विपरीतस्थितिः भाटा इति कथ्यते ।

सूर्यचन्द्रसोः गुरुत्वाकर्षणबलेन पृथिव्यां ज्वार-भाटा उत्पद्यते । यदा पृथिव्याः जलं चन्द्रमसः समीपम् आगच्छति, तदा चन्द्रसः गुरुत्वाकर्षणबलेन जलम् अभिकर्षितं भवति । तेन ज्वार भवति । पूर्णिमायां, अमावास्यायां च दिवसे पृथिविः, सूर्यः, चन्द्रमा च एकस्यां रेखायां भवति । तदानीं सर्वोच्चाः ज्वार उत्पद्यन्ते । सः बृहत् ज्वार इति कथ्यते । यदा चन्द्रमा स्वस्य प्रथमे वा अन्तिमे चतुर्थांशे भवति, तदा पृथिव्याः, सूर्यस्य च गुरुत्वाकर्षणबलं विपरीतदिक्षु भवति । तेन निम्न ज्वार भवति । सः लघु-ज्वार इति कथ्यते ।

उच्च-ज्वार नौकाचालने सहायकः भवति । मत्स्योद्योगे अपि उच्च-ज्वार साहाय्यं करोति । ज्वार-भाटा इत्यस्य उपयोगः विद्युदुत्पादनाय अपि क्रियते ।

ज्वार-भाटा इत्यस्य प्रकाराः

ज्वार इत्यस्य आवृत्त्यां, दिशि, गतौ च स्थानीयसामयिकी भिन्नता प्राप्यते । ज्वार-भाटा इत्यस्य विभिन्नेषु प्रकारेषु वर्गीकरणं तेषां प्रतिदिनम् उन्नतायाः वा आधारेण क्रियते ।

अर्ध-दैनिकः ज्वार (Semi-diurnal)

इयं सर्वसामान्यप्रक्रिया वर्तते । तस्यान्तर्गतं प्रतिदिनम् उच्चद्वयं, निम्नद्वयं च ज्वार इति अयम् उत्पद्यते । अस्य औन्नत्यं समानं भवति ।

दैनिकः ज्वार (Diurnal tide)

अस्यां प्रक्रियायां प्रतिदिनम् एकः उच्चः, एकः निम्नः ज्वार उत्पद्यते । तयोः औन्नत्यं समानं भवति ।

मिश्रितः ज्वार (Mixed tides)

यस्य ज्वार-भाटा इत्यस्य औन्नत्ये भिन्नता वर्तते सः मिश्रितः ज्वार-भाटा इति कथ्यते । अयं सामान्यतः उत्तर-अमेरिकामहाद्वीपस्य पश्चिमतटे, प्रशान्तमहासागरस्य बहुषु द्वीपसमूहेषु च उत्पद्यते ।

सूर्यचन्द्रपृथिवीनां स्थित्याधारितः ज्वार-भाटा (Spring tides)

उच्चज्वार इत्यस्य औन्नत्ये भिन्नता पृथिव्याः सापेक्षयोः सूर्यचन्द्रमसोः स्थित्या निर्भरा भवति । बृहत् ज्वार, निम्न ज्वार अस्मिन् वर्गे एव अस्ति ।

बृहत् ज्वार (Sring tides)

पृथिव्याः सन्दर्भे सूर्यचन्द्रमसोः स्थितिः ज्वार इत्यस्य औन्नत्यं प्रत्यक्षत्वेन प्रभावितं करोति । यदा त्रयः एकस्मिन् रेखायां स्थिताः भवन्ति, तदा ज्वार इत्यस्य उच्चता अधिकं भवति । सः बृहत् ज्वार इति कथ्यते । एताद्शी स्थितिः मासे वारद्वयं भवति । पूर्णिमायाम्, अमावास्यायां च ।

निम्नः ज्वार(Neap tides)

बृहत् ज्वार, निम्न ज्वार इत्येतयोः मध्ये सामान्यतः सप्तदिवसानाम् अन्तरं भवति । तस्मिन् समये चन्द्रमा, सूर्यश्च परस्परं समकोणे स्थितौ भवतः । तदा सूर्यचन्द्रमसोः गुरुत्वबलं परस्परं विरूद्धं कार्यं करोति ।

ज्वार-भाटा इत्यस्य महत्त्वम्

यद्यपि पृथिव्याः, सूर्यस्य, चन्द्रमसः च स्थितिः ज्वार इत्यस्य उत्पत्तेः कारणम् अस्ति । तेन कारणेन एतासां स्थितीनाम् अनुसारेण ज्वार-भाटा इत्यस्य पूर्वानुमानं कर्तुं शक्यम् अस्ति । अनेन नौकाचालकानां, धीवराणां (fisherman) च साहाय्यं भवति । नौकाचालने प्रवाहस्य अत्यधिकं महत्वं वर्तते । ज्वार इत्यस्य उच्चता अधिका महत्वपूर्णा वर्तते । ज्वार इत्यस्य उपयोगः विद्युतः उत्पादने अपि क्रियते ।

महासागरीयाः धाराः

महासागरीयधाराः महासागरेषु नदीनां प्रवाह इव वर्तन्ते । महासागरीयस्तरेषु नियमितरूपेण निश्चितदिशि जलधाराः प्रवहन्ति । ताः जलधाराः महासागरीयजलधाराः कथ्यन्ते । ताः उष्णाः, शीतलाः च भवन्ति । उष्णजलधाराः भूमध्यरेखायाः समीपे उत्पद्यन्ते । ताः धाराः ध्रुवान् प्रति प्रवहन्ति । शीतलजलधाराः निम्न-अक्षांशान् प्रति प्रवहन्ति । लेब्राडोर् महासागरीयजलधाराः शीतलजलधाराः सन्ति । गल्फस्ट्रीम् महासागरीयजलधाराः उष्णजलधाराः भवन्ति । उष्णजलधाराभिः स्थलस्य तापमानम् उष्णं भवति । यत्र उष्णशीतलाः जलधाराः प्राप्यन्ते तत्र मत्स्योद्योगः सर्वोत्तमः वर्तते । यदा शीतलाः उष्णाः जलधाराः परस्परं मिलन्ति, तदा नौकाचालने बाधा उत्पद्यते । महासागरीयजलधाराणां द्वे प्रकारके बले स्तः याभ्यां सा प्रभाविता भवति । प्राथमिकबलं, द्वितीयकबलं च । प्राथमिकबलं जलस्य गतिं वर्धयति । द्वितीयकबलं धाराणां प्रवाहस्य नियन्त्रणं करोति ।

जलस्य घनत्वे अन्तरं महासागरीयजलधाराणाम् ऊर्ध्वाधरगतिं प्रभावयति । अधिकलावणजलं निम्लावणजलस्य अपेक्षया अधिकं सघनं भवति । तदेव शीतलजलम् उष्णजलस्य अपेक्षया अधिकं सघनं वर्तते ।

महासागरीयधाराणां प्रकाराः

महासागरीयाः जलधाराः द्वयोः भागयोः विभक्ताः सन्ति । ऊर्ध्वजलधारा, गहनजलधारा च । महासागरीयजलस्य १०% भागः ऊर्ध्वजलधारा वर्तते । इमाः जलधाराः महासागरेषु ४०० मी. पर्यन्तम् सन्ति । महासागरीयजलस्य ९०% भागः गहनजलधारा वर्तते । महासागरेषु घनत्वस्य, गुरुत्वस्य च भिन्नतायाः कारणेन इमाः जलधाराः प्रवहन्ति । उच्चाक्षांशीयक्षेत्रेषु गहनधाराः प्रवहन्ति । कारणं तत्र न्यूनतापमानेन घनत्वम् अधिकं भवति ।

महासागरीयजलस्य तापमानम्

महासागरीयजलं भूमिः इव सूर्यस्य ऊर्जया उष्णं भवति । स्थलस्य तुलनायां जलस्य तापनशीतलनप्रक्रिया मन्दं वर्तते ।

बहवः कारकाः महासागरीयजलं प्रभावितं कुर्वन्ति । यथा – अक्षांशः, स्थलस्य, जलस्य च असमान वितरणं, सनातनवायुः, महासागरीयधाराः इति ।

एते सर्वे कारकाः महासागरीयधाराणां तापमानं स्थानिकरूपेण प्रभावितं कुर्वन्ति । निम्नाक्षांशेषु स्थितानां समुद्राणां तापमानम् अन्यसमुद्राणाम् अपेक्षया अधिकं भवति । किन्तु उच्चाक्षांशेषु स्थितानां समुद्राणां तापमानम् अन्यसमुद्राणाम् अपेक्षया न्यूनं भवति ।

महासागरीयजलस्य लवणता

सर्वेषु जलेषु खनिजलवणं मिश्रितं भवति । समुद्रजलेषु लवणस्य मात्रायाः निर्धारणं लवणता कथ्यते । लवणतायाः निर्धारणं १००० ग्रा. समुद्रजले मिश्रितस्य जलस्य मात्रया भवति । इयं PPT इति साङ्केतिकभाषायां गण्यते । लवणता समुद्रजलस्य महत्वपूर्णः गुणः वर्तते ।

महासागरीयलवणतायाः प्रभावकाः

  1. महासागराणां स्तरस्य जलस्य लवणता मुख्यतः बाष्पीकरणे, वर्षणे च निर्भरा भवति ।
  2. वायुः जलस्य एकस्थलात् अन्यत्र स्थानपरिवर्तनं कृत्वा लवणतां प्रभाविता करोति ।
  3. महासागरीयधाराः अपि लवणतायां भिन्नानाम् उत्पादयन्ति ।

जलस्य लवणता तापमानं, घनत्वं च परस्परं सम्बद्धं भवति । अतः तापमानस्य, घनत्वस्य च परिवर्तनं कस्यचित् क्षेत्रस्य लवणतां प्रभावितां करोति ।

जलस्य उपयुक्तमात्रा

मनुष्यजीवनं पञ्चमहाभूतानां संयोगेन एव सम्भवति । पञ्चमहाभूतेषु जलस्य महत्त्वम् अधिकं वर्तते । जले विशिष्टं नाविन्यं भवति । तन्नाविन्यम् अन्येषु महाभूतेषु नास्ति । जलं शीतलं भवति । अतः यत्र यत्र प्राप्यते तत्र शीतलता एव अनुभूयते । जलस्य प्रभावेण मरुस्थले अपि वृक्षाः उद्भवन्ति । मृदुता, पवित्रता, गतिशीलता, चञ्चलता इत्यादयः जलस्य स्वभावाः सन्ति । किन्तु पृथिव्याः ७५% स्थलं जलयुक्तं वर्तते । तथापि तत् सम्पूर्णं जलं पानार्थं योग्यं नास्ति । तस्य जलस्य केवलं १% जलमेव पानार्थम् अस्ति । अतः यत्र पेयजलं प्राप्यते । तत्र जनैः स्वस्य आवासव्यवस्था कृता अस्ति । नद्याः तटे बहवः तीर्थस्थानानि सन्ति । अतः तत्र जलस्य महत्त्वं भवति । किन्तु जनाः जलस्य अधिकमात्रायां दुरुपयोगं कुर्वन्ति । तेन कुत्रचित् स्थले जलाभावः अपि भवति । तेन जनैः जलस्य सदुपयोगः संयमेन करणीयः इति आवश्यकम् । जलस्य नैकधा उपयोगः भवति । प्रायः प्रतिदिनं ‘प्रतिव्यक्तति’ २०० ली. जलस्य आवश्यकता भवति । तस्य अपि विभागाः भवन्ति ।

  1. पानाय, भोजनाय, भोजननिर्माणाय च ५० ली. जलस्य आवश्यकता भवति ।
  2. स्नानाय, वस्त्रप्रक्षालनाय, गृहस्वच्छतायै च ५० ली. जलस्य आवश्यकता भवति ।
  3. शौचालयस्वच्छतायै २५ ली. जलस्य आवश्यकता भवति ।
  4. नगरस्वच्छतायै २५ ली. जलस्य आवश्यकता भवति ।
  5. उद्योगाय २५ ली. जलस्य आवश्यकता भवति ।
  6. पशुपालनाय २५ ली. जलस्य आवश्यकता भवति ।

इदम् अनुमानं वर्तमानसमये असम्भवम् एव । कारणं साम्प्रतं जलस्य उपयोगः विचारं विना एव क्रियते ।

आयुर्वेदे भगवता आत्रेयेण जलस्य बहवः भेदाः प्रदर्शिताः सन्ति । तेन लिखितं यत् – आकाशात् जलं पतति । पतनकाले तज्जलं वायुसूर्यौ संस्पृशति । तदा जलस्य गुणे परिवर्तनं भवति । पृथिवीं स्पृष्ट्वा जलं शीतोष्णस्निग्धरुक्षगुणयुक्तं भवति । तज्जलस्य प्रकारद्वयम् अस्ति ।

  • दिव्यजलम्, अन्तरीक्षजलं वा
  • ऐन्द्रजलम्

दिव्यजलम्, अन्तरीक्षजलं वा

आकाशात् पतितस्य जलस्य यदि भूमेः स्पर्शात् पूर्वमेव सङ्ग्रहः भवति तर्हि तज्जलं दिव्यजलम् इत्युच्यते । शीतलता, पवित्रता, कल्याणकारिता, सुस्वादुता, स्वच्छता इत्यादयः दिव्यजलस्य गुणाः सन्ति इति चरकाचार्येण उक्तम् अस्ति ।

इदं दिव्यजलं तर्पणकारकं, हृदयरहितं, आनन्दप्रदं, मेधावर्धकं, अव्यक्तरसयुक्तं, शीतलं, लघुः, अमृततुल्यं, प्राणधारकं, मूर्च्छावस्थायां शरीरसन्धायकं, श्रेष्ठतमं च वर्तते ।

दिव्यजलस्य प्रकाराः

आयुर्वेदे दिव्यजलस्य चत्वारः प्रकाराः दृश्यन्ते । “तत्रान्तरीक्षं चतुर्विधं तद्यथा धारं कारं तौषारं हैममिति” ।

१ धारम्, २ कारम्, ३ तौषारम्, ४ हैमम् इति चत्वारः सन्ति ।

चतुर्षु प्रकारेषु धारं मुख्यम् अस्ति । तत् लघुत्वेन गुणाधिक्येन च उत्तमं कथ्यते । यज्जलं स्थूलवस्त्रे, सुवर्णपात्रे, रजतपात्रे, ताम्रपात्रे, स्फटिकपात्रे, मृद्पात्रे वा संगृहीतं भवति तज्जलं धारजजलं कथ्यते । धाराजजलस्य प्रकारद्वयं भवति ।

  1. गाङ्गजलम् – यज्जलं गङ्गायाः जलवत् पवित्रं शुद्धं वा भवेत् तज्जलं गाङ्गजलम् इति कथ्यते । साम्प्रतं काशीक्षेत्रे, औद्योगिकक्षेत्रेषु च गङ्गाजलं पवित्रं तु अस्ति किन्तु शुद्धं नास्ति । कारणं तस्मिन् जले बह्व्यः अशुद्धयः सन्ति । तज्जलं पेयम् अपि नास्ति ।
  2. सामुद्रजलम् – समुद्राणां जलं सामुद्रजलम् इति कथ्यते । समुद्रजले लवणस्य आधिक्यं भवति । अतः तज्जलं स्वास्थ्याय हितकरं न भवति । समुद्रस्य १ ली. जले ३५ ग्रा. लवणं भवति । तेन कारणेन तज्जलं रोगवर्धकः भवति ।

ऐन्द्रजलम्

मेघात् वर्षारूपेण यज्जलं शुद्धपात्रे संगृहीतं भवति, तदन्तरीक्षजलमेव ऐन्द्रजलमुच्यते । वृष्टेः जलं यस्मिन् पात्रे संगृह्यते, तदनुसारम् एव तस्य जलस्य गुणपरिवर्तनं भवति । अर्थात् सुवर्णपात्रं, रजतपात्रं, ताम्रपात्रं, मृत्पात्रं इत्यादीनां पात्राणामनुसारं जलस्य गुणधर्मः भवति ।

जलस्य गुणधर्मः

किन्तु वर्तमाने काले प्लास्टिक्-इत्यस्य अधिकः प्रयोगः भवति । महाभाण्डानां निर्माणाय अपि सिमेण्ट्-इत्यस्य उपयोगः क्रियते । तेन कारणेन जलस्य स्वभावः अपि परिवर्तते । जलस्य गुणदोषेषु अपि परिवर्तनं भवति । पृथिव्यां विभिन्नप्रकारकाः प्रदेशाः सन्ति । तेषामनुसारमेव जलस्य गुणाः परिवर्त्यन्ते । यदि जले पृथ्वीतत्त्वस्य आधिक्यं भवति, तर्हि तज्जलं लवणाम्लरसयुक्तं भवति । यदि जले जलतत्त्वस्य आधिक्यं भवति, तर्हि तज्जलं मधुररसयुक्तं भवति । यदि जले अग्नितत्त्वस्य आधिक्यं भवति, तर्हि तज्जलं कषायरसयुक्तं भवति । यदि जले आकाशतत्त्वस्य आधिक्यं भवति, तर्हि तज्जलं अव्यक्तगुणयुक्तं भवति ।

भूमेः वर्णानाम् अनुसारमपि जलस्य रसनिर्माणं भवति इति चरकाचार्येण उक्तम् । जलस्य श्वेतभूमौ कषायरसः, पाण्डुभूमौ तिक्तरसः, कपिलभूमौ क्षारयुक्तरसः, उषरभूमौ लवणरसः, पर्वतीयभूमौ कटुरसः, कृष्णभूमौ मधुररसः, नीलभूमौ कषायमधुररसः च भवति । कृष्णश्वेतभूमौ वायुसूर्याभ्यां यज्जलं प्रभावितं भवति, तज्जलं पवित्रं भवति इति आयुर्वेदाचार्येण उक्तम् । किन्तु आधुनिके काले अनया रीत्या जलपरीक्षा, स्वादानुभूतिः च कठिना भवति । साम्प्रतं वयं पात्रे संगृहीतस्य जलस्य एव स्वादम् अनुभवामः ।

जलस्य मृदुत्वं, कठिनं च

  • मृदुजलम् (Soft water) - मृदुजले लवणस्य मात्रा अल्पा भवति ।
  • कठिनजलम् (Hard water) – जले बहूनि तत्त्वानि भवन्ति । यथा – केल्शियम्, मेग्नेशीयम्, कार्बोनेट्स् इत्यादीनि तत्त्वानि भवन्ति । रासायनिककार्येषु कठिनजलं वर्ज्यम् अस्ति । कठिनजलस्य प्रयोगेण ज्वलनशीलपदार्थानां व्ययः वर्धते ।

जलस्य शुद्धिः, अशुद्धयः च

वर्तमाने काले जलस्य प्राकृतिकस्रोतांसि प्रदूषितानि जातानि सन्ति । प्राकृतिकाशुद्धेः अपेक्षया मानवीयाशुद्धयः अधिकाः सन्ति । तेन कारणेन मानवानां स्वास्थ्योपरि प्रभावः दृश्यते । ग्रीष्मर्तौ, वर्षर्तौ च अनेकाः रोगाः समुद्भवन्ति । मनुष्याः रोगिणः भवन्ति, तेषु केचन मृत्युमपि प्राप्नुवन्ति च ।

शुद्धजलस्य लक्षणम्

यस्य जलस्य पानेन कष्टं न अनुभूयते, रोगाः न भवन्ति च तज्जलं शुद्धं कथ्यते । यस्य पानेन शीतलता अनुभूयते, उत्साहः वर्धते, ऊर्जा उत्पद्यते च, तज्जलं शुद्धं, पवित्रं च भवति इति ज्ञातव्यम् ।

अशुद्धजलस्य लक्षणम्

यज्जलं पिच्छलं, फेनिलं, सान्द्रं, घट्टं, दुर्गन्धितं, विकृतवर्णं, मलीनम्, अस्वच्छं च भवति तज्जलम् अशुद्धं ज्ञातव्यम् ।

  1. कृमियुक्तं सूक्ष्मजन्तुयुक्तं च जलम् अशुद्धं कथ्यते ।
  2. सोमसूर्यांशुमारुतैः रहितं जलम् अशुद्धं कथ्यते ।
  3. शैवालपर्णङ्कतृणाविलं जलम् अशुद्धं कथ्यते ।
  4. अतिशीतोष्णेन दन्तग्राहिजलम् अशुद्धं कथ्यते ।

आयुर्वेदे अपि षड्प्रकारकस्य अशुद्धजलस्य वर्णनं कृतमस्ति ।

  1. स्पर्शदोषः – यज्जलं पिच्छिलं, उष्णं, दन्तग्राही भवति । तज्जलं स्पर्शदोषयुक्तं भवति ।
  2. रूपदोषः – यज्जलं शैवालयुक्तं, पर्णयुक्तं, पङ्कयुक्तं, वर्णयुक्तं, तृणयुक्तं च भवति तज्जलं रूपदोषयुक्तं भवति ।
  3. रसदोषः – जले रसः अव्यक्तः भवति । अतः यज्जले रसः व्यक्तः स्यात्, तज्जलं अशुद्धं ज्ञातव्यम् ।
  4. गन्धदोषः – यज्जलं दुर्गन्धयुक्तं भवेत्, तज्जलं गन्धदोषयुक्तं भवति ।
  5. वीर्यदोषः – यस्य जलस्य पानेन तृष्णायाः आधिक्यं भवति । तज्जलम् अशुद्धं ज्ञायते ।
  6. विपाकदोषः – यस्य जलस्य पानेन यकृतदोषः उद्भवति, तज्जलम् अशुद्धं कथ्यते ।

आधुनिकविज्ञानस्य अनुसारं जलस्य द्विविधा अशुद्धिः वर्तते ।

१ विलीनाशुद्धयः (Dissolved Impurities) – जले या अशुद्धिः विलीयते सा विलीना इति कथ्यते ।

  • यदा वृष्टिः भवति तदा ऑक्सीजन्, कार्बन्-डाई-ऑक्साइड्, नाइट्रोजन्, एमोनिया, हाइड्रोजन् सल्फाइड् इत्यादयः पदार्थाः वायवः वा वृष्टिजले मिलन्ति । तदनन्तरं ते पदार्थाः वायवः वा वृष्टिजलेन सह भूमौ आपतन्ति । एते कार्बनिकपदार्थाः कथ्यन्ते । ते विलीनशीलाः भवन्ति ।
  • भूमौ यदा लवणं पतति, तदा केल्शीयम्, मेग्नेशीयम्, सोडियम्, लोह, मेङ्गनीज् इत्यादयः भूमिस्थविलीनशीलपदार्थाः जले विलीयन्ते ।

२ तलस्थाशुद्धयः (Suspended Impurities) – रजोमृत्तिकापङ्कादीभिः या अशुद्धिः स्यात्, सा तलस्थाशुद्धिः । याः कार्बनिकाशुद्धयः सन्ति ताः – प्राणीजन्याः, वनस्पतिजन्याः च ।

  • प्राणीजन्या अशुद्धिः – ये जन्तवः बहुसूक्ष्माः भवन्ति, येषां दर्शने सूक्ष्मदर्शकयन्त्रस्य आवश्यकता भवति । ते सर्वे प्राणिनः अशुद्धिं कुर्वन्ति । यथा – बेक्टेरिया, वायरस्, कीटः च ।
  • वनस्पतिजन्या अशुद्धिः – शैवालः, पर्णानि, तृणानि इत्यादयः वनस्पतयः सन्ति ।

अनेन प्रकारेण यत्र जलस्य उद्गमः भवति । तत्रापि अशुद्धयः भवन्ति एव । यत्र जलस्य सञ्चयः भवति तत्रापि अनेकाः अशुद्धयः भवन्ति । याः अशुद्धयः प्राकृतिकाः भवन्ति, ताभिः अधिका हानिः न जायते । किन्तु याः मानवसर्जिताः अशुद्धयः सन्ति, ताभिः तु महती हानिः जायते । ताः अशुद्धयः भयङ्कराः सन्ति । प्लास्टिक्, नलिका, उद्योगः इत्यादिभिः जलं प्रदूषितं भवति ।

  • रासायनिककृषिद्रव्येण
  • वस्त्रोद्योगेन
  • रासायणिकवर्गोद्योगेन
  • चर्मोद्योगेन
  • एटोमिक-अणु-ऊर्जोत्पादनेन
  • लोहोद्योगेन
  • शर्करोद्योगेन
  • कर्गदोग्योगेन

इत्यादिभिः उद्योगैः कार्बनिक-अकार्बनिकाशुद्धयः जायन्ते । ताभिः अशुद्धिभिः बहवः रोगाः उद्भवन्ति । उपर्युक्तानि सर्वाणि उद्योगानि मानवनिर्मितानि सन्ति । अतः मनुष्यः एव तासाम् अशुद्धीनाम् उत्तरदायी अस्ति ।

अशुद्धजलस्य दुष्प्रभावाः

पुरा जलप्रदूषणानि अल्पानि एव भवन्ति स्म । तेषु प्रदूषणेषु मानवनिर्मितकारणानि अपि अल्पानि आसन् । तदा रोगाः अपि अल्पाः भवन्ति स्म । आयुर्वेदस्य मतानुसारं दूषितजलस्य प्रभावेण बहवः रोगाः समुद्भवन्ति । यथा – आध्मानः, ज्वरः, पाण्डुः, कण्डूः, शूलः, गुल्मः, अतिसारः इत्यादयः रोगाः दूषितजलेन समुद्भवन्ति । दूषितजलजन्यविकाराः आधुनिकतया विभिन्नाः सन्ति । ते विकाराः निम्नलिखिताः सन्ति –

१ जलस्थसङ्क्रामी-सङ्क्रमणजन्यविकाराः –

  • बेक्टेरीया-जन्यविकाराः – अतिसारः, प्रवाहिका, विसूचिका, टाइफोइड्, पेराटाइफोइड् च ।
  • वायरस्-जन्यविकाराः – पोलीयो, मायलायटीस्, बालपोलीयो, हेपेटाइटीस्, कामला च ।
  • कृमिजन्यविकाराः – जलस्थकृमि-अण्डजकृमयः, वृत्तकृमिः, इ कोलाइ च ।
  • प्रोटोजुआ-जन्यविकाराः – अमिबियासिस्, जियार्डियासिस् च ।
  • लेट्टोस्याइराजन्यविकाराः – लेप्टोस्याइरोसीस् ।

२ जलजप्राणिसंरभितकृमिजन्यविकाराः – गिनवर्म, टेपवर्म, सिस्टोसोमाइड् च ।

३ जलस्थविषजन्यविकाराः – सिलीनीयम्, केडमियम्, साइनाइड् च ।

पारदः इत्यादिभ्यः धातुभ्यः अपि जलम् अशुद्धं भवति । तेन जलेन अनेके विषजन्यरोगाः समुद्भवन्ति । यदि जले फ्लोराइड् तत्त्वस्य मात्रा अधिका भवेत् तर्हि अस्थिविकारः जायते । तेन फ्लोरोसिस् रोगाः भवन्ति ।

अनेन प्रकारेण दूषितजलेन मनुष्यः बहुभ्यः रोगेभ्यः ग्रस्तः अस्ति । जीवनपोषकत्वेन, रक्षकत्वेन च जलम् अस्ति । अतः यदि जलमेव दूषितं भवति तर्हि जलं स्वास्थ्याय हानिप्रदं भविष्यति । जलं प्रदूषितं न स्यात्, तादृशस्य वातावरणस्य आवश्यकता अस्ति ।

जलशोधनप्रकाराः

जलस्य शुद्ध्यर्थं प्रकारद्वयम् अस्ति । भौतिकपद्धतिः, रासायनिकपद्धतिश्च ।

भौतिकपद्धतिः

भौतिकपद्धतौ अपि चत्वारः प्रकाराः सन्ति । तद्यथा -

  1. वह्नौ उष्णीकरणम् – अग्निना सह सम्पर्केण जलस्य बेक्टेरीया-इत्ययं नश्यन्ति । तेन जलस्य शुद्धिर्भवति ।
  2. सूर्यतापतपनम् – सूर्यस्य तीक्ष्णकिरणैः जले स्थितानां जीवानां नाशः भवति ।
  3. ताप्तपिण्डम् – सुवर्णं, रजतं, लोहः, प्रस्तरः, सिकता इत्यादयः पदार्थाः जलं शुद्धीकुर्वन्ति । एतेषां पदार्थानाम् उष्णीकरणेन जले च सप्तवारं स्थापनेन जलस्य शुद्धिर्भवति ।
  4. वस्त्रगालितम् – पुरा जलस्य प्रदूषणं अधुना इव नासीत् । तस्मिन् समये जलं शुद्धं भवति स्म । यतः तदा प्रदूषकाः नासन् । किन्तु तथापि जलं वस्त्रेण निर्गाल्य एव उपयुज्यते स्म । साम्प्रतम् अपि ग्रामेषु नगरेषु वा वस्त्रेण निर्गाल्य एव जलस्य उपयोगं क्रियते । "वस्त्रपूताः पिबेदपः" इति मनुना उक्तम् ।

रासायणिकपद्धतिः

भारतीयसंस्कृतौ स्वास्थ्यरक्षणाय आयुर्वेदः उत्तमोत्तमं शास्त्रं मन्यते । आयुर्वेदे विभिन्नद्रव्यैः जलस्य शुद्ध्यर्थं प्रयोगाः प्राप्यन्ते । पुरातनकाले गोमेदमण्या, कमलमूलेन, वस्त्रेण इत्यादिभिः जलस्य शुद्धिः क्रियते । शुद्धौ सत्यां जले द्रव्याणां गन्धः अपि सम्मिलति स्म । तस्मात् गन्धात् साम्प्रतं अस्याः पद्धत्याः प्रयोगः न क्रियते ।

सुश्रुतसंहितायाम् अपि जलस्य शुद्ध्यर्थं प्रयोगाः लिखिताः सन्ति । धातुपात्रे, मृत्तिकापात्रे वा जलं स्थापयित्वा पानं करणीयम् । इतोपि नागकेशरचम्पकादिभिः पुष्पैः जलं शुद्धीकृत्य प्रयोगः कर्त्तव्यः । उष्णजलं स्वास्थ्याय लाभकरं वर्तते । उष्णजलं शीतलीकृत्य पानेन अपि स्वारोग्यं प्राप्यते । विविधरोगेभ्यः मुक्त्यर्थं जनाः उष्णजलं शीतलीकृत्य पानं कुर्वन्ति । तज्जलं स्वास्थ्यकारकं भवति ।

जलस्य शुद्धये यान्त्रिकी पद्धतिः अपि क्रियते । साम्प्रतम् अधिकेषु नगरेषु यन्त्रपद्धतिः प्रवर्तमाना दॄश्यते । किन्तु पुरा त्रिघटानां यन्त्रं निर्माय जलस्य शुद्धीकरणं क्रियते । त्रीन् घटान् क्रमानुसारं संस्थाप्य ऊर्ध्वघटयोः छिद्रं कृत्वा मध्ये वस्त्रं स्थाप्यते । ततः परम् ऊर्ध्वस्थितस्य घटस्य मध्ये सिकताः स्थाप्यन्ते । पुनः तस्मिन् घटे जलं पूरणीयम् । छिद्रात् जलं बहिर्निष्कास्य शुद्धं करणीयम् । मध्यस्थे घटे अङ्गारान् संस्थाप्य तेषां मध्यतः जलं शुद्धं भवति । किन्तु अस्मिन् प्रयोगे सूक्ष्मजन्तवः विद्यन्ते । अनेन कारणेन वर्तमानकाले अस्य प्रयोगः न क्रियते । यतो हि साम्प्रतं जले बहवः जन्तवः भवन्ति । अतः वर्तमानकालिकैः यन्त्रैः जलस्य शुद्धीकरणं क्रियते । तैः यन्त्रैः कीटकानां नाशः भवति ।

सम्बद्धाः लेखाः

  1. खानिजः
  2. मृत्तिका
  3. प्राकृतिकी आपद्
  4. पृथ्वी
  5. वायुः
  6. कृषिः

बाह्यानुबन्धः

सन्दर्भः

Tags:

जलम् जलीयचक्रम्जलम् जलस्य विभिन्ननामानिजलम् वायुमण्डले जलम् महासागरीयं जलम् जलस्य उपयुक्तमात्राजलम् जलस्य गुणधर्मःजलम् जलस्य मृदुत्वं, कठिनं चजलम् जलस्य शुद्धिः, अशुद्धयः चजलम् अशुद्धजलस्य दुष्प्रभावाःजलम् जलशोधनप्रकाराःजलम् सम्बद्धाः लेखाःजलम् बाह्यानुबन्धःजलम् सन्दर्भःजलम्

🔥 Trending searches on Wiki संस्कृतम्:

२१ फरवरी१३३७अण्टार्क्टिका१५४५माली१२७१फरवरी ११अक्तूबर २१२२ जून३५२२ अगस्त२४ मार्च१५६३फरवरी २६११४३३ जुलाई१३३३जून १८१२९८दिसम्बर ३०फरवरी २४संयुक्ताधिराज्यम्पुनर्नवासितम्बर ८आस्थाननवरत्नानि१२०७१०८७५०अजीम प्रेमजीफरवरी १७५ नवम्बर११३८८१२५ जुलाई२०२१५८सुबन्धुः३ नवम्बरदशरूपकम् (ग्रन्थः)रूसीभाषा२५ मार्चअगस्त ११६ अगस्तफ्रेङ्क्लिन रुजवेल्टअनुशासनम्सन्धिप्रकरणम्अक्तूबर १२सङ्गीतम्मई २४दिसम्बर २५१११३वैदिकसाहित्यम्कठोपनिषत्४४३२२ मार्च५ जूनपर्यावरण-संरक्षणम्बहासा इंडोनेशियामार्च २२मई १अक्तूबर २५८२५१७४५२१ जनवरीसितम्बर २०मई ६सायणःअल्बेनियासंस्कृतविकिपीडिया१३८२अक्षरं ब्रह्म परमं...६७१२२२🡆 More