भाषाविज्ञानम्: संकृत भाषा विज्ञान

भाषाविज्ञानं केवल साहित्यसम्पत्तिसमृद्धायाः एव भाषायाः अध्ययनं नहि करोति अपितु साहित्यिकसम्पत्तिविरहितायाः अपि भाषायाः वैज्ञानिकमध्ययनं करोति । भाषाविज्ञानस्य सम्बन्धः कस्याश्चन भाषायाः केनचन कालविशेषेणैव साकं नहि भवति अपितु तस्य सर्वेषां कालानां भाषाविषयकाणां तत्वैः साकं भवति । भाषाविज्ञानं भाषायाः कस्याश्चन तत्वानि सङ्लय्य तानि चाश्रित्य सिद्धान्तानामपि निर्धारणं करोति । अस्मिन्नध्ययने ध्वनिनामुच्चारणस्य, अक्षराणां, शब्दानां, पदानां वाक्यानां च संरचनाया विवेचनं क्रियते ।

ध्वनिविज्ञानम्

मानवभाषायाः अध्ययनस्य प्रमुखो विषयः ध्वनिः विद्यते । समपूर्णा भाषा ध्वन्याश्रिता भवति। अत एव भाषाविज्ञानेऽपि ध्वनेरध्यनस्य महत्वपूर्णस्थानं भवति। ध्वनिविज्ञाने मानवशरीरस्य उच्चरणोपयोगिनाम् अवयवानां परिचयः क्रियते। तानि चाङ्गनि निम्नाङ्कितानि सन्ति -

    १.स्वरयन्त्रम् २. मुखम् ३. जिह्वा, ४. ताल्वादिकं च।

ध्वनीनामुच्चारणस्थानस्य उच्चारणप्रयत्नस्य दृष्ट्यापि वर्गीकरणं क्रियते। तदनन्तरमिदमपि विचार्यते यत् तेषु ध्वनिषु कदा-कदा केन-केन च प्रकारेण विकासः सञ्जातः इति। तानेव ध्वनिविकासानाश्रित्य केचन निश्चिताः ध्वनिनियमा अपि क्रियन्ते। अत एव ध्वनिविज्ञानस्य इमे विषयाः सन्ति-उच्चरणावयवाः, ध्वनीनां संख्या, ध्वनीनां वर्गीकरणम्, ध्वनिविकाराणां दिशः, तासां कारणानि ध्वनिनियमाश्च।

पदविज्ञानम्

पदपदार्थं निरूपयता महर्षिणा पाणिनिनाऽभिहितम् - ‘सुप्तिङ्न्तं पदम्’ । तथाविधाः वर्णाः पदशब्देनाभिधीयन्ते येषां वर्णसमूहानामन्ते सुप्विभक्तिनामथवा तिङ्विभक्तिनां संयोगो भवति। आचार्यविश्वनाथेन अपि अभिहितम्-‘वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः’ इति । अस्मिन् पदविज्ञाने नानाविधानां पदानामध्ययनं क्रियते। यथा-संज्ञा सर्वनाम-क्रियाक्रियाविशेषणादिकानाम्, धातुरूपाणाम्, शब्दरूपाणाम् । अनेनैव साकमस्मिन् विज्ञाने पदानां मूलम्, पदानां व्युत्पप्तिः पदानां वाक्येषु प्रयोगाः, पदानां काले-काले सञ्जातं रूपपरिवर्तनम्, पदानां वाक्येषु देशकालानुसारेण विकारादिकाः विवेच्यन्ते । पदानि एव भाषायाः मूलभूतानि सन्ति। अत एव पदविज्ञानं भाषाविज्ञानस्य मूलभूतं विद्यते ।

वाक्यविज्ञानम्

अनेकेषां सार्थकानाम् अन्वितानाञ्च पदानां समूहो वाक्यमित्यभिधीयते । वाक्यस्य स्वरूपं निरूपयता आचार्येण विश्वनाथेनाभिहितम् - ’वाक्यं स्याद् योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः’ इति। अयमाशयो यत् पदानां समूह एव वाक्यमित्यभिधीयते । परन्तु तस्मिन् पदसमूहे वैशिष्ट्यत्रयमपोक्षितं भवति वाक्यत्वाय -

योग्यता

योग्यानां पदानां समूहो वाक्यमित्यभिधीयते । यथा अग्नेः योग्यता दाहक्रियायामेवाऽस्ति, न तु सिञ्चनक्रियायाम्। अत एव अग्निना सिञ्चतीति वाक्यं न भवितुमर्हति, अपितु जलेन दह्यतीति वाक्यं न भवितुमर्हति, अपितु जलेन सिञ्चतीत्येव वाक्यम्।

आकाङ्क्षा

अनेनैव प्रकारेण साकाङ्क्षाणामेव पदानां समूहो वाक्यमित्यभिधीयते, न तु निराकाङ्क्षाणाम्। यथा ’रामो गच्छतीत्येव वाक्यम्, न् तु रामः श्यामः मोहनाः’ इति पदानां समूहो वाक्यं भवितुमर्हति, एतेषां पदानाम् आकाङ्क्षारहितत्वात्।

आसत्तिः

अननैव प्रकारेण पदेषु वाक्यत्वायासत्तिरप्यावश्यकम्। सा चासत्तिरपि द्विप्रकारकौ - कालकृता स्थानकृता च । कालकृताऽऽसत्तेरभावादेव अद्याभिहितस्य रामः इति पदस्य दिनान्तरेऽभिहितेन ’गच्छति’ इति पदेन साकं वाक्यता नहि जायते। इत्थमेव ’रामो गिरिर्भुङ्क्ते अग्निमान्’ इति पदानां समूहेऽपि वाक्यत्वं नास्ति स्थानकृतऽऽसत्तेरभावात्। अतः ’रामो गिरिरग्निमान्’ इत्यनेन प्रकारेण पदानां क्रमेण भाव्यम् । अस्मिन् पदविज्ञाने वाक्यरचनाविषयको विचारः प्रस्तूयते, वाक्यानां भेदाश्चाधीयन्ते । अत्र वाक्यानाम् ऐतिहासिकं तुलनात्मकमध्येयनमपि प्रस्तूयते।

अर्थविज्ञानम्

शब्दार्थयोः शब्दविदः अभोदसम्बन्धं स्वीकुर्वन्ति । सर्वे शब्दाः सार्थकाः भवन्ति । मानवाः तान्-तान् अर्थानेवोद्दिश्य, तान् बोधयितुं तेषां-तेषां शब्दानां प्रयोगं कुर्वन्ति । निरर्थकानां शब्दानामुच्चारयिता विक्षिप्त अथवा मूर्ख इत्यभिधियते। गौः शब्दस्य प्रयोगः गोत्वावच्छिन्नायाः व्यक्तेः बोधनायैव क्रियते। इत्थं ज्ञायते यत् यदि शब्दाः शरीरभूतास्सन्ति तदा अर्थाः तेषामात्माभूताः । येन प्रकारेणात्मानं विना शरीरं नश्यति, तेनैव प्रकारेण शब्दानामपि सार्थकता अर्थैरेव भवति। अत एवार्थविज्ञानं भाषाविज्ञानस्यातीव महत्वपूर्णमङ्गं वर्तते । अर्थविज्ञाने यथा अभियुक्तशब्दस्य प्रयोगः प्राचीने काले प्रामाणिकपुरुषरूपस्यार्थस्य बोधनाय क्रियते स्म, किन्तु वर्तमाने काले तस्य शब्दस्य प्रयोगः सातसपुरुषस्य बोधनाय क्रियते। इत्थं शब्दानाम् अर्थपरिवर्तनानि तेषामर्थपरिवर्तनानां कारणानि प्रभृतयो विषयाः अर्थविज्ञानस्य विषयाः सन्ति ।

सम्बद्धाः लेखाः

Tags:

भाषाविज्ञानम् ध्वनिविज्ञानम्भाषाविज्ञानम् पदविज्ञानम्भाषाविज्ञानम् वाक्यविज्ञानम्भाषाविज्ञानम् अर्थविज्ञानम्भाषाविज्ञानम् सम्बद्धाः लेखाःभाषाविज्ञानम्

🔥 Trending searches on Wiki संस्कृतम्:

वत्ससाम्राज्यम्अन्तर्जालम्राजनीतिःआङ्ग्लभाषाकर्कटरोगःवाचस्पत्यम्अल्बेनियाविकिस्रोतः१५९०उपनयनसंस्कारःसऊदी अरबसाङ्ख्यदर्शनम्पक्षिणःअष्टाध्यायीमुरासाकी शिकिबुताजमहलग्रेनाडाजैनधर्मःकतारहिमाचलप्रदेशराज्यम्अभिज्ञानशाकुन्तलम्जपान्लुक्का१६५३धर्मशाला, हिमाचलप्रदेशः१५५२तैत्तिरीयोपनिषत्श्रीविजयराजवंशःबहरैच्वायुःया निशा सर्वभूतानां...कुस्तुम्बरीमहाभारतम्अभ्यङ्गःगुरु नानक देवबाणभट्टःरसःयदा यदा हि धर्मस्य...चार्वाकदर्शनम्दृश्यकाव्यम्फ्लोरिडावाल्मीकिःज्सुप्तवज्रासनम्2.44 स्वाध्यायादिष्टदेवतासंप्रयोगःन्‍यू यॉर्क्गेन्जी इत्यस्य कथालाट्वियावेदान्तःन्संयुक्ताधिराज्यम्रतन टाटातुर्कमेनिस्थानम्जर्मनभाषाआर्यसिद्धान्तःबेट्मिन्टन्-क्रीडाक्षमा रावकलियुगम्दुष्यन्तःॐ मणि पद्मे हूँबौद्धधर्मःओङ्कारेश्वरःमध्यमव्यायोगःमुजफ्फरनगरम्भारतस्य नृत्यकलाःअलङ्काराःसर्बियाउदजनमुहम्मद्टोगोली क्वान् यूवृक्षासनम्१००वेदाङ्गानाम् इतिहासःऋग्वेदः🡆 More